तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 37, कुल 345 में से
संदर्भ में पढ़ें८ (१.१.२) तैत्तिरीयब्राह्मणम् दे॒वा वै भ॒द्राः सन्तोऽग्निमाधि॑त्सन्त (२) तेषा॒मना॑हितोऽग्निरासी॑त् । अथै॑क्यो वा॒मं वस्व॑पा॑क्रामत् । ते पुन॑र्व॒स्वोराद॑धत । ततो॒ वै तान्वा॒मं वसू॒पाव॑र्तत । यः पु॒रा भ॒द्रः सन्पापी॑यान्स्यात् । स पुन॑र्व॒स्वोर॒ग्निमाद॑धीत । पुन॒रिवै॒नं वा॒मं वसू॒पाव॑र्तते । भ॒द्रो भ॑वति, इति । भद्रा धनसंपन्ना आधित्सन्ताऽऽधातुमैच्छन् । तेषां धनगर्वेण श्रद्धाराहित्यादग्निः सम्यगाहितो नाऽऽसीत् । अनन्तरं तेन विकलानुष्ठानेन तदीयं वामं वननीयं मणिमुक्तादिकं धनं तेभ्योऽपगतम् । ततस्ते देवाः श्रद्धालवां भूत्वा पुनर्वसू नक्षत्रवयवौ तारकाविशेषौ यस्मिन्दिने चन्द्रेण युक्तौ तस्मिन्दिनेऽग्निं सम्यगाधाय तद्धनं पुनर्लब्धवन्तः । ततोऽप्यन्योऽपि पूर्वं धनिकः सन्केनापि निमित्तेन पश्चात्पापीयान्स्यादत्यन्तनिर्धनो भवेत् । स पुनर्वस्वोरग्निमाधाय पूर्ववद्धनं प्राप्य सर्वेषां मध्ये भद्रः पूज्यो भवति । पुनरपि वसु लभ्यते ययोस्तौ पुनर्वसू । अथ नक्षत्रान्तरं विधत्ते- यः कामये॑त दान॑कामा मे प्र॒जाः स्यु॒रिति॑ । स पूर्व॑योः फल्गु॑न्योर॒ग्निमाद॑धीत (३) । अ॒र्य॒म्णो वा ए॒तन्नक्ष॑त्रम् । यत्पूर्वे॑ फल्गु॑नी । अ॒र्य॒मेति॒ तमा॑हु॒र्यो ददा॑ति । दान॑कामा अ॒स्मै प्र॒जा भ॑वन्ति, इति । सर्वाः प्रजा मे मह्यं धनं दातुमिच्छन्त्विति यो यजमानः कामयेत सोऽयं पूर्वयोः फल्गुन्योराधाय प्रजाभिर्दत्तं धनं लभते । एतच्च नक्षत्रमर्यमदेवताकम् । “फल्गुनी नक्षत्रमर्यमा देवता” इत्यन्यत्राऽऽम्नानात् । अरीन्यमयति धनदानेन वशी करोतीत्यर्यमा धनस्य दाता । नक्षत्रान्तरं विधत्ते- यः कामये॑त भ॒गी स्या॒मिति॑ । स उत्त॑रयोः फल्गु॑न्योर॒ग्निमाद॑धीत । भग॑स्य॒ वा ए॒तन्नक्ष॑त्रम् । यदुत्त॑रे फल्गु॑नी । भ॒ग्यै॑व भ॑वति, इति ।