भारतकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

तैत्तिरीयब्राह्मणम् (१.७.१०) २९९ इत्या॒हाहि॑ ँ मायै । इर्य॑दस्या॒ऽऽयुर॒स्या॒ऽऽयुम् धे॒हीत्या॑ह । आयु॑रे॒वाऽऽत्मन्-ध॑त्ते । ऊर्ग॑स्यूर्जं॑ मे धे॒हीत्या॑ह । ऊर्ज॑मे॒वाऽऽत्मन्-ध॑त्ते । यु॒ङ्ङ॑सि॒ वचा॒ऽसि॒ वचो॑ मयि॑ धे॒हीत्या॑ह । वर्च॑ ए॒वाऽऽत्मन्-ध॑त्ते । एक॑धा॒ ब्रह्म॑न् उप॑हरन्ति । एक॑धैव यज॑मान॒ आयू॒रूजं॑ वर्चो॑ दधाति । र॒थ॒वि॒मो॒च॒नीया॑ जुहो॒ति॒ प्रति॑ष्ठित्यै (५) । त्रयोऽश्वा॑ भव॒न्ति॒ । रथ॑श्चतु॒र्थः । तस्मा॑च्चतुर्जुहोति । यदु॒भौ स॒हाव॑तिष्ठे॒ताम् । समा॒नं लो॒कमिया॑ताम् । स॒ह सं॒ग्र॒ही॒त्रा र॒थ॒वा॒ह॒ने॒ रथ॒माद॑धाति । सु॒वर्गादे॒वैनं॑ लो॒कादन्तर्द॑धाति । ह॒ँसः शु॑चि॒षदित्याद॑धाति । ब्रह्म॑णै॒वैन॑मुपाव॑ हरति । ब्रह्म॑णा द॑धाति । अति॑च्छन्दसा द॑धाति । अति॑च्छन्दा वै सर्वा॑णि॒ च्छन्दा॑ ँ सि । सर्वे॑भिरे॒वैनं॒ छन्दो॑भिरा॒दधा॑ति । व॒र्ष्म॒ वा ए॒षा छन्द॑साम् । यदति॑च्छन्दाः । यदति॑च्छन्दसा॒ दधा॑ति । व॒र्ष्मणै॒वैन॑ ँ समा॒नानां॑ करोति (६) । प॒द्यन्ते॒ दधा॑ति वी॒र्येण॑त्या॒हाना॑त्यै॒ प्रति॑ष्ठित्यै॒ ब्रह्म॑णा द॑धाति स॒प्त च॑ । इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये नवमोऽनुवाकः ॥ ९ ॥ अथ सप्तमप्रपाठके दशमोऽनुवाकः । मित्रो॑ऽसि॒ वरु॑णोऽसीत्या॑ह । मैत्रं॒ वा अह॑ः । वारु॑णी रात्रि॑ः । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॑मु॒पाव॑हरति । मित्रो॑ऽसि॒ वरु॑णोऽसीत्या॑ह । मैत्रो॒ वै दक्षि॑णः । वारु॑णः स॒व्यः । वै॒श्व॒दे॒व्यामि॒क्षा॑ । स्वमे॒वैनौ॑ भा॒ग॒धेय॑मु॒पाव॑हरति । समृद्धं॑ वि॒श्वैर्देवै॒रित्या॑ह (१) । वै॒श्व॒दे॒व्यो वै प्र॒जाः । ता ए॒वाऽऽद्या॑ः कुरुते । क्ष॒त्र

३०० (१.७.१०) तैत्तिरीयब्राह्मणम् मासी॑द् सुषदा॒ मासी॒देत्या॑ह । यथा॒ यजु॑रे॒वैतत् । मा त्वा॑ हि ँ सीन्मा॒ मा॑ हि ँ सी॒दित्याहि॑ ँसायै । निष॑साद धृतव्र॑तो वरु॑णः प॒स्त्या॑ । स्वासाम्रा॑ज्याय सुक्रतु॒रित्या॑ह । साम्रा॑ज्यमे॒वैन॑ ँ 'सुक्रतुं करोति । ब्रह्मा ँ ३ त्व ँ राज॒न्ब्रह्मा॑ऽसि सवि॒ताऽसि॑ स॒त्यस॑व इत्या॑ह । स॒वि॒तार॑मे॒वैन॑' ँस॒त्यस॑वं करोति (२) । ब्रह्मा ँ ३ त्वँ राज॒न्ब्रह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । इन्द्र॑मे॒वैन॑ ँ स॒त्यौज॑सं करोति । ब्रह्माँ२ त्व ँराजन्ब्रह्माऽसि॑ मित्रो॑ऽसि सु॒शेव॒ इत्या॑ह । मि॒त्रमे॒वैन॑' ँसु॒शेषं॑ करोति । ब्रह्माँ३ त्व ँ राज॒न्ब्रह्माऽसि॒ वरु॑णोऽसि स॒त्यध॑र्मेत्याह । वरु॑णमे॒वैन॑ ' ँ स॒त्यध॑र्माणं करोति । स॒वि॒ताऽसि॑ स॒त्यस॑व् इत्या॑ह । गा॒य॒त्रीमे॒वैतेना॒भिव्याह॑रति । इन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । त्रि॒ष्टुभ॑मे॒वैतेना॒भिव्याह॑रति (३) । मित्रो॑ऽसि सु॒शेव् इत्या॑ह । जग॑तीमे॒वैतेना॒भिव्याह॑रति । स॒त्यमे॒ता दे॒वता॑: । स॒त्यमे॒तानि॒ च्छन्दा ँसि । स॒त्यमे॒वाव॑रुन्धे । वरु॑णोऽसि स॒त्यध॑र्मेत्या॑ह । अ॒नु॒ष्टुभ॑मे॒वैतेना॒भिव्याह॑रति । स॒त्यानृ॒ते वा अनु॑ष्टुप् । स॒त्यानृ॒ते वरु॑णः । स॒त्यानृ॒ते ए॒वाव॑रुन्धे (४) । नैन॑ ँस॒त्यानृ॒ते उ॑दि॒ते हि ँस्तः । य ए॒वं वेद॑ । इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ स्फ्यं प्रय॑च्छति । वज्रो॒ वै स्फ्यः॑ । वज्रे॑णैवास्मा॒ अवर॒पर॑ ँर॒न्धय॑ति । एव ँहि तच्छ्रेय॑: । यद॑स्मा ए॒ते रध्ये॑युः । दिशो॒ऽभ्य॑य ँ राजा॑ऽभूदि॒ति प॒ञ्चाक्षान्प्रय॑च्छति । ए॒ते वै सर्वे॑याः । अ॒प॒राजि॑यिनमेवैनं करोति (५) । ओदनमुद् ब्रु॑वते । प॒र॒मे॒ष्ठी वा ए॒षः । यदौद॑नः । प॒र॒मामे॒वैन॑ ँ श्रियं॑ गमयति । सुश्लोका ३ ँ सुर्मङ्गला ३ ँ सत्य॑राजा३नित्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । श्यौन॒:शेप॒माख्या॑पयते ।

