तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 35, कुल 345 में से
संदर्भ में पढ़ें६ (१.१.२) तैत्तिरीयब्राह्मणम् समीचींना कृतिर्जगद्रक्षणरूपव्यापारो यस्यासौ संकृतिः। विश्वानि कर्माणि जगद्रक्षणहेतुभूतान्यसुरयुद्धादीनि यस्यासौ विश्वकर्मा । स एव मुख्य इन्द्रो मूर्तिविशेषान्धृत्वा मित्रादिरूपः संपन्नः । स एवेन्द्रश्चिकित्सान्सर्वज्ञानकुशलो बृहस्पतिरपि संपन्नः । तस्मै तादृशायेन्द्राय सुतमपिषुतमिमं सोममा सर्वतो जुहोमि । अत्र विनियोगसंग्रहः- अध्वर्युश्च प्रतिप्रस्थाता चाऽऽदाय ग्रहावुभौ । ब्रह्म शुक्रामन्थिपात्रं संधत्ते वेदिपश्चिमे ।। स्तुतौ ग्रहावाददीत सुवीर्यातो दिशोर्द्वयोः । संजग्म वेदेः पुरतः संधत्तः पूर्ववद् ग्रहौ ।। आयुर्मन्त्रयतेऽध्वर्युर्निरस्तः शकलौ त्यजेत् । अथ पांसुमपध्वस्य शुक्रामन्थिद्वयादुभौ ।। प्रोक्षितौ शकलौ क्षिप्त्वा स प्रेति ग्रहयोर्हुतिः । स्तुतः स्तुतो निरस्तेति द्वयं द्वयमुदीरितम् । आद्यानुवाके कथिता मन्त्रा एत त्रयोदश । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः ।। १ ।। अथ द्वितीयोऽनुवाकः । प्रथमानुवाके सोमयागशेषभूताः शुक्रामन्थिग्रहप्रचारमन्त्रा उक्ताः । अथाऽऽधानप्रकरणमारभ्यते । तत्रास्मिन्ननुवाके कालविशेषं विधत्ते-- कृत्तिकास्व॒ग्निमाद॑धीत । ए॒तद्वा अ॒ग्नेर्नक्ष॑त्रम् । यत्कृत्ति॑काः स्वाया॑मे॒वैनं॑ दे॒वता॑या॒माधा॑य॒ ब्र॒ह्म॑व॒र्च॒सी॒ भ॑वति, इति । अग्निचयनकाण्डेऽम्बादुला नितल्लिरित्याद्याः कृत्तिकास्ता यस्मिन्दिने चन्द्रेण संयुज्यन्ते तस्मिन्दिने तासु कृत्तिकासु चन्द्रयोगं प्राप्तास्वग्न्याधानं कुर्यात् । यदेतत्कृत्तिकासंपातरूपं तदेतदग्निसंबन्धि नक्षत्रम् । अत एवान्यत्राऽऽ म्नातम्-“कृत्तिका नक्षत्रमग्निर्देवता” इति ।