तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
१४ (१.१.३) तैत्तिरीयब्राह्मणम् उद्ध॑न्ति । यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति, इति । भूमेरूर्ध्वभागं खनित्रादिना खनेत् । तेन निष्ठीवनादिनिमित्तं यदमेध्यं तदपहतं भवति । उद्धननमन्त्रस्तु-‘उद्धन्यमान-“ इत्यादि । स चोपरि तनप्रपाठकादावाम्नातत्वात्तत्रैव व्याख्यास्यते । एवमुत्तरेष्वपि विधिषु द्रष्टव्यम् । अथ विधत्ते- अ॒पो वोक्ष॑ति॒ शान्त्यै॑, इति । उद्धननकृता भूमेर्वेदना जलेन शाम्यति । ‘आपो वै शान्ताः’ इत्यन्यत्रोपशमहेतुत्वश्रवणात् । विधत्ते - सिर्कता॒ निव॑पति । ए॒तद्वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ रू॒पम् । रू॒पेणै॒व वै॑श्वान॒रमव॑रुन्द्धे, इति । सिकतानां तद्रूपत्वं ‘वैश्वानरस्य रूपम्’ इति मन्त्रादवगन्तव्यम् । सिकतादयो द्रव्यविशेषा देवयजनभूमौ प्रक्षेपणीयाः संभाराः । अत एव सूत्रकारेणोक्तम्-‘सप्त पार्थिवान्संभारानाहरत्येवं वानस्पत्यान्' इति । तत्र पार्थिवेषु सिकतारूप एकः संभार उक्तः । ऊषा॒न्निर्व॑पति । पुष्टि॒र्वा ए॒षा प्र॒जनन॒म् । यदूषा॑: (१) । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निमाध॑त्ते । अथा॒ संज्ञान॑ ए॒व । सं॒ज्ञान॒ ँ ह्येतत्प॑शू॒नाम् । यदूषा॑:, इति । पशवो ह्युषरक्षेत्रोत्पन्नं तृणादिकं रसान्तरयुक्तत्वादादरेण भक्षयित्वा पुष्टाः सन्तोऽपत्यान्युत्पादयन्ति । तस्मादूषा लवणाम्भसा मिश्रिता भूम्यवयवा इति यावत् । सैषा पुष्टिः प्रजननं च तस्मादूषनिर्वापेन तदुभयप्राप्तिः । अपि च संज्ञाने प्रदेश एवाग्निराहितो भवति । एतच्चोषरक्षेत्रं पशूनां संज्ञानम् । पशवो ह्याघ्राणेन तत्संस्थानं जानन्ति । तस्मादूषा आधानस्य स्थाने निवपनीयाः । एतन्निर्वपणकाले ध्यानविशेषं विधत्ते
तैत्तिरीयब्राह्मणम् (१.१.३) १५ द्यावा॑पृथि॒वी स॒हाऽऽ॑स्ताम् । ते वि॑यती॒ अब्रूताम् । अस्त्वे॒व 'नौ स॒ह य॒ज्ञिय॒मिति॑ । यद॒मुष्या॑ य॒ज्ञिय॒मासी॑त् । तद॒स्या॑मदधात् । त ऊ॒षा अ॑भवन् (२) । यद॒स्या य॒ज्ञिय॒मासी॑त् तद॒मुष्या॑मदधात् । तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम् । ऊ॒षान्निव॑पन्न॒दो ध्या॑येत् । द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निमाध॑त्ते, इति । सृष्टिकाले द्यावापृथिव्यौ मध्यगतान्तरिक्षव्यवधानरहिते अभूतां तदा प्राणिनामवकाशार्थमीश्वरानुज्ञया परस्परवियोगं गते वियोगकाले च स्नेहातिशयात्परस्परमेवमब्रूतामावयोर्यज्ञयोग्यं यत्सारमस्ति तत्सहैव तिष्ठतु । भूसारस्य दिवो वियोगो मा भूद् द्युसारस्य च भूमेर्वियोगो मा भूदिति । ततोऽमुष्या दिवः संबन्धि यद्यज्ञियं सारं तदस्यां पृथिव्यां सा द्यौरस्थापयत् । ते च द्युलोकसारांशा एते दृश्यमाना भूम्यवयवा ऊषरूपा अभवन् । तस्यां पृथिव्यां यद्यज्ञियं सारमासीत्तदमुष्यां दिवि भूमिरस्थापयत् । तच्च स्थापितं भूसारमदो दृश्यमानं चन्द्रमसि कलङ्करूपं कृष्णम् । तस्माद्भूसारत्वादूषाणां निवपनकाले तत्कृष्णरूपमत्र तिष्ठतीति ध्यायेत् । तथा सति द्युलोकसंबन्धिन्यूषे भूलोकसंबन्धिनि कृष्णे चाग्निराहितो भवति । अथ तृतीयं संभारं विधत्ते- अ॒ग्नि॒र्दे॒वेभ्यो॒ निला॑यत । आ॒खुरू॒पं कृ॒त्वा । स पृ॑थि॒वीं प्रावि॑शत् । ऊतीः कु॒र्वाणः॑ पृथि॒वीमनु॒सम॑चरत् । तदा॑शुकरी॒षम॑भवत् (३) । यदा॑खुकरी॒ष ँसंभा॒रो भव॑ति यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्द्धे, इति । अग्निः कदाचित्केनापि निमित्तेन देवेभ्योऽपरक्तः सन्मूषको भूत्वा तदीयं रूप च संपूर्णं कृत्वा निलीनो देवैरदृश्यो भूत्वा स च पृथिवीं प्रविष्टां बिलानि कुर्वाणोऽनुक्रमेण भूमेरन्तरेव समचरत् । यद्विलनिर्माणं निःसारितं पांसुरूपं तदेतदाखुकरीषं तस्मिन्संभृते सति तत्र निगूढं यदग्नेस्तेजस्तत्सर्वं प्राप्नोति । अथ चतुर्थं संभारं विधत्ते- ऊर्जं॒ वा ए॒त ँ रसं॑ पृथि॒व्या 'उ॒पर्दी॑का उ॒द्दिह॑न्ति ।
१६ (१.१.३) तैत्तिरीयब्राह्मणम् यद्वल्मी॒कम् । यद्व॑ल्मीकव॒पा सं॒भारो भव॑ति । ऊर्ज॑मे॒व रसं॑ पृथि॒व्या अव॑रुन्द्धे । अथो॒ श्रोत्र॑मे॒व । श्रोत्र॒ ँ ह्येतत्पृ॑थि॒व्याः । यद्वल्मीकः॑ (४), इति । उपदीकाः पिपीलिकासमाना आर्द्रीकृतमृत्तिकोपचयक्षमा जन्तवस्ते हि पृथिव्याः संबन्धिनभूर्शब्दाभिधेयं रसं पृथिव्याः सकाशादूर्ध्वमानीयोपचिन्वन्ति । तत्संभारेण भूसारं प्राप्नोति । अपि च श्रोत्रेन्द्रियसामर्थ्यमपि प्राप्नोति । वल्मीकस्य पृथिवीश्रोत्रत्वात् । एतद्वेदनं प्रशंसति- अब॑धिरो भवति । य ए॒वं वेद॑, इति । अथ पञ्चमं संभारं विधत्ते - प्र॒जाप॑तिः प्र॒जा अ॑सृजत । तासा॒मन्न॑मुपा॑क्षीयत । ताभ्यः॑ सू॒दमु॑प॒प्राभि॑नत् । ततो॒ वै तासा॒मन्नं॒ नाक्षी॑यत । यस्य॑ सू॒दः सं॒भारो भव॑ति । नास्य॑ गृ॒हेऽन्नं॑ क्षीयते, इति । पुरा कदाचित्प्रजापतिः सृष्टानां प्रजानां यदन्नं तद्भुज्यमानमुपक्षीणमभूत् । ततः प्रजार्थं सूदमशोषजलप्रदेशावस्थितं कर्दममुपानीय प्राभिनत् । तेषु तेषु पृथिवीप्रदेशेषु पृथक्पृथक्प्रसारितवान् । ततस्तत्र तत्र तस्योत्पत्तौ सत्यां तासां प्रजानामन्नमक्षीणमभूत् । अतस्तत्संभारेण गृहेऽन्नमक्षयं भवति । अथ षष्ठं संभारं विधत्ते- आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् । तेन॑ प्र॒जाप॑तिरश्राम्यत् (५) । क॒थमि॒द ँ स्यादि॑ति । 