तैत्तिरीयब्राह्मणम् ˙ (१.८.१) ३०१ वरु॑णपा॒शादे॒वैनं॑ मुञ्चति । प॒रःश॒तं भ॑वति । श॒तायुः॑ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑ [ति]ष्ठति । मा॒रु॒तस्य॑ चैक॑वि ँ शतिकपालस्य वैश्वदे॒व्यै॑ त्वाऽऽमिक्षा॑या ऽअ॒ग्नये॑ स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑मुभ॒यतः॑ परि॑गृह्णाति । अपांनप्त्रे॒ स्वाहौजोन॑प्त्रे॒ स्वाहा॒ऽग्नये॑ गृह॒पत॑ये॒ स्वाहेति॑ ति॒स्र आहुती॑र्जुहोति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रतिति॑ष्ठति (६) । दे॒वैरित्या॑ह स॒त्यस॑वं करोति त्रि॒शुभ॑मे॒वैतेना॑भि॒व्याह॑रति स॒त्यानृ॒ते ए॒वाव॑रुन्धे करोति श॒तेन्द्रि॑यः॒ षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये दशमोऽनुवाकः ॥ १० ॥ एतद्ब्राह्मणानि धात्रे रत्निनां देवसु॒वाम॒र्थेऽतो॒ देवी॒र्दिशः सो॒मस्येन्द्र॑स्य मि॒त्रों दश॑ ॥ १० ॥ एतद्ब्राह्मणानि वैष्णवं त्रिकपालमन्नं वै पू॒षा वाऽऽशा॒स्थेस्या॑ह दि॒यु॒र्दह॑परं॒त्यब्र॑ह्माँ२स्त्वं॒ राज॑श्व॒र्तुः षष्टिः ॥ ६४ ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमोऽध्यायः ॥ ७ ॥ अथ प्रथमाष्टकेऽष्टमोऽध्यायः । तत्र प्रथमोऽनुवाकः । वरु॑णस्य सु॒षुवा॒णस्य॑ दश॒धेन्द्रि॑यं वी॒र्यं॑ परा॑पतत् । तत्स ँ सृ॒द्भिरनु॒सम॑सर्पत् । तत्स ँसृपा ँस ँसृ॒प्वम् । अ॒ग्निना॑ दे॒वेन॑ प्रथ॒मेऽह॑ न्नु॒ प्रा॒यु॑ङ्क्त । सर॑स्वत्या वा॒चा द्वि॒तीये॑ । स॒वित्रा प्र॑स॒वेन॑ तृ॒तीये॑ । पू॒ष्णा प॒शुभि॑श्चतु॒र्थे । बृह॒स्पति॑ना ब्रह्म॑णा पञ्च॒मे । इन्द्रे॑ण दे॒वेन॑ ष॒ष्ठे । वरु॑णेन स्वया॑ दे॒वत॑या स॒प्तमे (१) । सोमे॑न॒ राज्ञा॒ऽष्टमे॑ । त्वष्ट्रा॑ रू॒पेण॑ नव॒मे ।

