तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 309, कुल 345 में से
संदर्भ में पढ़ें२८० (१.६.८) तैत्तिरीयब्राह्मणम् एक॑कपालो भवति । विश्वा॑न्ये॒व तेन॒ कर्मा॑णि॒ यज॑मानो॒ऽवरुन्धे (५) । ऋ॒ध्यते॒ऽभ्य॑ञ्जते जुहोति वृणामहै भवत्य॒ष्टौ च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथ षष्ठप्रपाठकेऽष्टमोऽनुवाकः । वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा असृ॑जत । ता व॑रुणप्रघा॒सैर्वरु॑णपा॒शाद॑मुञ्चत् । सा॒क॒मे॒धैः प्रत्य॑स्थापयत् । त्र्य॑म्बकैरु॒द्रं नि॒र्वा॑दयत । पि॒तृय॒ज्ञेन॑ सुव॒र्गं लो॒कम॑गमयत् । यद्वै॑श्वदे॒वेन॒ यज॑ते । प्र॒जा एव तद्यज॑मानः सृज॑ते । ता व॑रुणप्रघा॒सैर्वरु॑णपा॒शान्मु॑ञ्चति । सा॒क॒मे॒धैः प्रति॑ष्ठापयति । त्र्य॑म्बकैरु॒द्रं निरव॑दयते (१) । पि॒तृय॒ज्ञेन॑ सुव॒र्गं लो॒कं ग॑मयति । द॒क्षि॒णतः प्रा॑चीनावी॒ती निर्व॑पति । द॒क्षि॒णावृ॒द्धि पि॑तॄणा॒म् । अना॑दृत्य॒ तत् । उत्त॑रत ए॒वोप॑वी॒य॒ निर्व॑पेत् । उ॒भये॑ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते॑ । अथो॒ यदे॒व दक्षि॑णा॒र्धेऽधि॑श्रय॑ति । तेन॒ दक्षि॑णा वृ॒त् । सोमा॑य पि॒तृम॑ते पु॒रोडाश ँ॒ षट्क॑पालं॒ निर्व॑पति । सं॒व॒त्स॒रो वै सोम॑: पि॒तृमा॑न् (२) सं॒व॒त्स॒रमे॒व प्री॑णाति । पि॒तृभ्यो॑ ब॒र्हिषद्भ्यो॑ धा॒नाः । मासा॒ वै पि॒तरौ॑ ब॒र्हिषद॑: । मासा॑ने॒व प्री॑णाति । यस्मि॑न्वा ऋ॒तौ पुरु॑षः प्र॒मीय॑ते । सो॑ऽस्या॒मुष्मिं॑ल्लो॒के भ॑वति । ब॒हुरू॑पा धा॒ना भ॑वन्ति । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै । पि॒तृभ्यो॑ऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् । अर्ध॑मा॒सा वै पि॒तरौ॑ऽग्निष्वा॒त्ताः (३) । अर्ध॑मा॒साने॒व प्री॑णाति । अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति । सा हि पि॑तृदे॒व॒त्यं॑ दु॒हे । यत्पू॒र्णम् । तन्म॑नु॒ष्या॑णा॒म् । उ॒प॒र्यधो॑ दे॒वाना॑म् । अर्ध॑: