भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 41, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 41

१२ (१.१.२) तैत्तिरीयब्राह्मणम् क्रतुप्रवेशमन्तरेण नास्ति । तच्च यदि लौकिकाकारमात्रं पर्यवस्येत्तदा पर्णमयीत्वं विफलं भवेत् । काष्ठान्तरेणापि तदाकारस्य सुसंपादकत्वात् । अतोऽपूर्वीयत्वाय पर्णता क्रतौ प्रविष्टा । आहवनीयादीनां त्वेक एव शास्त्रीयाकारः । स च विधिबलादाधानेनैव जन्यते नान्यथा । तस्मादाधानस्य क्रतुप्रवेशं विनैव शास्त्रीयाहवनीयाद्याकार- संपादनसमर्थत्वादग्निमात्रेण तत्संयुज्यते । तथा सति पर्णवैषम्यात्क्रतावप्रविश्याग्नीनुत्पाद्य क्रतुर्वत्स्वा- तन्त्र्येणावतिष्ठते । ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदा- धानसंपादितानां स्वतन्त्राणामेवाऽऽहवनीयाद्यग्नीनां पश्चाद्वाक्यैः क्रतुषु विनियोगोऽस्तु । तत्रैवान्यच्चिन्तितम्- आधानं पवमानादरिष्टेरङ्गं न वा भवेत् । अग्नीनामिष्टिशेषत्वात्तद् द्वाराऽस्य तदङ्गता ॥ अनारभ्य विधानात्तु नाङ्गं कस्यचिदाहितिः । अग्न्यर्थत्वात्तसमेष्टिरग्नयस्त्वग्निहोत्रगाः ॥ इदमाम्नायते-“अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायाग्नये शुचये ” इति । “वसन्त ब्राह्मणोऽग्निमादधीत ” इति च । तत्राऽऽधानं पवमानादीनामिष्टीनामङ्गं भवेत् । कुतः । दर्शपूर्णमासविकृतिषु पवमानादीष्टिषु चोदकप्राप्तानामाहवनीयाद्यग्नीना- मिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्काररूपस्याऽऽधानस्यापि तदङ्गताया अनिवार्यत्वादिति चेत् । मैवम् । न ह्येतदाधानं कस्यचित्क्रतोः प्रकरणे पठितं किंत्वनारभ्याधीतम् । अतो न कस्याप्यङ्गम् । किंवाधानवदिष्टीनामप्यग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गि- भावशङ्का । ननु पवमानेष्ट्यङ्गत्वभावाऽग्निसंस्कार वैयर्थ्यादग्निद्वारा तदङ्गत्वं युक्तमिति चेत् । न संस्कृतानामग्नीनामग्निहोत्राद्युत्तरक्रतुषु तत्तद्वाक्यैर्विनियोगावगमात् । तस्मान्नाऽऽधानमङ्गम् । द्वितीयाध्यायस्य तृतीयपादे चिन्तितम्- वसन्ते विप्र आदध्यात्तत्रैवोपनयीत् तम् । अनुवादः प्रापणं वाऽनुवादः कालसिद्धये ॥ अन्तरेणाग्निविद्याभ्यां कर्मानुष्ठित्यसंभवात् । क्लृप्ते आधानोपनेती प्राप्ता विप्रादयस्ततः ।