प्रथमोऽनुवाकः ॥ १ ॥

३०२ (१.८.२) तैत्तिरीयब्राह्मणम् वि॒ष्णुना॑ य॒ज्ञेनाऽऽप्रो॑त् । यत्स॒ ँ स्पृ॑ष्टो॒ भव॑न्ति । इ॒न्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मान आ॒प्रोति॑ । पूर्वा॑ पूर्वा॒ वेदि॑र्भवति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै । पु॒रस्ता॑दुप॒सदा॒ ँ सौम्ये॑न॒ प्र॑चरति । सोमो॒ वै रे॑तो॒धाः । रेत॑ एव॒ तद्द॑धाति । अ॒न्त॒रा त्वा॒ष्ट्रेण॑ । रेतं॑ एव॒ हितं॑ त्वष्ट्रा॑ रू॒पाणि॑ वि॒करो॑ति । उ॒प॒रि॒ष्टाद्वैष्ण॒वेन॑ । य॒ज्ञो वै विष्णु॑: । य॒ज्ञ ए॒वान्त॒तः प्रति॑तिष्ठति (२) । स॒प्तमे द॑धाति॒ पञ्च॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये प्रथमोऽनुवाकः ॥ १ ॥ अथाष्टमप्रपाठके द्वितीयोऽनुवाकः । जा॒मि वा ए॒तत्कु॑र्वन्ति । यत्स॒द्यो दी॒क्षय॑न्ति स॒द्यः सोमं॑ क्री॒णन्ति॑ । पु॒ण्ड॒रि॒स्रजां प्रय॑च्छत्यजा॑मित्वाय । अ॒ङ्गि॒रस॑: सु॒व॒र्गं लो॒कं यन्त॑: । अ॒प्सु दी॒क्षा॒तप॑सी॒ प्रावे॑शयन् । यत्पु॑ण्डरी॑कमभ॑वत् । यत्पु॑ण्डरिस्र॒जां प्रय॑च्छति । सा॒क्षादे॒व दी॑क्षा॒तप॑सी॒ अव॑रुन्धे । द॒शभि॑र्व॒त्स॒तरै॑: सोमं॑ क्री॒णाति॑ । दशा॑क्षरा वि॒राट् (१) अन्नं॑ वि॒राट् वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । मु॒ष्करा॑ भवन्ति सेन्द्रि॒त्वाय॑ । द॒शपे॒यो॑ । अन्ना॒द्यस्याव॑रुद्ध्यै । श॒तं ब्रा॑ह्म॒णाः पि॑बन्ति । श॒तायु॑: पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति । स॒प्तद॒श ँ स्तोत्रं॑ भव॑ति । स॒प्तद॒शः प्र॒जाप॑तिः (२) प्र॒जाप॑तेरा॒प्त्यै॑ । प्र॒का॒शाव॑ध्व॒र्यवे॑ ददाति । प्र॒काश॑मे॒वैनं॑ गमयति । स्रज॑मुद्गा॒त्रे । व्यै॑वास्मै वासयति । रु॒क्म ँहोत्रे॑ । आ॒दि॒त्यमे॒वास्मा॒ उन्न॑यति । अश्वं॑ प्रस्तोतृप्रतिह॒र्तृभ्या॑म् । प्रा॒जा॒प॒त्यो वा अश्व॑: । प्र॒जा प॑तेरा॒प्त्यै (३) । द्वाद॑श प॒ष्ठौ॒हीर्ब्रह्म॑णे । आयु॑रे॒वाव॑रुन्धे । व॒शां मै॑त्रावरु॒णाय॑ ।

द्वितीयोऽनुवाकः ॥ २ ॥

तैत्तिरीयब्राह्मणम् (१.८.३) ३०३ राष्ट्रमे॒व व॒श्य॑कः । ऋ॒ष॒भं ब्रा॑ह्मणाच्छँसिने॑ । राष्ट्र॒मेवेन्द्रिया॑व्यंकः । वास॑सी नेष्टापोतृ॒भ्याम् । प॒वित्रे॑ ए॒वास्यै॑ते । स्थू॒रि॒यवा॑चितम॑च्छावा॒काय॑ । अन्त॑त ए॒व वरु॑ण॒मव॑जयते (४) अन॒ड्वाह॑म॒ग्नीधे॑ । व॒ह्नि॒र्वा अन॒ड्‌वान् । ब॒हून्नि॒रग्नी॑त् । व॒ह्निर्नैव व॒ह्निय॑ज्ञ॒स्याव॑रुन्धे । इन्द्र॑स्य सुषुवा॒णस्य॑ त्रे॒धेन्द्रि॒यं वी॒र्यं॑ परा॑पतत् । भृगु॑स्तृती॑यमभवत् । श्राय॑न्ती॒यं तृती॑यम् । सर॑स्वती॒ तृती॑यम् । भार्ग॒वो होता॑ भवति । श्राय॑न्तीयं ब्रह्मसा॒मं भ॑वति । वा॒रव॑न्तीयमग्निष्टोमसा॒मम् । सार॑स्वतीर॒पो गृ॑ह्णाति । इन्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै । श्राय॑न्तीयं ब्रह्मसा॒मं भ॑वति । इन्द्रि॒यमे॒वास्मि॑न्वी॒र्य॑ ँ श्रयति । वार॑वन्ती यमग्निष्टोमसा॒मम् । इन्द्रि॒यमे॒वास्मि॑न्वी॒र्यं॑ वारयति (५) । वि॒राट् प्र॒जाप॑तिरश्वः प्र॒जाप॑तेराप्त्यै यजते ब्रह्मसा॒मं भ॑वति स॒प्त र्च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथाष्टमप्रपाठके तृतीयोऽनुवाकः । ईश्व॒रो वा ए॒ष दिशो॒ऽनून्म॑दितोः । यं दिशो॑ऽ नूव्या॒स्थाप॑यन्ति । दि॒शामवैष्टयो भवन्ति । दि॒क्ष्वेव प्रति॑तिष्ठत्यनून्मादाय । पञ्च॑ दे॒वता॑ यजति । पञ्च॒ दिश॑: । * दि॒क्ष्वेव प्रति॑तिष्ठति । ह॒विषौ॑ ह॒विष॒ इङ्क्षा बा॑र्हस्प॒त्यम॒भिघा॑रयति । य॒ज॒मानदे॒व॒त्या॑ वै बृह॒स्पति॑: । यज॑मानमे॒व तेज॑सा सम॑र्धयति (१) । आ॒दि॒त्या म॒ह्लां ग॒र्भिणी॒माल॑भते । मारु॒तीं पृश्निं॑ ष॒ष्ठौही॑म् । विशं॑ चै॒वास्मै॑ राष्ट्रं॑ च समीची॑ दधाति । आ॒दि॒त्यया॑ पू॒र्वया॑ प्र॒चर॑ति मारु॒त्योत्त॑रया । राष्ट्र॑ ए॒व विश॒मनु॑बध्नाति ।

