भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 38, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 38

तैत्तिरीयब्राह्मणम् (१.१.२) ९ भगी, ऐश्वर्यादिगुणषट्ककामः । तथा च स्मर्यते- ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।। इति । सत्काम उत्तरयोः फल्गुन्योराधाय तत्फलं प्राप्नोति । उत्तरयोः फल्गुन्योर्भगदेवताकत्वमन्यत्राऽऽम्नातम् । "फल्गुनी नक्षत्रं भगो देवता" इति । अथ नक्षत्रान्तरं विधत्ते- का॒ल॒क॒ञ्जा वै नामासु॑रा आसन् (४) । ते सु॑व॒र्गाय॑ लो॒काया॒ग्निम॑चिन्वत । पुरु॑ष॒ इष्ट॑कामुपा॑दधात्पु॒रुष॒ इष्ट॑काम् । स इन्द्रो॑ ब्रा॒ह्म॒णो ब्रुवा॒ण इष्ट॑कामुपा॑धत्त । ए॒षा मे॑ चि॒त्रा नामेति॑ । ते सु॑व॒र्गँल्लो॒कमाप्रारो॑हन् । स इन्द्र॒ इष्ट॑का॒मावृ॑हत् । तेऽवा॑कीर्यन्त । येऽवाकी॑र्यन्त । त ऊर्णाव॑भयोऽभवन् । द्वावुद॑पतताम् (५) । तौ दि॒व्यौ श्वानाव॑भवताम् । यो भ्रातृ॑व्या॒न्त्सयात् । स चि॒त्राया॑म॒ग्निमाद॑धीत अव॑की॒र्यैव भ्रातृ॑व्यान् । ओजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्ध॑त्ते, इति । कालकञ्जशब्दोऽसुरविशेषनामधेयम् । ते चासुरा इति स्वर्गार्थमग्निं चेतुं प्रारभन्त तदानीमेकैकोऽसुर एकैकामिष्टकामुपादधत् । तानसुराञ्जेतुकाम इन्द्रो वेषान्तरं कृत्वा ब्राह्मणोऽहमिति ब्रुवाणस्तन्मध्ये प्रविश्य कांचिदिष्टकामुपाधत्त । तदानीं मनस्येषा मे मदीयेष्टका चित्रेति नामधेयेन युक्ताऽपेक्षितविचित्रफलमदातृत्वादित्यमन्यत । तेन चाग्निचयनेनासुराः स्वर्गमारोढुं प्रारभन्त । तदानीं स इन्द्रः स्वकीयां तामिष्टां चितेरुद्धृतवान् । चितिभ्रंशेन मार्गमध्य एवासुराः प्रभ्रष्टाः । ते चोर्णनाभिनामका लूताः कीटा अभवन् । तेन कीटेन संसृष्टं तन्तुजालमूर्णशब्देनोच्यते । ऊर्णो तस्मिन्नूर्णे सूत्रजाले स्थिता अभयो भीतिरहिता आसते । ते ह्याधारयोः काष्ठयोर्मध्य आकाशे तन्तुजालं सृष्ट्वा तत्र निर्भयास्तिष्ठन्तीत्येतत्सर्वं लोकप्रसिद्धम् । ऊर्णावभय इति पदद्वयं