'सोऽप॑श्यत्पुष्करप॒र्णं तिष्ठ॑त् । 'सोऽम॑न्यत । अ॒स्ति वै तत् । यस्मि॑न्नि॒दमधि॑ति॒ष्ठतीति॑ । स·'वरा॒हो रू॒पं कृ॒त्वोप॑न्यमज्जत् स पृ॑थि॒वीमध॒ आर्च्छ॑त् । तस्या॑ उप॒हत्योद॑मज्जत् । तत्पु॑ष्करप॒र्णेऽप्र॑थयत् । यदप्र॑थयत् (६) तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वम् । अभू॒द्वा इ॒दमिति॑ । तद्भू॒म्यै भूमि॒त्वम् । तां दिशोऽनु॒ वातः॒ समर्॑वहत । ता ँ
शर्क॑राभिदृ ँ हत् । शं वै नो॑ऽभूदिति॑ । तच्छर्क॑राणा शर्क॑रत्वम् । यद्व॑रा॒हवि॑हत ँ सं॒भारो॑ भव॑ति । अ॒स्यामे॒वाच्छ॑म्बट्कारम॒ग्निमार्ध॑त्ते । शर्क॑रा भवन्ति॒ धृत्यै॑ (७) । अथो॒ शंत्वार्य॒, इति॑ ।
इदमिदानीं दृश्यमानं गिरिनदीसमुद्रादिकं स्थावरं मनुष्यगवादिकं जंगमं च सृष्टेः पूर्वमीदृशं नाऽऽसीत् । किंतु सलिलरूपमासीत् । 'षलगत्तौ' औणादिक इलच् । इदं दृश्यमानं जगत्सटिलं कारणेन संगतमविभागापन्नम् । यद्वा “इमे वै लोकाः सरिरम्” इति श्रुतेः सरिरशब्देन लोका उच्यन्ते । रलयोरभेदात्सलिलरूपमासीत्तत्राप्याप एव न तु भूमिरूपम् । तदानीं प्रजापतिस्तेन सिसृक्षित- जगन्निमित्तेनाश्राम्यत् । पर्यालोचनरूपं तपोऽकुरुत । कथं नामेदं सर्वं जगद्भवेदिति विचार्य तस्य सलिलस्य मध्ये दीर्घनालाग्रेऽवस्थितमेकं पद्मपत्रमपश्यत् । तच्च दृष्ट्वा मनस्येवमतर्कयत् यस्मिन्नाधार इदं सनालं पद्मपत्रमधिश्रित्य तिष्ठति किंचिदधस्तादस्त्येवेति तर्कयित्वा च स प्रजापतिर्वराहो भूत्वा तदीयं रूपं च सम्यक्कृत्वा तस्य पद्मपत्रनालस्य समीपे जलमध्ये निमग्नोऽभूत् । मग्नश्चासावधस्ताद् भूमिं प्राप्तवान् । तस्या भूमेः सकाशात्कियतीमप्यार्द्रां मृदं स्वदंष्ट्रया पृथकृत्य सलिलस्योपर्यन्मज्जनं कृतवान् । तच्च मृद्रूपं तस्मिन्पुष्करपर्णे प्रसारितवान् । यस्मादियं मृत्तिका प्रथिता तस्मात्पृथिवीनाम संपन्नम् । ततः संतुष्ट इदं स्थावरजंगमाधारभूतं वस्त्वभूदित्युवाच । ततो भवतीति व्युत्पत्या भूमिनाम संपन्नम् । तामाद्रीं भूमिमनुलक्ष्य शोषयितुं चतस्रो दिशोऽप्यनुप्रजापतिसंकल्पाद्वायुः स (सं) प्रवृत्तः। शुष्यन्तीं तां भूमिं स प्रजापतिः शर्कराभिः क्षुद्रपाषाणैर्दृढीचकार । कृत्वा च नोऽस्माकं शं सुखमभूदित्युवाच । तस्मात्कारणाच्छं सुखं कृतमाभिरीति व्युत्पत्या शर्करेति नाम संपन्नम् । यस्माद्वराहेणाऽऽनीताया मृद ईदृशो महिमा तस्माद्वराहेण भूमौ विहतं खनितमस्यां मृत्स्वरूपं संभरणीयम् । तथा सत्यस्यां भूम्यामेव वैयर्थ्यं, यथा न भवति तथाऽग्निमाधत्ते । यस्माच्छर्कराभिर्भूमिर्दृढीकृता तस्मादत्रापि धृत्यै दाढर्याय शर्कराः प्रक्षेप्सव्याः । अथो अपि च शंत्याय सुखसिद्धये शर्कराः कार्याः ।
अथ सप्तमं संभारं विधत्ते- सरैता अ॒ग्निराधेय॒ इत्या॑हुः । आपो॒ वरु॑णस्य॒ पत्नय आसन् । ता अ॒ग्निर॒भ्य॑ध्यायत् । ताः सम॑भवन् । तस्य
१८ (१.१.३) तैत्तिरीयब्राह्मणम् रेतः॒ परा॑ऽपतत् । तद्धि॑र॑ण्यमभवत् । यद्धि॑र॑ण्यमु॒पास्य॑ति । सरै॑तसमे॒वाग्निमाध॑त्ते, इति । या अब्देवता वरुणस्य भार्यास्ताः कामुकोऽग्निर्ध्यात्वा , संभोगं कृतवान् । तदानीं व्यग्रस्य तस्य रेतो भूमौ हिरण्यमभूत् । अतोऽत्र हिरण्ये प्रक्षिप्ते सति सरेतस्कोऽग्निराहितो भवति । एतस्य हिरण्य प्रक्षेपस्थानं विधत्ते- पुरु॑ष॒ इन्वै रु॒वाव्रेत॑सो बीभत्स॒त इत्या॑हुः (८) । उत्त॑र॒त उपा॑ स्ये॒द्विभित्सायै, इति । इन्वा इति निपातत्रयं मिलित्वा प्रसिद्धिमाचष्टे । लोके सर्वोऽपि पुरुषः स्वकीयं रेतो हस्तेन स्प्रष्टुं जुगुप्सते । तदेतत्प्रसिद्धमित्यभिज्ञा आहुः । तस्मादत्राग्निस्थापनप्रदेशं विहायोत्तरस्मिन्पार्श्वे हिरण्यं प्रक्षिपेत् । तच्चाविभित्सायै संपद्यते । यदुक्तं सूत्रकारेण- "द्वेष्याय रजतं प्रयच्छति' इति । तदिदं विधत्ते- अति॑ प्रय॑च्छति । आर्ति॑ मे॒वाति॒प्रय॑च्छति, इति । देवयजने प्रक्षिप्तं सुवर्णमतिक्रम्यान्यद्रजतं प्रयच्छेत् । तथा सति स्वात्मानमतिक्रम्यान्यस्मै द्वेष्याय स्वकीयामार्तिं दत्तवान्भवति । तदेवं पार्थिवाः संभारा विहिताः । तथा वानस्पत्येषु सप्तसु संभारेषु प्रथमं संभारं विधत्ते- अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पं कृ॒त्वा । 'सोऽश्व॒त्थे 'संवत्स॒रमति॑ष्ठत् । तद॑श्व॒त्थस्या॑श्वत्थ॒त्वम् । यदा॑श्व॒त्थः संभा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्यक्त॑म् । तदे॒वाव॑रुन्द्धे (९), इति । कदाचिदग्निर्देवेभ्योऽपक्रम्याश्वो भूत्वा तदीयं रूपं स्वस्य कृत्वाऽश्वत्थवृक्षे निरूढः संवत्सरमात्रमतिष्ठत् । अश्वस्तिष्ठत्यस्मिन्निति व्युत्पत्त्या तस्य वृक्षस्याश्वत्थनाम संपन्नम् । तस्मादश्वत्थसंभारेण तत्र निरूढमग्नेस्तेजः प्राप्नोति । द्वितीयं संभारं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.