तृतीयोऽनुवाकः ॥ ३ ॥

३०४ (१.८.४) तैत्तिरीयब्राह्मणम् उ॒च्चैरा॑दि॒त्याया॒ आश्रा॑वयति । उपा ँ॒ शु मा॑रु॒त्यै । तस्मा॑द्रा॒ष्ट्रं विश॒मति॑ वदति । गर्भि॒ण्या॑दि॒त्या भ॑वति (२) । इ॒न्द्रि॒यं वै गर्भः॑ । रा॒ष्ट्रमे॒वेन्द्रि॒याव्य॑कः । अग॑र्भा मा॑रु॒ती । विड्वै म॒रुतः॑ । विश॑मे॒व निरि॑न्द्रियामकः । दे॒वा॒सु॒रा संय॑त्ता आसन् । ते देवा अ॒श्विनोः॑ पू॒ष्ण्वाचः॑ स॒त्य ँ॒ संनि॒धाय॑ । अनृ॑तेनासु॒रान॒भ्य॑भवन् । तेऽश्विभ्यां॑ पू॒ष्णे पु॒रोडाशं॒ द्वाद॑शकपालं॒ निर॑पवन् । ततो॒ वै ते वाचः॑ स॒त्यमवा॑रुन्धत (३) । यद॒श्विभ्यां॑ पू॒ष्णे पु॒रोडाशं॒ द्वाद॑शकपालं॒ निर्वप॑ति । अनृ॑तेनै॒व भ्रातृ॑व्यान॒भिभूय॑ । वाचः॑ स॒त्यमव॑रुन्धे । सर॑स्वते स॒त्यवा॑चे च॒रुम् । पूर्व॑मे॒वोदि॑तम् । उत्तरे॑णा॒भिगृ॑णाति । स॒वि॒त्रे स॒त्यप्र॑सवाय पु॒रोडाशं॒ द्वाद॑शकपालं॒ प्रसू॑त्यै । दू॒तान्प्रहि॑णोति । आ॒विदो॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैनं॑ गमयन्ति । अथो॑ दू॒तेभ्य॑ ए॒व न च्छि॑द्यते । ति॒सृधन्व ँ॒ शुष्क॑दृ॒तिर्दक्षि॑णा॒ समृ॑द्ध्यै (४) । अर्धयति भवत्यरुन्धत गमयन्ति द्वे च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ अथाष्टमप्रपाठके चतुर्थोऽनुवाकः । आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति । तस्मा॑च्छिशि॒रे कु॒रु॒पञ्चा॒लाः प्राञ्चो॑ यान्ति । सौ॒म्यं च॒रुम् । तस्मा॑द्वस॒न्तं व्य॑व॒साया॑दयन्ति । सा॒वि॒त्रं द्वाद॑शकपालम् । तस्मा॑त्पुर॒स्ताद्यवा॑ना ँ॒ सवि॒त्रा विरु॑न्धते । बा॒र्ह॒स्प॒त्यं च॒रुम् । स॒वि॒त्रैव विरु॑ध्य । ब्रह्म॑णा य॒वानाद॑धते । त्वा॒ष्ट्र॒म॒ष्टाक॑पालम् (१) । रूपाण्ये॒व तेन॑ कुर्वते । वै॒श्वान॒रं द्वाद॑शकपालम् । तस्मा॑ज्जघ॒न्ये नैदा॑घे प्र॒त्यञ्चः॑ कु॒रु॒पञ्चा॒ला या॑न्ति । सार॒स्वतं च॒रुं निर्व॑पति ।

चतुर्थोऽनुवाकः ॥ ४ ॥

तैत्तिरीयब्राह्मणम् (१.८.५) ३०५ तस्मा॑त्प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति । पौ॒ष्णेन॒ व्यव॑स्यन्ति । मै॒त्रेण॑ कृषन्ते । वा॒रु॒णेन॒ विधृ॑ता आसते क्षेत्रपत्ये॑न पाच॑यन्ते । आ॒दि॒त्येनाऽऽद॑धते (२) । मा॒सि मा॑स्ये॒तानि॑ ह॒वी ꣳ षि॒ नि॒रूप्या॒णीत्या॑हुः । तेनै॒वर्तून्प्रयु॑ङ्क्त॒ इति॑ । अथो॒ खल्वा॑हुः । कः सं॑वत्स॒रं जी॑विष्य॒तीति॑ । षडे॒व पूर्वे॒द्युर्नि॒रूप्या॑णि । षडु॑त्तरे॒द्युः तेनै॒वर्तून्प्रयु॑ङ्क्ते । दक्षि॑णो रथवाहनवा॒हः पूर्वेषां॒ दक्षि॑णा । उत्त॑र उत्तरे॑षाम् । सं॒व॒त्स॒रस्यै॒वान्तौ॑ युनक्ति । सु॒वर्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै (३) । त्वा॒ष्ट्रम॒ष्टाक॑पालं दधत्ते युनक्तयेकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ अथाष्टमप्रपाठके पञ्चमोऽनुवाकः । इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं वी॒र्यं॑ परा॑पत् । स यत्प्र॑थ॒मं निर॑ष्ठीवत् । निर॑ष्ठीं॒वत् । तत्क्व॑लमभवत् । यद्द्वि॒तीय॑म् । यद्ब॒दर॑म् । यत्तृ॒तीय॑म् । तत्क॒र्कन्धु॑: । यन्ना॑स्तः । स सि॒- हः । यदक्ष्यो॑: (१) । स शार्दू॒लः । यत्कर्ण॑योः । स वृक॑: । य ऊ॒र्ध्वः । स सोम॑: । याऽर्वा॑ची । सा सुरा॑ । त्र॒याः सक्त॑वो भवन्ति । इ॒च्छिय॒स्याव॑रुद्ध्यै । त्र॒याणि॑ लोमा॑नि (२) त्विषि॑मे॒वाव॑रुन्धे । त्रयो॒ ग्रहा॑: वी॒र्य॑मे॒वाव॑रुन्धे नाम्नां दश॒मी । नव॒ वै पुरु॑षे प्रा॒णाः नाभि॑र्दश॒मी । प्रा॒णा ई॑न्द्रि॒यं वी॒र्य॑म् । प्रा॒णाने॒वेन्द्रि॒यं वी॒र्य॑' यज॑मान आ॒त्मन्ध॑त्ते । सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति । न वा ए॒तद्यो न हिर॑ण्यम् (३) । यत्सीस॑म् । न स्त्री न पुमा॑न् । यत्क्ली॒बः । न सोमो॒ न सुरा॑ । यत्सौ॑त्रामणीस॒मृद्ध्यै॑ । स्वा॒द्वीं त्वा॑ स्वा॒दुनेत्या॑ह ।

