तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 43, कुल 345 में से
संदर्भ में पढ़ें१४ (१.१.३) तैत्तिरीयब्राह्मणम् उद्ध॑न्ति । यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति, इति । भूमेरूर्ध्वभागं खनित्रादिना खनेत् । तेन निष्ठीवनादिनिमित्तं यदमेध्यं तदपहतं भवति । उद्धननमन्त्रस्तु-‘उद्धन्यमान-“ इत्यादि । स चोपरि तनप्रपाठकादावाम्नातत्वात्तत्रैव व्याख्यास्यते । एवमुत्तरेष्वपि विधिषु द्रष्टव्यम् । अथ विधत्ते- अ॒पो वोक्ष॑ति॒ शान्त्यै॑, इति । उद्धननकृता भूमेर्वेदना जलेन शाम्यति । ‘आपो वै शान्ताः’ इत्यन्यत्रोपशमहेतुत्वश्रवणात् । विधत्ते - सिर्कता॒ निव॑पति । ए॒तद्वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ रू॒पम् । रू॒पेणै॒व वै॑श्वान॒रमव॑रुन्द्धे, इति । सिकतानां तद्रूपत्वं ‘वैश्वानरस्य रूपम्’ इति मन्त्रादवगन्तव्यम् । सिकतादयो द्रव्यविशेषा देवयजनभूमौ प्रक्षेपणीयाः संभाराः । अत एव सूत्रकारेणोक्तम्-‘सप्त पार्थिवान्संभारानाहरत्येवं वानस्पत्यान्' इति । तत्र पार्थिवेषु सिकतारूप एकः संभार उक्तः । ऊषा॒न्निर्व॑पति । पुष्टि॒र्वा ए॒षा प्र॒जनन॒म् । यदूषा॑: (१) । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निमाध॑त्ते । अथा॒ संज्ञान॑ ए॒व । सं॒ज्ञान॒ ँ ह्येतत्प॑शू॒नाम् । यदूषा॑:, इति । पशवो ह्युषरक्षेत्रोत्पन्नं तृणादिकं रसान्तरयुक्तत्वादादरेण भक्षयित्वा पुष्टाः सन्तोऽपत्यान्युत्पादयन्ति । तस्मादूषा लवणाम्भसा मिश्रिता भूम्यवयवा इति यावत् । सैषा पुष्टिः प्रजननं च तस्मादूषनिर्वापेन तदुभयप्राप्तिः । अपि च संज्ञाने प्रदेश एवाग्निराहितो भवति । एतच्चोषरक्षेत्रं पशूनां संज्ञानम् । पशवो ह्याघ्राणेन तत्संस्थानं जानन्ति । तस्मादूषा आधानस्य स्थाने निवपनीयाः । एतन्निर्वपणकाले ध्यानविशेषं विधत्ते