१.३) १९ दे॒वा वा ऊर्जा॒ व्य॑भजन्त । तत॑ उदु॒म्बर॒ उद॑तिष्ठत् । ऊर्ग्वा उ॑दु॒म्बरः॑ । यदौदुम्बरः॒ संभारो॒ भव॑ति । ऊर्ज॑मे॒वाव॑रुन्द्धे, इति । देवाः सर्वे कदाचिदेकत्रोपविश्यान्नरसं विभक्तवन्तस्तदा तस्मिन्स्थाने पतितादन्नरसादुदुम्बरवृक्ष उदतिष्ठत् । तस्मादन्नरसस्यैवोदुम्बरत्वात्तत्संभारेणान्नरसं प्राप्नोत्येव । अथ तृतीयं संभारं विधत्ते- तृ॒ती॒यस्या॑मि॒तो दि॒वि सोम॑ आसीत् । तं गाय॒त्र्यह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णोऽभवत् । तत्प॒र्णस्य॑ पर्ण॒त्वम् । (१०) । यस्य॑ प॒र्णम॒यः सं॒भारो भव॑ति । सो॒म॒पी॒थ॒मे॒वा॒व॑रुन्द्धे॒ इति । इतो भूलोकादारभ्य गणनायामन्तरिक्षमतिक्रम्य परतो वर्तमाना या द्यौस्तृतीया तस्यां सोमवल्ली स्थिता । तं च सोमं गायत्री देवता तत्रत्यैः सोमरक्षकैः सह युद्धं कृत्वा समाहरत् । अयं च वृत्तान्तः “कद्रूश्च वै सुपर्णी च” इत्यनुवाके प्रपञ्चितः। सहसा समानीयमानस्य तस्य सोमस्यैकं पर्णं छिन्नं सद्भूमौ पतित्वा पलाशवृक्षोऽभवत् । पर्णजन्यत्वात्तस्य वृक्षस्य पर्णनाम संपन्नम् । सोमजन्यस्य तस्य संभरणेन सोमपानमेव प्राप्नोति । पुनरपि तमेव संभारं प्रशंसति- दे॒वा वै ब्रह्म॑न्वदन्त । तत्प॒र्ण उपा॑शृणोत् । सु॒श्रवा॒ वै नाम॑ । यत्प॑र्ण॒मयः॒ संभारो॒ भव॑ति । ब्र॒ह्म॒व॒र्च॒स॒मे॒वाव॑रुन्द्धे, इति । देवाः कदाचिदेकान्ते पलाशवृक्षच्छायायामुपविश्य परस्मिन्ब्रह्मणि संवादं कृतवन्तः । तत्सर्वं समीपे स्थितः पलाशवृक्षोऽऽशृणोत् । शोभनं वस्तु श्रुतवानिति व्युत्पत्त्या सुश्रवा इति नाम संपन्नम् । तस्मात्परं ब्रह्म श्रुतवतो वृक्षस्य संभरणेन ब्रह्मवर्चसमेव प्राप्नोति । अथ चतुर्थं संभारं विधत्ते-
तृतीयोऽनुवाकः ॥ ३ ॥
२० (१.१.३) तैत्तिरीयब्राह्मणम् प्र॒जाप॑तिर॒ग्निम॑सृजत । सोऽबिभे॒न्मा मा॑ धक्ष्यतीति॑ । त ँ श॒म्या॑ऽशमयत् (११) । तच्छ॒म्यै॑ शमित्त्वम् । तच्छमीम॒यः॑ सं॒भारो भ॒वति । शान्त्या॒ अप्र॑दाहाय, इति । प्रजापतिरग्निं सृष्ट्वा मामयमग्निः परातीति भीतः शमीशाखया ज्वालामशमयत् । शमयत्यनेनेति व्युत्पत्या शमीति नाम संपन्नम् । अतस्तत्संभारः पूर्वं विद्यमानस्य दाहस्योपशान्त्यै, इतः परमदाहाय च संपद्यते । अथ पञ्चमं संभारं विधत्ते- अ॒ग्नेः सृ॒ष्टस्य॒ यतः॑ । वि॒क॑ङ्क॒तं॒ भा आ॑र्च्छत् । यद्वै क॑ङ्क॒तः सं॒भारो भव॑ति । भा ए॒वाव॑रुन्द्धे, इति । प्रजापतिना सृष्टोऽग्निस्त्वरया गच्छन्विकङ्कतवृक्षमपश्यत् । तदा तदीयं तेजो वृक्षं प्राप्नोत् । अतस्तत्संभारं सति भा एव दीप्तिमेवावरुन्धे । अथ षष्ठं संभारं विधत्ते- सह॑दयो॒ऽग्निराधे॑य॒ इत्या॑हुः । म॒रुतो॒ऽद्भि॑र॒ग्निम॑तमयन् । तस्य॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन् । साऽश॑निरभवत् । यद॒शनि॑हतस्य वृ॒क्षस्य॑ सं॒भारो॒ भव॑ति । सह॑दयमे॒वाग्निमाध॑त्ते (१२), इति । उ॒र्शा अ॑भवन्नभवद्वल्मीके॑श्राम्यदप्र॑थयद्वैतसै बीभत्स॒त इत्या॑हू रुन्द्धे पर्ण॒त्वम॑शमयदच्छिन्द ँ॒स्त्रीणि॑ च ॥ ३ ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥ मरुतः कदाचिदग्निना सह विरोधे सति तमग्निमद्भिरतमयन्ग्लानिं प्रापयन् । ततो निष्क्लिन्नस्याग्नेर्हृदयमाच्छिन्दन् । तस्य हृदयमशनिरूपेणोद्भूत् । तस्मादशनिहतस्य वृक्षस्य संभारेण सहृदयोऽग्निराहितो भवति ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमपाठके तृतीयोऽनुवाकः ॥ ३ ॥
तैत्तिरीयब्राह्मणम् (१.१.४) २१ अथ चतुर्थोऽनुवाकः । तृतीये देवयजनदेशे प्रक्षेप्सव्याः संभारा उक्ताः । अथ चतुर्थे तैः संभारैर्युक्तेष्वायतनेषु वह्न्याधानमभिधीयते । यदुक्तं सूत्रकारेण- “प्राचीनप्रवणं देवयजनमुद्धृत्य तस्मिन्नुदीचीनव ँश ँशरणं करोति तस्याग्रेण मध्यमं व ँ गार्हपत्यायतनं भवति । तस्मात्प्राचीनमष्टासु प्रक्रमेषु ब्राह्मणस्याऽऽहवनीयायतनमेकादशसु राजन्यस्य द्वादशसु वैश्यस्य चतुर्वि ँ शत्यामपरिमिते वा यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ” इति । तत्रैकं पक्षं विधत्ते- द्वाद॑शसु॒ विक्र॑मेष्व॒ग्निमाद॑धीत । द्वाद॑श॒ मासा॑: सं॑वत्स॒रः । सं॑वत्स॒रादे॒वैन॑मव॒रुध्याऽऽध॑त्ते, इति । विक्रमः प्रक्रमः । स च द्विपदः । तथा चोक्तम्- “प्रक्रमो द्विपदस्त्रिपदो वा” इति । गार्हपत्याद्द्वादशसु विक्रमेषु समाप्तेष्वाहवनीयायतनं कृत्वा तत्राऽग्निमादध्यात् । संख्यासाम्येन मासद्वारा संवत्सरबलादेनमग्निमवरुध्याऽऽधानं कृतवान् । पक्षान्तरं विधत्ते- यद्द्वाद॑शसु॒ विक्र॑मेष्वाद॒धीत॑ । परी॑मित॒मव॑रुन्धीत । चक्षु॑र्निमि॒त आद॑धीत । इ॒यद्द्वाद॑शविक्रा॒मा ३ इति॑ । परि॑मितं चै॒वाप॑रिमितं॒ चार्व॑रुन्द्धे, इति । द्वादशसु विक्रमेष्वाधाने सति देशस्य पादेन परिमितत्वात्फलमपि परिमितमेव भवति । तस्माद्देशो न पादेन परिमातव्यः । किंतु चक्षुषा दृष्ट्वा प्रायेणैतावान्देशो द्वादशविक्रामः संभवतीति निश्चित्य तत्राऽऽद- धीत । एवं सति पादेन परिमितत्वाभावात्परिमितदोषोऽपि न भविष्यति। चक्षुषा परिमितत्वात्तदीयगुणश्च भविष्यति । चाक्षुषनिश्चयद्योतनार्था प्लुतिः । इममेव पक्षं पुनः प्रशंसति- अनृ॑तं॒ वै वा॒चा व॑दति । अनृ॑तं॒ मन॑सा ध्यायति (१) । चक्षु॒र्वे स॒त्यम् । अ॒द्रा॒गित्या॑ह । अदर्श॒मिति॑ । तत्स॒त्यम् । यश्चक्षु॑र्निमिते॒ऽग्निमाध॑त्ते । स॒त्य ए॒वैन॒माध॑त्ते, इति ।
