तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 42, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.१.३) १३ लौकिकाग्नेः पुस्तकाच्च तत्सिद्धेर्नास्ति कल्पनम् । कालविप्रादिसंयुक्तोऽप्राप्तं विधीयते ॥ “वसन्ते ब्राह्मणोऽग्निमादधीत । ग्रीष्मे राजन्यः । शरदि वैश्यः” इति श्रूयते । “वसन्ते ब्राह्मणमुपनयीत । ग्रीष्मे राजन्यम् । शरदि वैश्यम्” इति च । तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयोऽनूद्यन्ते । न च तेषां प्राप्त्यभावः । क्रत्वनुष्ठानान्यथानुपपत्त्या क्लृप्तत्वात् । न ह्याहुत्याधारभूतमग्निमनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं संभवति । अग्निश्च नाऽऽधानमन्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं कल्पयति । विद्या चोपनयनपूर्वकाध्ययनमन्तरेण न संभवतीति ब्राह्मणाद्युपनयनं कल्पयतीति तत्प्राप्तिरिति चेत् । मैवम् । लौकिकाग्नौ होतुं पुस्तकपाठनाधिगन्तुं च शक्यत्वेनाऽऽधानोपनयनयोरकल्पने ब्राह्मणादीनामप्राप्तेः । तस्माद्वसन्तादिकालविशिष्टे ब्राह्मणादिकर्तृके आधानोपनयने अत्र विधीयेते । षष्ठाध्यायस्य प्रथमपादे चिन्तितम्-पुंसोरेकस्य वाऽऽधानं वसानावित्यतो द्वयोः । एष क्षौमविधिर्द्वित्वं दंपत्योरेकता ततः ॥ आंधाने श्रूयते-“क्षौमे वसानावग्निमादधीयाताम् ” इति । तत्र वसानाविति पुंलिङ्गद्विवचनादुभयोः पुंसोराधानेऽधिकार इति चेत् । मैवम् । क्षौमस्याप्राप्तस्य विधेयतया पुंद्वित्वस्यापि विधाने वाक्यभेदान्न तद्विधीयतं । किंतु दंपत्योः सहाधिकारेण प्राप्तं द्वित्वमनूद्यते । पतिश्च पत्नी चेति विगृह्य पतिशब्दस्यैकशेषात्पुंलिङ्गद्विवचनमविरुद्धम् । तस्मादाधानेऽधिकारिणः पुंस एकत्वमेव । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ अथ तृतीयोऽनुवाकः द्वितीयानुवाके आधानार्थं नक्षत्रादिकालोऽभिहितः । तृतीये देवयजनार्थाः संभारा उच्यन्ते । ‘यदुक्तं सूत्रकारेण-‘प्राचीनप्रवणं देवयजनमुद्धृत्य’ इति । तदिदं विधत्ते-