पञ्चमोऽनुवाकः ॥ ५ ॥

३०६ (१.८.६) तैत्तिरीयब्राह्मणम् सो॒ममे॒वैनां॑ करोति । सोमो॑ऽस्य॒ शिवभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णै॑ पच्य॒स्वेत्या॑ह । ए॒ताभ्यो॒ ह्ये॑षा दे॒वता॑भ्यः॒ पच्य॑ते । ति॒स्रः स ँसृ॑ष्टा वसति (४) । ति॒स्रो हि रात्रीः॑ क्री॒तः सोमो॒ वस॑ति । पु॒नातु॑ ते॒ परिस्रुतो॒मिति॑ यजु॑षा पुनाति॒ व्यावृ॑त्यै । प॒वित्रे॑णं पुनाति । प॒वित्रे॑ण॒ हि सो॒मं पु॒नन्ति॑ । वारे॑ण॒ शश्व॑ता॒तनेत्या॑ह वारे॑ण॒ हि सो॒मं पु॒नन्ति॑ । वा॒युः पू॒तः प॒वित्रे॒णेति॑ नैतया॑ पुनीयात् । व्यू॑द्धा ह्ये॑षा । अ॒तिप॒वित्रे॑णै॒तया॑ पुनीयात् । कु॒विद॒ङ्गेत्यन॑िरुक्तया प्रा॒जा॒प॒त्यया॑ गृह्णाति । अ॒निरुक्तः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ । एक॑य॒र्चा गृ॑ह्णाति । एक॑धैव॒ यज॑माने वी॒र्य॑ दधाति । आ॒श्वि॒नं धूम्र॒माल॑भते । अ॒श्विनौ॒ वै दे॒वानां॑ भि॒षजौ॑ । ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति । सा॒र॒स्व॒तं मेषम् । वाग्वै सर॑स्वती । वा॒चैवैनां॑ भिषज्यति । ऐ॒न्द्रमृ॒षभ ँ॑ सैन्द्र॒त्वाय॑ (६) । अ॒क्ष्योर्लोमा॑नि॒ हिर॑ण्यं वसति गृह्णाति भिषज्यत्येकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ अथाष्टमप्रपाठके षष्ठोऽनुवाकः । यत्ति॒सृषु॒ यूपे॑ष्वाल॒भैत॑ । ब॒हिर्द्धाऽस्मा॑दिन्द्रि॒यं वी॒र्यं॑ दध्यात् । भ्रातृ॑व्यमस्मै॒ जन॑येत् । एक॑यूप॒ आल॑भते । एक॑धै॒वास्मि॑न्निन्द्रि॒यं वी॒र्यं॑ दधाति । नास्मै॒ भ्रातृ॑ यं जन॑यति । नैतेषां॑ पशू॒नां पु॒रोडाशा॑ भवन्ति । ग्रह॑पुरोडाशा॒ ह्ये॑ते । यु॒व ँ सु॒राम॑म॒श्विनेति॑ सर्वदे॒व॒त्यै याज्यानुवा॒क्ये॑ भवतः । सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति (१) । ब्राह्म॒णं परि॑क्रीणीयादुच्छे॒षण॑स्य पा॒तारम्॑ । ब्रा॒ह्म॒णो ह्याहु॑त्या