२२ (१.१.४) तैत्तिरीयब्राह्मणम् वाङ्मनसयोरनृतविषयत्वमपि क्वचिद् दृष्टम् । चक्षुस्तु पुरोवर्तिवस्तुनो याथात्म्यमेव पश्यतीति तत्सत्यस्वरूपम् । अत एव लोकेऽपि दूरदेशवृत्तान्तं पुरुषमुखादाकर्ण्य किं त्वमेव दृष्टवानुत श्रुतवानसीत्येवं सत्यत्वनिश्चयाय पृच्छन्ति । विचारार्था प्लुतिः । सोऽप्यहमेव दृष्टवानस्मीति यदा ब्रूते तदा तत्सत्यमिति निश्चिन्वन्ति । तस्माच्चक्षुर्निमित्तस्य सत्यत्वात्सत्यदेशेऽग्निराहितो भवति । यत्तु लोके शुक्तिरजतादिदर्शनं तच्च काचकामलादिदोषकृतमिति न कदाचिदपि चक्षुः सत्यं व्यभिचरति । इदानीं प्रसङ्गादाहिताग्नेः कंचिद्धर्मं दर्शयति- तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तं वदेत् । नास्य॑ ब्राह्म॒णोऽना॑श्वान्गृ॒हे व॑सेत् । स॒त्ये ह्य॑स्या॒ग्निराहि॑तः, इति । यस्माच्चक्षुर्निमित्तत्वेनसत्यभूतेदेशेऽ यमग्निराहितस्तस्मादाहिताग्निः सत्यमेव वदेत् । न त्वनृतम् । सत्यानृतयोरेकत्र विरोधात् । गृहस्थस्य गृहे ब्राह्मणस्यानश्नतो यो निवासः सोऽप्यनृतसमानः । तस्मात्तं भोजयेदेव । देशविशेषं विधाय कालविशेषं विधत्ते- आ॒ग्ने॒यी वै रात्रिः॑ (२) आ॒ग्ने॒याः प॒शवः॑ । ऐ॒न्द्रमहः॑ । नक्तं॒ गार्ह॑पत्य॒माद॑धाति । प॒शूने॒वाव॑रुन्द्धे । दिवा॑ऽऽह॑वनी॒यम् । इ॒न्द्रि॒यमे॒वाव॑रुन्द्धे इति । रात्रावग्नेः प्रकाशाधिक्याद्रात्रिराग्नेयी । एतच्चाग्निहोत्रब्राह्मण एवोपपादितम्-“अग्निं वावाऽऽदित्यः सायं प्रविशति । तस्मादग्निर्दूरान्नक्तं ददृशे” इति । अग्नेः पशुप्रदत्वात्पशूनामाग्नेयत्वम् । एतच्चाग्न्युपस्थानब्राह्मणे देवैरभिहितम्“इममेवाग्नि ँ स्तवाम स नः स्तुतः पशून्पुनर्दास्यतीति । तेऽग्निमस्तुवन्स एभ्यः स्तुतो रात्रिया अध्यहरभिपशून्निराजत् ” इति । एवमिन्द्रस्याहः संबन्धो ब्राह्मणान्तराद् द्रष्टव्यः । तस्माद्रात्रौ गार्हपत्याधानेन पशून्प्राप्नोति । अहन्याहवनीयाधानेन्द्रियं प्राप्नोति । अहन्यपि विशेषं विधत्ते- अ॒र्धोदि॑ते॒ सूर्ये॑ आहवनी॒यमाद॑धाति । ए॒तस्मि॒न्वै लो॒के प्र॒जाप॑तिः प्र॒जा असृ॑जत । प्र॒जा ए॒व तद्यज॑मानः सृजते । अथो॑ भू॒तं चैव भवि॑ष्यच्च॒र्वरु॑न्द्धे (३), इति ।
तैत्तिरीयब्राह्मणम् (१.१.४) २३ लोक्यतऽवगम्यत इति व्युत्पत्त्या लोकशब्दः कालपरः । अर्धोदयकाले प्रजानां सृष्टत्वात्तत्राऽऽधानं प्रजाथं भवति । अपि चोदयस्यासंपूर्णत्वाद्वृतमतीतं रात्रिरूपं च भविष्यदागाम्यहश्चेत्युभयं प्राप्तं भवति । अथाऽऽधातव्यानामग्नीनां क्रमं निर्णेतुमाहवनीयस्य प्राथम्यं निराचष्टे- इडा॒ वै मान॒वी य॒ज्ञानूका॒शिन्या॑सीत् । साऽशृ॑णोत् । असु॑रा अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । त आह॑व॒नीय॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑न्वाहार्य॒पच॑नम् । साऽब्र॑वीत् प्रती॒च्यै॑षा ँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा परा॑भविष्य॒न्तीति॑ (४) । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्रती॒च्य॑स्य॒ श्रीरे॑ति । भ॒द्रोभू॒त्वा परा॑भवति॒, इति॑ । इडा नाम गोरूपा काचिद्देवता । सा च मनुसंबन्धिनी । तत्संबन्धश्च मानवी घृतपदी मैत्रावरुणीतीडोपाव्हानस्य ब्राह्मणे स्पष्टमाम्नातः- “मानवीत्याह मनुह्येतामग्रेऽपश्यत्” इति । सा चेडा यज्ञानूकाशिनी यज्ञतत्त्वप्रकाशनसमर्थाऽऽसीत् । सा कदाचिदसुराणामग्न्याधानवार्तां श्रुत्वा द्रष्टुं गता । दृष्ट्वा मनोः पार्श्वे समागत्यैवमुवाच-“असुराः प्रथमं पूर्वदिगवस्थितमाहवनीयमाधाय ततः पश्चिमदिगवस्थितं गार्हपत्यमाधाय दक्षिणदिगवस्थितमन्वाहार्यपचनं चाऽऽहितवन्तः । तथा चाऽऽधानस्कृतेन कंचित्कालं धनिका भूत्वा पश्चाद्विनाशं प्राप्स्यन्ति । एतेषां पश्चिमभिमुखत्वे प्रवृत्तत्वादेषां श्रीरपि प्रतीची प्रतिकूलगमना सती तेभ्योऽसुरेभ्यो निवर्तिष्यते' इति । अतोऽसुरवदिदानींतनस्या- ऽऽहिताग्नेरप्यन्तं पराभवो भवति । अथान्वाहार्यपचनस्य प्राथम्यं निराचष्टे-. साऽशृ॑णोत् । दे॒वा अ॒ग्निमार्द॑धत॒ इति॑ । तद॑गच्छत् । तैऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑ऽऽहव॒नीय॑म् । साऽब्र॑वीत् (५) । प्राच्यै॑षा ँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा सु॑व॒र्गं लो॒कमै॑ष्यन्ति । प्र॒जां तु न वैत्स्य॒न्त इति॑ । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्राच्य॑स्य॒ श्रीरे॑त्ति । भ॒द्रो
