भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 36, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 36

तैत्तिरीयब्राह्मणम् (१.१.२) ७ अत आधेयस्याग्नेः कृत्तिकास्वाधाने सति स्वरूपभूतायामेव देवतायामाधानं कृतं भवति । अग्नेर्ब्राह्मणाभिमानित्वात्तत्प्रसादेनाधीतश्रुताध्ययनरूपब्रह्मवर्चससंपन्नो भवति । प्रकारान्तरेण प्रशंसति- मुखं॒ वा ए॒तन्नक्ष॑त्राणाम् । यत्कृत्ति॑काः यः कृत्ति॑कास्व॒ग्निमा॑ध॒त्ते । मु॒ख्य॑ ए॒व भ॑वति, इति । कृत्तिका इति यत्तदेतन्नक्षत्राणां मध्ये मुखं प्रथमं नक्षत्रम् । अत एव नक्षत्रप्रतिपादकेऽप्यनुवाक आदौ पठ्यते “कृत्तिका नक्षत्रमग्निर्देवता ” इत्येकत्र । “अग्नेः कृत्तिकाः शुक्रं परस्तात् ” इत्यन्यत्र । “अग्निर्नः पातु कृत्तिकाः । नक्षत्रं देवमिन्द्रियम्” इत्यन्यत्र । तदेतत्सर्वं मन्त्रानुवाकेष्टिप्रविधायकेऽप्यनुवाक एतदीयैवेष्टिरादावाम्नाता “अग्निर्वा अकामयत । अन्नादो देवाना ँस्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्” इति । अतो सुखभूतासु कृत्तिकास्वाधानः पुमान्सर्वेषु स्वयं मुख्यो भवति । अस्मिन्यक्षे गुणमुक्त्वा दोषमपि कंचिद्दर्शयति- अथो॒ खलु॑ (१) अ॒ग्निनक्ष॑त्रमित्यप॑चा यन्ति । गृ॒हान्ह॑ दा॒हुको भवति, इति । पूर्वोक्तगुणवैलक्षण्यद्योतनायाथोशब्दः । अभिज्ञाः खल्वग्निदेवता- कमिदं नक्षत्रमित्येवं निन्दन्ति तस्मिन्नक्षत्र आधानस्य यजमानस्य गृहान्सोऽग्निर्दाहुको दहनशीलो भवति । अथ निर्दोषं नक्षत्रं विधत्ते- प्र॒जाप॑ती रोहि॒ण्याम॒ग्निम॑सृजत । तं दे॒वा रोहि॑ण्यामाद॑धत । ततो॒ वै ते सर्वा॒न्रोहा॑नरोहन् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । यो रो॑हि॒ण्याम॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व । सर्वा॒न्रोहा॑न्रोहति, इति । रुह्यन्ते प्राप्यन्त इति रोहाः कामास्ते च यस्यां रुह्यन्ते सा रोहिणी । ऋध्नोत्येव समृद्धो भवत्येव । समृद्धिरेव सर्वानित्यनेन विशदीकृता । नक्षत्रान्तरं विधत्ते-