तैत्तिरीयब्राह्मणम् (१.८.६) उ॒च्छे॒षण॑स्य पा॒ता । यदि॑ ब्रा॒ह्म॒णं न वि॒न्देत् । व॒ल्मी॒क॒व॒पाया॑मव॑नयेत् । सैव ततः॑ प्राय॑श्चित्तिः । यद्वै सौत्रा॒म॒ण्यै व्यृ॑द्धम् । तद॑स्यै॒ समृ॑द्धम् । ना॒ना॒दे॒व॒त्याः॑ प॒शव॑श्च पुरो॒डाशा॑श्च भवन्ति॒ समृ॑द्ध्यै । ऐन्द्रः॑ प॑शू॒नामु॑त्त॒मो भ॑वति । ऐन्द्रः॑ पुरो॒डाशा॑नां प्रथ॒मः (२) । इ॒न्द्रिये ए॒वास्मै॑ स॒मीची॑ दधाति । पु॒रस्ता॑दनूया॒जानां॑ पुरो॒डाशैः॑ प्रचरति । प॒शवो॒ वै पुरो॒डाशाः॑ । प॒शूने॒वाव॑रुन्धे । ऐ॒न्द्रमेका॑दशकपालं॒ निर्व॑पति । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । सा॒वि॒त्रं द्वाद॑शकपालं प्र॒सूत्यै॑ । वारु॒णं दश॑कपालम् । अन्त॑त ए॒व वरु॑णमव॑जयते । वड॑वा दक्षि॑णा (३) । उ॒त वा ए॒षाऽश्वं 'सूते । उ॒ताश्व॑तरम् । उ॒त सोम॑ उ॒त सुरा॑ । यत्सौ॑त्रा॒मणीसमृ॑द्ध्यै । बार्ह॑स्प॒त्यं प॒शुं चतु॒र्थम॑तिप॒वित्स्याऽल॑भते । ब्रह्म॑ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णैव य॒ज्ञस्य॒ व्यृ॑द्धमपि॑वपति । पुरो॒डाश॑वाने॒ष प॒शुर्भव॑ति । न ह्यै॒तस्य॒ ग्रहं॑ गृह्णन्ति॑ । सोम॑प्रतीकाः । पि॒तर॑स्तृप्णु॒तेति॑ शता॒तृष्णाया॑ 'स॒मव॑नयति (४) । श॒तायुः॑ पुरु॑षः श॒तेन्द्रि॑यः । आ॒युष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति । दक्षि॑णे॒ऽग्नौ जु॑होति । पा॒प॒वस्य॒सस्य॒ व्यावृ॑त्त्यै । हिर॑ण्यमन्त॒रा धार॑यति । पू॒तामे॒वैनां॑ जुहोति । श॒तमा॑नं भ॑वति । श॒तायुः॑ पुरु॑षः श॒तेन्द्रि॑यः । आ॒युष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति । यत्रै॒व श॑ता॒तृष्णां धार॑यति (५) । तन्निद॑धाति॒ प्रति॑ष्ठित्यै । पि॒तृन्वा ए॒तस्यैन्द्रि॑यं वी॒र्यं॑ ग॑च्छति । य ॅसोमो॑ऽति॒पव॑ते । पि॒तॄणां या॑ज्यानुवा॒क्या॑भि रुप॑तिष्ठते । यदे॒वास्य॑ पि॒तॄनिन्द्रि॑यं वी॒र्यं॑'गच्छ॑ति । तदे॒वाव॑ रुन्धे । ति॒सृभि॒रुप॑तिष्ठते । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । अथो॒ त्रीणि॒ वै य॒ज्ञस्यैन्द्रि॒याणि॑ ।

षष्ठोऽनुवाकः ॥ ६ ॥

३०८ (१.८.७) तैत्तिरीयब्राह्मणम् अ॒ध्व॒र्युर्होता॑ ब्र॒ह्मा । त उप॑तिष्ठन्ते । यान्ये॒व॒ य॒ज्ञस्यैन्द्रि॒याणि॑ । तैरे॒वास्मै॑ भेष॒जं क॑रोति (६) । प्रीणा॑ति प्रथ॒मो द॑क्षि॒णा स॒मव॑नयति धार॑यतीन्द्रि॒याणि॑ च॒त्वारि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथाष्टमप्रपाठके सप्तमोऽनुवाकः । अ॒ग्नि॒ष्टोम॑मग्रे॒ आहरति । य॒ज्ञमु॒खं वा अ॑ग्नि॒ष्टोमः॑ । य॒ज्ञमु॒खमे॒वाऽऽर॑भ्य॒ सम॑माक्र॑मते । अथै॑षोऽभि षेच॒नीय॑श्चतुस्त्रि ँ शः प॑वमानो भवति । त्रय॑स्त्रि ँ शद्वै॒ दे॒वाः॑ । ता ए॒वाऽऽप्नो॑ति । प्र॒जाप॑तिश्चतुस्त्रि ँ शः । तमे॒वाऽऽप्नो॑ति । स ँ शर॑ एष स्तोमा॑ना॒मर्यथा पूर्वम् । यद्द्विष॑माः स्तोमा॑: (१) । ए॒तावा॒न्वै य॒ज्ञः । यावा॑न्पव॑मानाः। अन्तः॑ श्ले॒ष्णं त्वा अ॒न्यत् । यत्स॑माः पव॑मानाः । तेनास ँ शरः॑ । तेन॑ यथापूर्वम् । आ॒त्मनै॒वाग्नि॒ष्टोमे॒नर्ध्नो॑ति । आ॒त्मना॑ पु॒ण्यो॑ भवति । प्र॒जा वा उ॒क्थानि॑ । प॒शव उ॒क्थानि॑ । यदु॒क्थ्यो॑ भव॒त्यनु॑संतत्यै (२) । स्तोमा॑: प॒शव॑ उ॒क्थान्येकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथाष्टमप्रपाठकेऽष्टमोऽनुवाकः । उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रतिप॒द्भव॑ति । वाग्वै वायुः॑ । वाच॑ ए॒वैषो॑ऽभिषे॒कः । सर्वा॑सामे॒व प्र॒जाना ँ सू॑यते । सर्वा॑ एनं॑ प्र॒जा राजेति॑ वदन्ति । ए॒तमु॒त्यं द॑श॒क्षिप॒ इत्या॑ह । आ॒दि॒त्या वै प्र॒जाः । प्र॒जाना॑मे॒वैतेन॑ सूयते । यन्ति॒ वा

