भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 310, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 310

पि॒तॄणा॑म् । अर्ध॑ उप॑मन्थति । अर्धो॑ हि पि॒तॄणा॑म् । एक॒योप॑मन्थति (४) । एका॒ हि पि॒तॄणा॑म् । दक्षि॑णोप॑मन्थति । दक्षि॑णावृद्धि पि॒तॄणा॑म् । अना॑रभ्योप॑मन्थति । तद्धि पि॒तॄन्गच्छ॑ति । इ॒मां दिशं॑ वेदि॒मुद्ध॑न्ति उ॒भये॑ दे॒वाश्च॑ पि॒तर॑श्चे॒जय॑न्तै । चतु॑ःस्रक्तिः भ॑वति । सर्वा॒ ह्यनु॒दिश॑: पि॒तर॑: । अखा॑ता भवति (५) । खा॒ता हि दे॒वाना॑म् । मध्य॒तोऽग्निराधी॑ते । अ॒न्ततो हि दे॒वाना॑माधी॒यते॑ । वर्षी॑यानिध्म इ॒ध्माद्भव॑ति । व्यावृत्यै॑ । परि॑श्रयति । अन्तर्हि॑तो हि पि॒तृलो॒को म॑नुष्यलो॒कात् । यत्प॑रुषि 'दिनम् । तद्दे॒वाना॑म् । यद॑न्तरा । तन्म॑नुष्या॑णाम् (६) । यत्स॑मूलम् । तत्पि॑तॄणा॑म् । समूलं॑ ब॒र्हिर्भव॑ति व्यावृत्यै॑ । दक्षि॑णा स्तृणाति । दक्षि॑णावृद्धि पि॒तॄणा॑म् । त्रिः पर्ये॑ति । तृतीये॑ वा इ॒मो लो॒के पि॒तर॑: । ताने॒व प्री॑णाति । त्रिः पुनः पर्ये॑ति । षट् संप॑द्यन्ते (७) । षड् वा ऋ॒तव॑: । ऋ॒तूने॒व प्री॑णाति । यत्प्र॑स्तरं यजु॑षा गृ॒ह्णीयात् । प्र॒मायु॑को यज॑मानः स्यात् । यन्न गृ॒ह्णीयात् । अना॑यतनः स्या॑त् । तूष्णीमे॒व न्य॑स्येत् । न प्र॒मायु॑को भ॑वति । नाना॑यतनः । यत्त्रीन्परि॑धीन्परि॒दध्या॑त् (८) । मृ॒त्युना॒ यज॑मानं परि॑गृह्णीयात् । यन्न परि॑दध्यात् रक्षा ँ सि य॒ज्ञं ह॑न्युः । द्वौ परि॑धी परि॑दधाति रक्ष॑सामप॑हत्यै । अथो॑ मृ॒त्योरे॒व यज॑मानमुत्सृ॑जति । यत्त्री ँ स्त्रीणि ह॒वी ँ ष्यु॑दा॒हरे॑युः । त्र॒यस्त्रय ए॒षा ँ सा॒कं प्रमी॑येरन् । एकै॑कमनूचीना॑न्युदाह॑रन्ति । एकै॑क ए॒वैषा॑म॒न्वञ्च॑: प्रमी॑यते । क॒शिपु॑ कशिपु॒व्या॑य । उप॑बर्ह॑णमुपबर्ह॒ण्या॑य । आ॒ञ्जन॑माञ्ज॒न्या॑य । अ॒भ्य॒ञ्जन॑मभ्यञ्ज॒न्या॑य । य॒थाभा॒गमे वैना॑न्प्रीणाति (९) ।