२४ (१.१.४) तैत्तिरीयब्राह्मणम् भू॒त्वा सु॑व॒र्गं लो॒कमै॑ति । प्र॒जां तु न वि॑न्दते , इति । पूर्ववद्व्याख्येयम् । अत्र गार्हपत्यादूर्ध्वं प्राङ्मुखप्रवृत्तेर्देवानां श्रीरपि प्राची प्रवृत्ता । प्रकृष्टं पूर्वदिगवस्थितं स्वर्गमञ्चति गच्छतीति प्राची । तस्माद्देवानां स्वर्गप्राप्तिर्भविष्यति, किंतु प्रजाहेतोर्गार्हपत्यस्य पूर्वमाधानाभावात्प्रजां न लप्स्यन्ते । एवं तादृगाधानकर्तरि यजमानेऽपि द्रष्टव्यम् । अथ गार्हपत्यस्य प्राथम्यं विधत्ते- साऽब्र॑वीदि॒डा मनु॑म् । तथा॒ वा अ॒हं त्वा॒ग्निमधा॑स्यामि । यथा॒ प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्ज॑नि॒ष्यसे॑ (६) । प्रत्य॒स्मिँल्लो॒के स्था॒स्यासि॑ । अ॒भि सु॑व॒र्गं लो॒कं जे॑ष्यसीति॑ । गार्ह॑पत्य॒मग्र॑ आद॑धात् । गार्ह॑पत्यं॒ वा अनु॑ प्र॒जाः प॒शवः॒ प्रजा॑यन्ते । गार्ह॑पत्येनै॒वास्मै॑ प्र॒जां प॒शून्प्रार्ज॑नयत् । अथा॑न्वाहार्य॒पच॑नम् । ति॒र्यङ्ङि॑व॒ वा अ॒यं लो॒कः । अ॒स्मिन्ने॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् । अथा॑ऽऽहव॒नीय॑म् । तेनै॒व सु॑व॒र्गं लो॒कम॒भ्यज॑यत् (७) । यस्यै॒वम॒ग्निरा॑धी॒यतै॑ । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जायते । प्रत्य॒स्मिँल्लो॒के ति॑ष्ठति । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति, इति । गार्हपत्यस्य प्रजापशुस्वामित्वात्तस्य प्रथमाधानेन तत्प्राप्तिः। गार्हपत्यस्य दक्षिणभागे स्थितो योऽ यमन्वाहार्यपचनस्तस्य तिर्यक्त्वेन वर्तमानस्योर्ध्वगमनाभावेन मनुष्यलोकसदृशत्वात्तदाधानेन मनुष्यलोके प्रतिष्ठा। तत ऊर्ध्वमाहवनीयाधानाय प्राङ्मुखप्रवृत्तेः स्वर्गस्य च प्राग्वर्तित्वात्तत्प्राप्तिः । अथाधिकारिभेदेनाऽऽधानमन्त्रविशेषान्विधत्ते- यस्य॑ वा अय॑थादेवत॒मग्निरा॑धी॒यते॑ । आ दे॒वता॑भ्यो वृ॒श्च्यते॑ । पापी॑यान्भवति । यस्य॑ यथादे॒वत॑म् । न दे॒वता॑भ्य॒ आ वृ॑श्च्यते । वसी॑यान्भवति । भृगू॒णां त्वाऽङ्गिर॑सां व्रतपते व्र॒तेनाऽऽद॑धामीति॑
तैत्तिरीयब्राह्मणम् (१.१.४) २५ भृ॒ग्वङ्गि॑रसा॒माद॑ध्यात् । आ॒दि॒त्यानां॑ त्वा दे॒वानां॑ व्रतपते व्र॒तेनाऽऽद॑धामी॒ त्यन्यासां॑ ब्राह्म॑णीनां॑ प्र॒जाना॑म् । वरु॑णस्य त्वा॒ राज्ञो॑ व्र॒तप॑ते व्र॒तेनाऽऽद॑धामी॒ति राज्ञः॑ । इन्द्र॑स्य त्वे॒न्द्रिये॑ण व्रतपते व्र॒तेनाऽऽद॑धामीति॑ रा॒जन्य॑स्य । मनौ॑स्त्वा ग्राम॒ण्यो॑ व्रतपते व्र॒तेनाऽऽद॑धामी॒ति वैश्य॑स्य । ऋ॒भूणां॑ त्वा॑ दे॒वानां॑ व्रतपते व्र॒तेनाऽऽद॑धामीति॑ र॒थ॒का॒रस्य॑ । य॒थादे॒व॒तम॒ग्निनाधी॑यते । न दे॒वता॑भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति (८), इति । ध्यायति रात्रिञ्चावरुन्द्धे भविष्यन्तीत्य॑ब्र॒वाञ्ज॒निष्य॒सें- ऽज्जय॒द्वसी॑यान्भवति नव॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ यस्य पुरुषस्य याऽभिमानिनी देवता तामनतिक्रम्याऽऽधानं तस्य पुरुषस्य यथादैवतमित्युच्यते । तदतिक्रमे सति देवताद्रोहो दारिद्र्यं च भवति । अनतिक्रमे तु देवताप्रसादो धनसंपत्तिश्च भवति । ये मनुष्या भृगुगोत्रोत्पन्ना ये चाङ्गिरोगोत्रोत्पन्नास्तेषामुभयेषां तत्प्रतिपादकं भृगू णामिति मन्त्रेणाऽऽधानम् । हे व्रतपते कर्मस्वामिन्नग्ने (ग्न) भृगूणामङ्गिरसां च संबन्धिना व्रतेन कर्मविशेषेण निमित्तभूतेन त्वामाधामीहाऽऽयतने स्थापयामीति मन्त्रार्थः । एवमुत्तरत्रापि योज्यम् । गोत्रान्तरगतानां ब्राह्मणानामादित्या एव देवताः । अभिषिक्तस्य राज्ञो वरुणो देवता । इतरस्य क्षत्रियस्येन्द्रो देवता । इन्द्रियेण व्रतेनेन्द्रियाभिवृद्धिहेतुना कर्मणेत्यर्थः । वैश्यस्य ग्रामनिर्वाहको मनुर्देवता । रथकारोऽनुलोमजः संकीर्णजातिः । तस्य ऋभवो देवता । एतैर्मन्त्रैर्यथादेवतमाधानं संपद्यते । अत्र मीमांसा । षष्ठाध्यायस्य प्रथमपादे चिन्तितम् - विप्रादिरेव रथकृदन्यो वाऽऽद्योऽस्तु योगतः । रूढवर्णान्तरं तस्याऽऽधाने वर्षर्तुरुच्यते ॥ (इति) । आधाने श्रूयते- “वर्षासु रथकार आदधीत” इति । तत्र रथं करोतीति व्युत्पत्या त्रैवर्णिको रथकार इति चेत् । मैवम् । संकीर्णजातिविशेषे रूढत्वात् । वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः । शूद्रायां वैश्यादुत्पन्ना
२६ (१.१.५) तैत्तिरीयब्राह्मणं करिणी तस्यां करिण्यां माहिष्यादुत्पन्नो रथकारः । तथा च याज्ञवल्क्यः- माहिष्येण करिण्यां तु रथकारः प्रजायते । इति । तस्य च रथकारस्याऽऽधानकालो वर्षर्तुः ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।। अथ पञ्चमोऽनुवाकः चतुर्थे त्रयाणामाहवनीयादीनामाधानमुक्तम् । पञ्चमे तत्रैव कंचिद्विशेषं पवमानहवींषि चाभिदधाति । तत्राऽऽदौ व्याहृतिमन्त्रान्विधत्ते- प्र॒जाप॑तिर्वा॒चः स॒त्यम॑पश्यत् । तेना॒ग्निमार्ध॑त् । तेन॒ वै स आर्ध्नो॑त् । भूर्भुव॒: सुव॒रित्या॑ह । ए॒तद्वै वा॒चः स॒त्यम् । य ए॒तेना॒ग्निमा॒धत्ते॑ । ऋ॒ध्नोत्ये॒व । अथो॑ स॒त्यप्रा॑शूरे॒व भ॑वति । अथो॒ य ए॒वं वि॒द्वान॒भिचर॑ति । स्तृ॒णुत ए॒वैन॑म् (१), इति । वाचः संबन्धि यत्सत्यमवश्यंभाविफलसाधनं मन्त्ररूपं तच्छास्त्रमुखेन (ण) दृष्ट्वा प्रजापतिस्तेनाग्निमाधाय समृद्धोऽभूत् । किं तत्सत्यमिति पृच्छद्द्यः शिष्येभ्यो भूर्भुवः सुवरिति मन्त्रस्वरूपं प्राह । एतस्य वाक्संबन्धिसत्यत्वादेतेनाग्निमादधानः समृद्धो भवति । अपि चासौ सत्याप्राशूर्भवत्येव । प्रकर्षेणाश्यते व्याप्यतेऽभिमतमनेनेति प्राशूः पराक्रमः। सत्यः कदाचिदप्यविसंवादी प्राशूः । अपि चैवं व्याहृतिमहिमानं विद्वान् शत्रुं मारयितुमभिचरन्नेनं हिनस्त्येव । सामर्थ्यप्रदर्शनेन व्याहृतित्रयं प्रशंसति-- भूरित्या॑ह । प्र॒जा ए॒व तद्यज॑मानः सृजते । भुव॒ इत्या॑ह । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठत । सुव॒रित्या॑ह । सु॒व॒र्ग ए॒व लो॒के प्रति॑तिष्ठति, इति । योऽयं भूरिति मन्त्रमुच्चारयत्यसौ तन्मन्त्रसामर्थ्येन प्रजाः पुत्रपौत्रादिका उत्पादयति । एवमुत्तरयोरपि योज्यम् ।
तैत्तिरीयब्राह्मणम् (१.१.५) २७ सामान्येन विहितं व्याहृतित्रयं पुनर्विशेषाकारेण विधत्ते - त्रि॒भि॒र॒क्षरै॒र्गा॑ह॑'पत्य॒माद॑धाति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॒वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । सर्वैः॑ प॒ञ्चभि॑राहव॒नीय॑म् (२) । सु॒वर्गा॑य॒ वा ए॒ष लो॒काया॒ऽधीय॑ते । यदा॑हव॒नीयः॑ सु॒वर्ग॑ ए॒वास्मै॑ लो॒के, वाचः॑ स॒त्य ँस॑र्ठमा॒प्नोति॑, इति । भूर्भुव इत्येतानि त्रीण्यक्षराणि तैराधीयमानस्त्रित्वसाम्याल्लोकत्रये प्रतिष्ठितोऽग्निराहितो भवति । भूर्भुवः सुवरिति पञ्चाक्षराणि तैराधीयमानस्याऽऽहवनीयस्य स्वर्गाश्रयत्वात्स्वर्गे वाक्संबन्धि कृत्स्नं सत्यमस्मै प्राप्नोति । अथ त्रयं पञ्चकं च मिलित्वा प्रशंसति- त्रि॒भिर्गा॑र्हपत्य॒माद॑धाति । प॒ञ्चभि॑राहव॒नीय॑म् । अ॒ष्टौ संप॑द्यन्ते । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रोऽग्निः॑ । यावा॑ने॒वाग्निः॑ । तमाध॑त्ते (३), इति । अग्नेर्मुखजत्वेन गायत्रीसंबन्धित्वम् । यदुक्तं सूत्रकारेण-“गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीपयति । सिकताश्चोपयमनीरुपकल्पयंते तमुद्यच्छति” इति । तदेतद्विधत्ते- प्र॒जाप॑तिः प्र॒जा असृ॑जत । ता अ॑स्मात्सृ॒ष्टाः परा॑चीरायन् । ताभ्यो॒ ज्योति॒रुद॑गृह्णात् । तं ज्योतिः॒ पश्य॑न्तीः प्र॒जा अ॒भिस॒माव॑र्तन्त । उ॒परी॑वा॒ग्निमुद॑गृ॒हीया॒दुद्धर॑न् । ज्योति॑रेव॒ पश्य॑न्तीः प्र॒जा यज॑मानम॒भिस॒माव॑र्तन्ते, इति । प्रजापतिना सृष्टाः प्रजाः पराच्यः पुनरावृत्तिरहिता यदा गतास्तदा प्रजापतिस्ताभ्यो ज्योतिरुदगृह्णात् । अन्धकारे पलायमानानां प्रजानां दर्शनार्थं कंचिद्दीपमूर्ध्वं धृतवान् । ताश्च प्रजा ज्योतिर्दृष्ट्वा तं प्रजापतिमभिलक्ष्य समावृत्ताः । अतो गार्हपत्यादाहवनीयं प्रत्यग्निमुद्धरन्नूर्ध्वमेव गृह्णीयान्नतत्त्वधो धारयेत् । तेन सर्वाः प्रजा ज्योतिः पश्यन्त्यो यजमानं प्रत्यावर्तन्ते । यदुक्तं सूत्रकारेण-“प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति” इति । तदेतद्विधत्ते-
२८ (१.१.५) तैत्तिरीयब्राह्मणम् प्र॒जाप॑तेर॒क्ष्य॑श्वयत् । तत्परा॑पतत् । तदश्वो॑ऽभवत् । तदश्व॑स्याश्व॒त्वम् (४) । ए॒ष वै प्र॒जाप॑तिः । यद॒ग्निः । प्रा॒जा॒प॒त्योऽश्वः॑ । यदश्वं॑ पुर॒स्तान्नय॑ति । स्वमे॒व चक्षु॑- र्पश्य॑न्प्र॒जाप॑तिर॒नूदै॑ति, इति । पुरा कदाचित्प्रजापतेरक्षिगोलकं केनापि व्याधिनोच्छूनं भूत्वा भूमौ पतितं सदश्वरूपेणोद्भूत् । अश्वयदश्वमिति व्युत्पत्या तस्याश्वनाम संपन्नम् । अग्निश्च प्रजापतिसृष्टत्वात्प्रजापतिरेव । अश्वश्चोक्तरीत्या प्राजापत्यः । तस्मादाहवनीयं प्रति गच्छन्नश्व पुरस्तान्नयेत् । तथा सति स्वकीयमेव चक्षुः पश्यन्प्रजापतिरूपोऽग्निरनुगच्छति । एतदेवाश्वस्य पुरोगमनं पुनः प्रशंसति- व॒ज्री वा ए॒षः । यदश्वः॑ । यदश्वं॑ पु॒रस्तान्नय॑ति । जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते, इति । वज्रिवद्युद्धेशत्रुविनाशहेतुत्वादश्वो वज्री । स च पुरस्तान्नीयमानो यजमानस्य पूर्वमुत्पन्नान्भ्रातृव्यान्विनाशयति । वज्रसमानदन्तो- पेतत्वाद्वाऽस्य वज्रित्वम् । एतदेवाभिप्रेत्याग्निब्राह्मणे समाम्नातम्-“वज्री वा एष यदश्वो दद्भिरन्यतो दद्ध्यो भूयान्” इति । आहवनीयपर्यन्तं नीतस्याश्वस्य तेनैव पथा पुनरावृत्तिं विधत्ते- पु॒न॒रा॒वर्त॑यति (५) । ज॒नि॒ष्यमा॑णानेव प्रति॑नुदते, इति । आहवनीयात्पुनरावृत्या भविष्यतः शत्रून्प्रतिबध्नाति । यदुक्तं सूत्रकारेण-“पूर्ववाडश्वो भवति ” इति । तदिदं विधत्ते- न्या॑ह॒वनी॑यो॒ गार्ह॑पत्यमकामयत । नि गार्ह॑पत्य आह॑व॒नीय॑म् । तौ वि॒भाजं॒ नाश॑क्नोत् । सोऽश्व॑: पूर्व॒वाड् भू॒त्वा । प्राञ्चं॑ पूर्व॒मुद॑वहत् । तत्पूर्व॒वाह॑: पूर्व॒वाट् त्वम् । यदश्वं॑ पुर॒स्तान्नय॑ति । वि॒भक्ति॑रे॒वैन॑योः॒ सा । अथो॒ नाना॑वीर्या॒वे॒वैनौ॑ कुरुते (६), इति । पुरा कदाचिदाहवनीयो गार्हपत्य नितरामकामयत । गार्हपत्यधर्मं धृतवानित्यर्थः । गार्हपत्यश्च नितरामाहवनीयधर्मं धृतवान् ।