तैत्तिरीयब्राह्मणम् (१.८.८) ३०९ ए॒ते य॒ज्ञमु॒खात् । ये सं भा॒र्या अक्र॑न् (१) । यदा॒हु पर्व॑स्व वाचो अग्रिय॒ इति॑ । तेनै॒व य॒ज्ञमु॒खान्ने॑र्यन्ति । अ॒नु॒ष्टुब्व॑प्रथमा भ॑वति । अनु॒ष्टुगु॑त्तमा । वाग्वा अनु॒ष्टुक् । वा॒चैव प्रय॑न्ति । वा॒चोद्य॑न्ति । उ॒द्भूतीर्भवन्ति । उद्भूद्रा अनु॑ष्टुभौ रू॒पम् । आनु॑ष्टुभो रा॒जन्य॑: (२) तस्मा॑दुद्भूतीर्भव॑न्ति । सौर्य्यनु॑ष्टुगुत्तमा भ॑वति । सु॒वर्ग॒स्य॑ लो॒कस्य॒ संत॑त्यै । यो वै स॒वादे॑ति । नैन॒ ꣳसव उप॑नमति । यः सार्मभ्य॒ एति॑ । पापी॑यान्त्सुषुवा॒णो भ॑वति । ए॒तानि॒ खलु॒ वै सामा॑नि । यत्पृ॒ष्ठानि॑ । यत्पृ॒ष्ठानि॒ भव॑न्ति । (३)। तैरे॒व स॒वान्नैति॑ । यानि॑ दे॒वरा॒जाना॒ꣳ सामा॑नि । तैर॒मुष्मिँ॑ल्लो॒क ऋ॑ध्नोति । यानि॑ मनुष्यरा॒जाना॒ꣳ सामा॑नि । तैर॒स्मिँल्लो॒क ऋ॑ध्नोति । उ॒भयो॑रेव लो॒कयो॒र्ऋध्नो॑ति । दे॒वलो॒के च॑ मनुष्यलो॒के च॑ । एक॑वि॒ꣳ शौऽभिषेच॒नीय॑स्योत्तमो भ॑वति । एक॑वि॒ꣳशः के॑शवप॒नीय॑स्य प्रथमः । स॒प्तदशो दश॑पेयः (४) । विड्वा एक॑वि॒ꣳशः । रा॒ष्ट्रꣳ सं॑प्तद॒शः । विश॑ ए॒वैतन्मध्यतो॑ऽ भिषि॑ञ्च्यत । तस्मा॒द्वा ए॒ष वि॒शां प्रियः॑ । विशो॒ हि मध्यतो॑ऽभि॒षिच्य॑ते । यद्द्वा एन॑म॒दो दिशो॑ऽ न्व॒वस्था॒पय॑न्ति । तत्सु॑व॒र्गं लो॒कम॒भ्यारो॑हति । यदि॒मं लो॒कं न प्रत्यव॑रोहे॑त् । अति॒जनं॑ धेयात् । उद्वां माद्ये॑त् । यदे॒व प्रतीची॑नः स्तोमो॒ भव॑ति । इ॒ममे॒व तेन॑ लो॒कं प्रत्यव॑रोहति । अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठत्यनून्चादाय (५) । अक्र॑न्रा॒जन्यो॒ भव॑न्ति दश॒पेयो॑ माद्ये॒त्रीणि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽ ष्टमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥

३१० (१.८.९) तैत्तिरीयब्राह्मणम् अथाष्टमप्रपाठके नवमोऽनुवाकः । इ॒यं वै रज॑ता । अ॒सौ हरि॑णी । यद्रु॒क्मौ भव॑तः । आ॒भ्यामे॒वैन॑मु॒भय॑तः परि॑गृह्णाति । वरु॑णस्य॒ वा अ॒भि॒षि॒च्यमा॑न॒स्याऽपः॑ । इ॒न्द्रियं॑ वी॒र्यं॑ निर॑घ्नन् । तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् । यद्रु॒क्मम॑न्त॒र्दधा॑ति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्या॒निर्घा॑ताय । श॒तमा॑नो भवति श॒ताक्ष॑रः । श॒तायुः॑ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति । आयु॒र्वै हिर॑ण्यम् । आ॒युष्मा॒ एवैन॑म॒भ्यति॑क्षरन्ति । तेजो॒ वै हिर॑ण्यम् । तेज॑स्या॒ एवैन॑म॒भ्यति॑क्षरन्ति । वर्चो॒ वै हिर॑ण्यम् । वर्च॑स्या॒ एवैन॑म॒भ्यति॑क्षरन्ति (१) । श॒ताक्ष॑रो॒ऽष्टौ च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये नवमोऽनुवाकः ॥ ९ ॥ अथाष्टमप्रपाठके दशमोऽनुवाकः । अप्र॑तिष्ठितो॒ वा ए॒ष इत्या॑हुः । यो रा॑जसू॒येन॒ यज॑त॒ इति॑ । य॒दा वा ए॒ष ए॒तेन॑ द्वि॒रा॒त्रेण॒ यज॑ते । अथ॒ प्रति॑ष्ठा । अथ॑ सं॑वत्सरमा॑प्नोति । याव॑न्ति सं॑वत्स॒रस्याहो॑रा॒त्राणि॑ । ताव॑तीरे॒तस्य॑ स्तोत्रीया॑ः । अहो॑रा॒त्रेष्वे॒व प्रति॑तिष्ठति । अ॒ग्नि॒ष्टोमः॑ । पूर्व॑मह॑र्भवति । अ॒ति॒रा॒त्र उत्त॑रम् (१) । नानै॒वाहो॑रा॒त्रयोः॑ प्रति॑तिष्ठति । पौ॒र्ण॒मा॒स्यां पूर्व॑मह॑र्भवति । व्य॑ष्टका॒यामुत्त॑रम् । नानै॒वार्थ॑मा॒सयोः॑ प्रति॑तिष्ठति । अ॒मा॒वा॒स्या॑यां॒ पूर्व॑मह॑र्भवति । उद्दृ॑ष्ट॒ उत्त॑रम् । नानैव॑ मा॒सयोः॑ प्रति॑तिष्ठति । अथो॒ खलु॑ । ये एव सं॑मानप॒क्षे पुण्या॑हे स्याता॑म् । तयोः॑ का॒र्यं॒ प्रति॑ष्ठित्यै (२) । अ॒प॒श्व्यो॑ द्वि॒रा॒त्र इत्या॑हुः । द्वे ह्ये॑ते छन्द॑सी । गा॒य॒त्रं च॒ त्रैष्टु॑भं च॑ ।

