भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 39, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 39

१० (१.१.२) तैत्तिरीयब्राह्मणम् मिलित्वैकं नामधेयम् । अपानपादिति पदद्वयं यथैकस्याग्नेर्नाम तद्वत् । तेषामसुराणां मध्ये द्वावसुरौ श्रद्धातिशयात्स्वर्गं प्राप्य चितिभ्रंशात्तत्र देवलोके श्वानावभूताम् । यस्मादत्रेन्द्रश्चित्रेणैकापातेन तानसुराम्बिनाशितवांस्तस्माद्यजमानश्चित्रानक्षत्रेऽग्निमाधाय भ्रातृव्या- न्विनाश्य स्वस्मिन्नोज आदिकं स्थापयति । ओजो बलहेतुरष्टमो धातुः । बलं प्रसिद्धम् । इन्द्रियं चक्षुरादिकम् । वीर्यं तदीयव्यवहारपाटवम् । इत्थं नक्षत्राणि विधायाधिकारिविशेषादृतून्विधत्ते- व॒सन्ता ब्रा॑ह्म॒णोऽग्निमाद॑धीत । व॒सन्तो वै ब्रा॑ह्म॒णस्य॒र्तु॒ः । स्व ए॒वैन॑मृ॒तावा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । मुखं॒ वा ए॒तदृ॑तू॒नाम् (६) । यद्व॑स॒न्तः । यो व॒सन्ता॒ऽग्निमाद॑ध॒त्ते । मु॒ख्य॑ ए॒व भ॑वति । अथो॒ योनि॑मन्तमे॒वैनं॑ प्र॒जात॒माध॑त्ते । ग्री॒ष्मे रा॑ज॒न्य॑ आ॒दधीत । ग्री॒ष्मो वै रा॑ज॒न्यस्य॒र्तु॒ः । स्व ए॒वैन॑मृ॒तावा॒धाय॑ । इ॒न्द्रि॒या॒वी भ॑वति । श॒रदि॒ वैश्य॑ आ॒द॑धीत । श॒रद्वै वैश्य॑स्य॒र्तु॒ः (७)। स्व ए॒वैन॑मृ॒तावा॒धाय॑ । प॒शु॒मान्भ॑वति, इति । वसन्तो वसन्तर्तुस्तस्य च ब्राह्मणस्य च प्राथम्य- साम्यात्स्वस्वामिभावात्स्वकीयऋतावाधानस्य ब्राह्मणस्य स्वोचितं ब्रह्मवर्चसमेव फलम् । किंच 'मधुश्च माधवश्च वासन्तिकावृतू ' इत्याम्नानान्मुखत्वं प्राथम्यं वसन्तस्याप्यवगन्तव्यम् । अपि च यथा स्त्रीणामृतुविशेषे प्रवृत्तः पुरुषः प्रजननसमर्थो भवति तथर्तुविशेषे योनिमन्तं प्रजननसामर्थ्यवन्तं प्रादुर्भूतं प्रजातं चाग्निमाधत्ते । एवं ग्रीष्मशरद्वाक्योरपि व्याख्येयम् । पूर्वं काम्य आधाने पूर्वोत्तरफल्गुनीनक्षत्रद्वयं विहितम् । इदानीं तु नित्य आधाने नक्षत्रमेकं निषिध्येतरद्विधत्ते - न पूर्वे॑यो॒ः फल्गु॑न्योर॒ग्निमाद॑धीत । ए॒षा वै ज॑घ॒न्या रात्रि॑ः । सं॒व॒त्स॒रस्य॑ । यत्पूर्वे॑ फल्गु॑नी । पृ॒ष्ठित ए॒व 'सं॒व॒त्स॒रस्या॒ग्निमा॒धाय॑ । पापी॑यान्भवति । उत्त॑र॒योरादधीत । ए॒षा वै प्रथ॑मा रात्रि॑ः संवत्स॒रस्य॑ ।