तैत्तिरीयब्राह्मणम् (१.१.५) २९ ततस्तावूभावग्नी संकीर्णधर्मतया प्रजापतिर्विभाजं विभक्तुं नाशक्नोत् । ततस्तद्विभागाय स्वयं पूर्ववाडश्वो भूत्वा धर्मसांकर्यं परिहृत्य प्राञ्चं प्राग्देशनिवासयोग्यमाहवनीयं पूर्वमुद्वहत् । पूर्वदेशं प्रत्युद्धृत्य नीतवान् । पूर्ववाडित्यश्वविशेषः । सेनामध्य इतरेभ्योऽश्वेभ्यः । पूर्वं वहतीति वा पूर्वस्मिन्वयस्यत्यन्तबाल्य एव वहतीति वा पूर्ववाट् । अतस्तादृशमश्वमत्र पुरस्तान्नयेत् । तस्य च विभागक्षमत्वादेनयोरग्न्योः सैव विभक्तिर्विभागः संपद्यते । पूर्वदेशेऽवस्थित आहवनीयः पश्चिमदेशेऽवस्थितो गार्हपत्य इति विभागः । अपि च य धर्मसांकर्यपरिहारादेनावूभावग्नी भिन्नवीर्यावेव करोति । पत्नीसंयाजहोमाधारत्वलक्षणं वीर्यं गार्हपत्यस्यैव । आग्नेयादि- हविराधारत्वलक्षणमाहवनीयस्यैव । यदुक्तं सूत्रकारेण-“न कर्णदघ्नमत्युद्गृह्णाति” इति । तदिदं विधत्ते- यदु॑र्पर्युप॒रि शिरो॒ हरे॑त् । प्रा॒णान्वि॑च्छिन्द्यात् अधो॒ऽधः शिरो॑ हरति । प्रा॒णानां॑ गोपी॑थाय, इति । हस्तेनोद्धृत्याऽऽहवनीयं प्रति नीयमानमग्निं शिर उपर्युपरि शिरःसमीपवर्तिन्यूर्ध्वभागे धृत्वा यदि हरेत्तदा प्राणा विच्छिद्येरन् । अतः प्राणरक्षणाय शिरसः समीपवर्तिन्यधः प्रदेशे धृत्वा नयेत् । यदुक्तं सूत्रकारेण-“जानुदघ्न धारयमाणस्तृतीयमध्वनोऽग्नि ँ हरति नाभिदघ्ने तृतीयमास्यदघ्ने तृतीयम्” इति । तदेतदङ्गुल्याऽभिनयन्विधत्ते- इ॒यत्यग्रे॑ हरति । अथे॒यत्यथेय॑ति । त्रय इ॒मे लो॒काः । ए॒ष्वेवैनं॑ लो॒केषु॒ प्रति॑ष्ठितमाधत्ते, इति । इयति जानुदघ्ने । एवं नाभिदघ्नास्यदघ्नयोरपि । एतस्मादग्निप्रणयनात्पूर्वमग्नेर्विभागं विधत्ते- प्र॒जाप॑तिर॒ग्निम॑सृजत । 'सोऽबि॑भेत्प्र मां ध॑क्ष्य॒तीति॑ (७) । तस्य॑ त्रे॒धा म॑हि॒मानं॒ व्यौ॑हत् । शान्त्यै॒ अप्र॑दाहाय । यत्रे॒धाऽग्निराधी॒यते॑ । म॒हि॒मान॑मेवास्य॒ तद्व्यू॑हति । शान्त्यै॒ अप्र॑दाहाय, इति ।
३० (१.१.५) तैत्तिरीयब्राह्मणम् अग्निं सृष्ट्वा तदीयदाहाद्बिभ्यत्प्रजापतिस्तदीयसामर्थ्यं त्रेधा व्यभजत् । सोऽयं विभागो ज्वालायाः शान्त्यै स्वविषये दाहाभावाय च संपन्नः । एवमत्राऽऽधित्सुरपि गार्हपत्यादग्नेरेकं भागमाहवनीयार्थमपरं भागं दक्षिणाग्न्यर्थं च विभज्य शान्त्यर्थमपदाहार्यं च त्रेधा कुर्यात् । तत्राऽऽहवनीयार्थस्याग्नेराहवनीयायतनं प्रति नयनं विधत्ते- पुन॒राव॑र्तयति । म॒हिमान॑मे॒वास्य॒ संद॑धाति, इति । विभागेन योऽग्नेर्महिमा शान्तस्तं महिमानं पुनः संधातुं विभक्तमग्निमाहवनीयायतने स्थापयेत् । तत्र स्थापने कंचिद्विशेषं विधत्ते- प॒शुर्वा ए॒षः। यदश्व॑ः । ए॒ष रु॒द्रः (८) । यद॒ग्निः । यदश्व॑स्य प॒दैऽग्निमा॒दध्या॑त् रु॒द्राय॑ प॒शूनपि॑दध्यात् । अ॒प॒शुर्यज॑मानः स्यात् । यन्नाऽऽक्र॒मये॑त् । अन॑वरुद्धा अस्य प॒शव॑: स्युः । पा॒र्श्वत॒ आक्र॑मयेत् । यथाऽऽहि॑तस्या॒ग्नेर॒ङ्गारा॑ अ॒भ्यव॒वर्तेर॑न् । अवरु॑द्धा अस्य प॒शवो॑ भवन्ति । न रु॒द्रायापि॑दधाति (९), इति । अत्रेदं चिन्त्यते । पुरस्तादानीतमश्वं किमाहवनीयायतनमाक्रमयेन्न वेति । उभयमप्येतदनुपपन्नम् । अश्वस्य पशुत्वात् । अग्नेः क्रूरदेवतावत्वाच्च । अश्वपदलाञ्छिते प्रदेशेऽग्निस्थापने सति क्रूरदेवाय पशून्समर्पयेत् । ततो यजमानः पशुरहितः स्यात् । अनाक्रमणे तु यजमानस्य पशवो न संभवेयुः । अत उभयदोषपरिहारार्थमायतनस्य कस्मिंश्चित्पार्श्वे तमश्वमाक्रमयेत् । स्वायतने स्थापितस्य प्रज्वाल्यमानस्याग्नेरङ्गारा येन प्रकारेण तदश्वपदमभिलक्ष्य स्वत एव प्रवृत्ता भवन्ति तथा समीपवर्तिप्रदेशमाक्रमयेत् । एवं सत्यङ्गाराणामश्वपदे प्रविष्टत्वात्पशवोऽपि लभ्यन्ते । स्वयं बुद्धिपूर्वकमश्वपदेऽग्नेरप्रतिष्ठापनादुग्रदेवाय पशवोऽपि न समर्पिता भवन्ति । इत्थमाधानगतो विशेषो निरूपितः । अथ पवमानहवींषि विधत्ते- त्रीणि॑ ह॒वी * षि॒ निर्व॑पति । वि॒राज॑ ए॒व वि॒क्रांतं॒ यज॑मा॒नोऽनु॒विक्र॑मते, इति ।
तैत्तिरीयब्राह्मणम् (१.१.५) ३१ विशेषेण राजत इति विराडग्निरस्तस्य विक्रान्तं सामर्थ्यमनु यजमानोऽपि विक्रमते समर्थो भवति । सामान्येन विहितानां हविषां देवताविशेषान्विधत्ते- अ॒ग्नये॑ प॒वमा॑नाय । अ॒ग्नये॑ पाव॒काय॑ । अ॒ग्नये॒ शुच॑ये । यद॒ग्नये॑ प॒वमा॑नाय॒ निर्व॑पति । पु॒नात्ये॒वैन॑म् । यद॒ग्नये॑ पाव॒काय॑ । पू॒त ए॒वास्मि॒न्नन्नाद्यं॑ दधाति । यद॒ग्नये॑ शुच॑ये । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति (१०), इति । ए॒न॒मा॒ह॒व॒नी॒यं ध॑त्ते॒ऽश्व॒त्वं व॑र्तयति कुरुत॒ इति॑ रु॒द्रो द॑धाति॒ यद॒ग्नये॒ शुच॑य॒ एकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ पवमानः स्वयं शुद्धः । पावकोऽन्यस्य शोधकः । शुचिर्दीप्यमानः । तत्र प्रथमं यजमानशुद्धिः। द्वितीयेनान्नप्राप्तिः । तृतीयेन फलद्वयस्योपरिष्टाद्ब्रह्मवर्चसप्राप्तिः । अत्र मीमांसा । तृतीयाध्यायस्य षष्ठपादे चिन्तितम्- संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्ट्यः । वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः ॥ चोदकः पवमानेष्टौ न ता प्रापयितु प्रभुः । अनङ्गत्वेष्यसिद्धिभ्यामिष्ट्यस्तदसंस्कृते ॥ (इति ) ॥ पवमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते । संस्कृतेष्वग्निहोत्रदर्शपूर्णमासादिक्रतवः प्रवर्तन्ते । तथा सति विमताः पवमानेष्ट्यस्ताभिरिष्टिभिः संस्कृते वह्नौ कर्तव्या इष्टत्वादितरेष्टिवत् । चोदकोऽप्येवं सत्यनुगृहीतो भवति । एताभिरिष्टिभिः संस्कृते वह्नौ प्रकृत्यनुष्ठानादिति प्राप्ते ब्रूमः । यद्यपि पवमानेष्टेर्विकृतिस्तथाऽपि चोदको न तस्यां पवमानेष्टौ तां पवमानेष्टिमतिदेष्टुं प्रभवति । प्रकृतौ प्रयाजादिवत्पवमानेष्टेरङ्गत्वभावात् । किंचेतरस्याः पवमानेष्टेः संस्कृताग्निसिद्ध्यर्थं पवमानेष्ट्यन्तराङ्गीकारं तत्रापि तथेत्यनवस्थायामिष्टिरेव न सिध्येत् । तस्मात्ताभिरिष्टिभिरसंस्कृते वह्नौ पवमानेष्टयः कर्तव्याः। दशमाध्यायस्य द्वितीयपादे चिन्तितम्-
३२ (१.१.६) तैत्तिरीयब्राह्मणम् लुप्यते पवमानेष्टौ निर्वापः क्रियतेऽथवा । लुप्यते साधनः भावात्तेन मुख्यो न लुप्यते ॥ (इति) । आधानप्रकरणाग्नाताया पवमानेष्टौ निर्वापसाधनं नास्ति । अग्निहोत्रहवणी हि प्रकृतौ निर्वापसाधनं सा चाऽऽधानकाले न संभवति । अग्निहोत्रस्याऽऽधानोत्तरकालीनत्वेन तद्धोमसाधनभूता- यास्तस्या अपि तथात्वादिति प्राप्ते ब्रूमः। मुख्यो निर्वापस्तं प्रति गुणभूताऽग्निहोत्रहवणी । न हि गुणलोपेन मुख्यो लोप्तुमर्हति । किञ्चाऽधानकाले स्वरूपेणैवाविद्यमानाया अग्निहोत्रहवण्याः साधनत्वं दूरापेतम् । ततः साधनाभावादित्यनुपन्यासः । तस्मान्निर्वापो न लुप्यते । पञ्चमाध्यायस्य तृतीयपादे- चिन्तितम्- आहिते पवमानेष्टिसंस्कृते वाऽग्निहोत्रकम् । आधानेनाग्निनिष्पातेस्तन्मात्रे कर्म संभवेत् ॥ आधानस्यानपेक्षस्य नाप्युत्पादकता मता । समुच्चितस्य हेतुत्वात्कर्म स्यादिष्टिसंस्कृते ॥ (इति)। अग्न्याधानादूर्ध्वं विलम्ब्य पवमानेष्टयः क्रियन्ते । द्वादशसु रात्रीष्वनुनिर्वपेदितीष्टिकालविधानात् । ताभ्यः पुरा द्वादशसु दिनेष्वग्निहोत्रमनुष्ठेयम् । आधानमात्रेणाऽऽहवनीयाद्यग्नेर्निष्पन्नत्वादिति प्राप्ते ब्रूमः । आधानेन पवमानेष्टिनिरपेक्षेण नाऽऽहवनीयाद्यग्निरुत्पद्यते । अन्यथा पवमानेष्टिवैयर्थ्यप्रसङ्गात् । न च .विकल्पः । आधानमुपजीव्य तस्मादुत्तरकाले विधानात् । तत इष्टिभिः समुच्चित्यैवा · ऽऽधानमग्न्युत्पादकमितीष्टिभिः संस्कृते वह्नौ पश्चादग्निहोत्रानुष्ठानम् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ अथ षष्ठोऽनुवाकः । पञ्चमे पवमानहवींषि संक्षिप्योक्तानि । अथ षष्ठे तद्विस्तारो हविरन्तराणि दक्षिणाश्चोच्यन्ते। तत्र प्रथमं तावत्पवमानहविषां देवताविशेषस्य पूर्वमुक्तत्वानदनुवादेन हविर्विशेषं विधत्ते- दे॒वा॑सु॒रा संय॑त्ता आसन् । ते दे॒वा वि॑ज॒यमुप॑यन्तः॒ अ॒ग्नौ वा॒मं वसु॒ संन्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो
तैत्तिरीयब्राह्मणम् (१.१.६) ३३ जे॒ष्यन्तीति॑ । तद॒ग्निनो॑त्स॒हम॑शक्नोत् । तत्त्रे॒धा वि॒न्य॑दधात् । प॒शुषु तृतीय॑म् । अ॒प्सु तृतीय॑म् । आ॒दि॒त्ये तृतीय॑म् । (१) । तद्दे॒वा वि॒जित्य॑ । पुन॑रवा॑रुत्सन्त । ते॑ऽ ग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन् । प॒शवो॒ वा अ॒ग्निः पव॑मानः। यदे॒व प॒शुष्वासी॑त् । ततेनावा॑रुन्धत । ते॑ऽग्नये॒ पाव॒काय॑ । आपो॒ वा अ॒ग्निः पा॑व॒कः । यदे॒वाप्स्वा॑सी॑त् । ततेनावा॑रुन्धत (२) । ते॑ऽग्नये॒ शुच॑ये । अ॒सौ वा आ॑दि॒त्योऽग्निः शुचिः॑ । यदे॒वाऽऽदि॒त्य आसी॑त् । ततेनावा॑रुन्धत, इति । यदा देवासुराः परस्परं युद्धोद्युक्तास्तदानीं विजयमपेक्षमाणा देवाः स्वकीयं वामं वमनीयं वसु धनमग्नौ सम्यक्स्थापितवन्तः । तेषामयमभिप्रायः । यद्यस्मानसुरा जेष्यन्ति तदानीमा- पत्कालेऽस्माकमिदमेव धनं जीवनाय भविष्यतीति । अग्निस्तद्भाराधिक्येन तद्धनमुद्धृत्य सोढुं नाशक्नोत् । तत्त्रेधा विभज्य पश्वादिषु स्थापितवान् । तदानीं देवाश्चासुरान्विजित्य पुनः स्वकीयं धनं प्राप्तुमैच्छन् । तदा पश्वाद्यभिमानिदेवतासु स्थापितं धनं बलादवरोद्धुमशक्ताः सन्तस्तदुत्कोचार्थं पवमानगुणकायाग्नये पुरोडाशं निरवपन् । पशवश्च पवमानाग्न्यधीनत्वात्तत्स्वरूपाः । तेन च हविषा पवमानमग्निं तर्पयित्वा पशुष्ववस्थितं धनं स्वीकृतवन्तः । एवं ते देवाः पावकगुणकायाग्नये पुरोडाशं निरवपन्नित्यमनुवर्तते । अपां पावकाग्न्यधीनत्वात्तन्मुखेनाप्सु स्थितं धनं प्राप्नुवन् । तथा शुचिगुणकायाग्नये पुरोडाशं तस्याग्नेरादित्यरूपत्वादादित्ये स्थापितं धनमवाप्नुवन् । तस्मादेताभ्यो देवताभ्यः प्रत्येकमष्टाकपालं पुरोडाशं निर्वपेदिति द्रव्यविधिरुन्नेयः । अथैतेषां हविषामाग्नेयेन हविरन्तरेण सह निर्वापं विधत्ते- ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । त॒नुवो॒ वावै॒ता अ॑ग्न्य॒ाधेय॑स्य । आ॒ग्ने॒यो वा अ॒ष्टाक॑पालोऽग्न्य॒ाधेय॒मिति॑ । यत्तं निर्व॑पेत् । नैतानि॑ । यथाऽऽत्मा स्यात् (३) । नाङ्गा॑नि । ता॒दृगे॒व