तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 321, कुल 345 में से
संदर्भ में पढ़ेंदे॒वता॑भिरे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति । वि॒ष्णुक्र॒मान्क्र॑मते । वि॒ष्णुरे॒व भू॒त्वेमा ँल्लो॒कान॒भिज॑यति (४) । स॒त्याना॑म॒धायी॒त्याहा॑तारी॒दित्या॑ह क्रम॒त एकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ अथ सप्तमप्रपाठके पञ्चमोऽनुवाकः । अर्थेतः स्थेति॑ जुहोति । आहु॑त्यैवैनां निष्क्री॑य गृह्णाति । अथो॑ ह॒विष्कृ॑ता॒नामे॒वाभि॑घृतानां । वह॑न्तीनां गृह्णाति । ए॒ता वा अ॒पा ँ राष्ट्र॑म् । रा॒ष्ट्रमे॒वास्मै॑ गृह्णाति । अथो॒ श्रिय॑मे॒वैन॑म॒भिव॑हन्ति । अ॒पां पति॑रसीत्या॑ह । मि॒थु॒नमे॒- वार्कः॑ । वृषा॑ऽस्यू॒र्मिरित्या॑ह (१) ऊ॒र्मिम॑न्तमे॒वैनं॑ करोति । वृ॒ष॒से॒नौ॑ऽसीत्या॑ह । सेना॑मे॒वास्य॒ स ँश्य॑ति । व्र॒ज॒क्षित॒स्थे- त्या॑ह । ए॒ता वा अ॒पां विशः॑ । विश॑मे॒वास्मै॒ पर्य॑ूहति । म॒रुता॒मोजः॑ स्थेत्या॑ह । अन्नं॒ वै म॒रुतः॑ अन्न॑मे॒वाव॑रुन्धे । सूर्य॑वर्चसः स्थेत्या॑ह (२) । रा॒ष्ट्रमे॒व वर्च॑स्य॒र्कः । सूर्य॑त्वचसः स्थेत्या॑ह । स॒त्यं वा ए॒तत् । यद्वर्ष॑ति । अनृ॑तं यदा॒ तर्प॑ति॒ वर्ष॑ति । स॒त्यानृ॒ते ए॒वाव॑रुन्धे । नैन ँ स॒त्यानृ॒ते उ॑दि॒ते हि ँस्तः॑ । य ए॒वं वेद॑ । मां दा॒स्थेत्या॑ह । रा॒ष्ट्रमे॒व ब्र॑ह्मव॒र्च॒स्य॑र्कः (३) । वा॒शाः स्थेत्या॑ह । रा॒ष्ट्रमे॒व वृश्य॑र्कः । शक्व॑रीः स्थेत्या॑ह । प॒शवो॒ वै शक्व॑रीः । प॒शूने॒वाव॑रुन्धे । वि॒श्वभृ॑त॒स्थेत्या॑ह । रा॒ष्ट्रमे॒व पय॑स्य॒र्कः । ज॒न॒भृतः॑ स्थेत्या॑ह । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑र्कः अ॒ग्नेस्तेज॑स्या॒स्थेत्या॑ह (४) । रा॒ष्ट्रमे॒व तैज॑स्य॒र्कः । अ॒पामोष॑धीना ँ रस॒स्थेत्या॑ह । रा॒ष्ट्रमे॒व मध्व्य॑म॒कः । सा॒र॒स्व॒तं ग्रहं॑ गृह्णाति । ए॒षा वा अ॒पां पृष्ठम् । यत्स॑र॑स्वती । पृष्ठ॑मे॒वैन ँ समा॒नानां॑ करोति ।