तैत्तिरीयब्राह्मणम् (१.८.१०) ३११ जग॑तीम॒न्तर्द॑धन्ति । न तेन॒ जग॑ती कृ॒तेत्या॑हुः । यदैनां॑ तृ॒तीय॑सव॒ने कु॒र्वन्तीति॑ । य॒दा वा ए॒षाऽही॑न॒स्याह॒र्भज॑ते । सा॒हस्र्यं॒ वा सव॑नम् । अथै॒व जग॑ती कृ॒ता । अथ॑ प॒शव्यः॑ । व्यु॑ष्टि॒र्वा ए॒ष द्वि॑रा॒त्रः । य ए॒वं वि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते । व्यै॑वास्मा॑ उच्छति । अथो॒ तम॑ ए॒वार्प॑हते । अ॒ग्नि॒ष्टोम॒मन्त॑त आहर॑ति । अ॒ग्निः सर्वा॑ दे॒वताः॑ । दे॒वता॑स्वे॒व प्रति॑तिष्ठति (३) । उत्त॑रं प्रति॒ष्ठित्यै॑ प॒शव्यः॑ स॒प्त च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये दशमोऽनुवाकः ॥ १० ॥ वरु॑णस्य जा॒मीश्व॑र आ॒ग्नेय॒मिन्द्र॑स्य यन्त्रि॒ष्व॑ग्नि॒ष्टोम॒मुप॑ त्वे॒यं वै र॑ज॒ताऽप्रति॑ष्ठितो॒ दश॑ ॥ १० ॥ वरु॑णस्य॒ यद्द्वि॒श्वभ्यां॑ यन्त्रि॒षु तस्मा॑दु॒र्द्वतीः स॒प्तत्रिँ॑शत् ॥ ३७ ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमोऽध्यायः ॥ ८ ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकः (काण्डः ) समाप्ति॒मगमत् ॥ (मूलक्रमेण-अष्ट. १ अध्या. ८ अनु. १० (७८ ।) (भाष्यक्रमेण-कां. प्रपा. ८ अनु. ७८) ।

[रिक्त पृष्ठ / Blank page]

Digitized by Madhuban Trust, Delhi CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.

Digitized by Madhuban Trust, Delhi CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.

Digitized by Madhuban Trust, Delhi Prof. Pushpendra Kumar, Professor of Sanskrit Deptt., Delhi University, Delhi.

  1. First class first and gold medalist in M.A. (Sanskrit), Delhi University-1958. Shastri-Punjab University.
  2. Ph.D. on ‘Śakti Cult in the Purana’s (Published) Delhi University, 1967.
  3. Common-Wealth Scholar and Post Doctoral fellow, London University-London 1970-72.
  4. Visited many European countries viz. France, Italy, Germany, Austria, Holland, Switzerland and Greece for higher studies.
  5. Principal, Shri Lal Bahadur Shastri Kendriya Sanskrit Vidyapeetha, New Delhi, 1972-74. -6. Fellow of Royal Asiatic Socity of Great Britain and Ireland since
  6. Author of fifteen books and more than 50 articles.
  7. General editor : Cultural Heritage from the Purāṇas : (a ten volume project of the ‘Purāṇa-Vidya Series).
  8. Chief Investigator - U.G.C.’s Major Research project - ‘A descriptive Catalogue of Sanskrit Inscriptions.’
  9. Specialization in Purāṇas, Tantras, Buddhism, Indian Art, Sanskrit Literature, Epigraphy and Grammar.
  10. Organised ten All India Saminars on very interesting and fascinating topics and published the proceedings. CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.

Digitized by Madhuban Trust, Delhi ALL MAHAPURANAS Text with Shloka Index & Introduction [Mahapurana] 450.00 | Vayu Mahapurana ata Mahapurana- | 540 pp 400.00 2304 pp Set 1500.00 | Vishnudharmottara Mahapurana ya Mahapurana | 1246 pp 900.00 1400 pp Set 1200.00 | Vishnu Mahapurana-with two Mahapurana | commentaries 450.00 | 680 pp 500.00 agavata Mahapurana | Maha Bhagavat Devipurana Press 800.00 | Kalki Purana Purana | 316pp 120.00 1993 450.00 | Vasuki Purana Mahapurana | 260 pp 100.00 400.00 | Saura Purana sha Purana | 290 pp 100.00 2vols set 900.00 | Narsimha Purana Mahapurans | 380 pp 100.00 300.00 | Ekamara Purana Mahapurana | 490 pp 150.00 400.00 | Ashtadasha purana Darpana deya Mahapurana | Contents of 18 Puranas 450.00 | 432 pp 180.00 Mahapurana | PURANAS WITH TEXT, 600.00 | TRANS & NOTES IN Mahapurana | ENGLISH VERSWISE 4vols set 1600.00 | Vishnu Purana – H.H. Wilson ahapurana- | 1065 pp 2 vols Set 500.00 2vols set 900.00 | Matsya Purana – N.S. singh ahapurana (Small Type) | 1252 pp 2 vols 500.00 400.00 | Narasimha Purana – Dr. S. Jena Mahapurana | 1100 pp 400.00 8 vols set 4000.00 | Kalika Purana Mahapurana-3vols | Prof. Biswanarayan Shastri e) 1500.00 | (Shloka & Name Index) Mahapurana | 3vols set 1992 900.00 400.00 NAG PUBLISHERS 11 A, U.A. Jawahar Nagar, Delhi-110007 CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.