तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 67, कुल 345 में से
संदर्भ में पढ़ें३८ (१.१.६) तैत्तिरीयब्राह्मणम् ए॒व प्रति॑तिष्ठति । कार्ष्ममूर्ध्नं देय॑म् । अप॑रिमितस्याव॑रुद्ध्यै (११) इति । आदित्ये तृतीयमप्स्वा॑सी॒त्तत्तेनाव॑रुन्धत स्यादा॑प्यते॒ रेतो॒ऽग्निरे- क॑मे॒कमे॑तानि ह॒वीग्ँ॑षि॒निर्व॑प॒त्प्रत्यव॑रोहति ददात्यध्व॒र्युर्दे॒यमेक॑ च । इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ आग्नीध्रेण तत्तदृतावग्नेरिध्यमानत्वात्तस्मै दत्तेन द्रव्येणाग्निसहितानामृतूनां प्रीतिः । तस्मै यद्देयमुपबर्हणं शिरसः पृष्ठस्य वाऽऽधारभूतं तस्य कार्पासाशाणोर्णादिमयैः शुक्लनीलपीतादिवर्णैः सर्वैः सूत्रैर्निष्पन्नत्वात्तेन रूपाणां प्राप्तिः। अश्वस्य प्रजापतिचक्षुर्जजन्यत्वात्तेनेन्द्रियप्राप्तिः । दातव्याया धेनोः कामधेनु- रूपत्वादाशिषां प्राप्तिः । अनड्वाञ्छकटं वहति । अग्निश्च द्रव्यं वहति । अध्वर्युरप्यनुष्ठानं वहति । ततः समानत्वाद्बलीवर्दरूपेणाध्वर्यु रूपेण च वह्निर्नैव यज्ञस्य वह्नियज्ञसंबन्धिहविर्वाहनमग्निं प्राप्नोति । गोमिथुनेन मनुष्यमिथुनं प्राप्तिः । वाससः सर्वदेवत्यत्वं दीक्षा- प्रकरणे-“अग्नेस्तूर्षाधानं वायोर्वातपानम्” इत्यादिवाक्येन प्रति- पादितम् । आ द्वादशभ्यो गोभ्य इति शेषः । उक्तदक्षिणाभ्य ऊर्ध्वं-“षड् देया द्वादश देयाः” इत्यादिशाखान्तरोक्तं बहुपक्षानुसारेण स्वाभिमतं यावत्तावद्देयम् । तेनापरिमितफलप्राप्तिः । अत्र मीमांसा । एकादशाध्यायस्य चतुर्थपादे चिन्तितम्- पवमानेष्टिहविषां तन्त्रं भेदोऽथ वाऽग्रिमः । साध्यदेशाद्यभेदान्नो काम्ये भेदोक्तितोऽन्तिमः ॥ इति । आधानप्रकरणे पठ्यते-“अग्नये पवमानायाष्टाकपालं निर्वपेदग्नये पावकाथाग्नये शुचये” इति । तैरेतैर्हविर्भिः साध्यस्याग्नेरेकत्वाद्देशाद्यभेदाच्चाङ्गानां तन्त्रमिति प्राप्ते ब्रूमः-“यः कामयेतोत्तरं वसीयाञ्छ्रेयान्स्यामिति तस्याग्नये पवमानाय निरूप्याथ पावकाय शुचये चोत्तरे हविषी समानबर्हिषी निर्वपेत्” इति वचनात्काम्यप्रयोगे प्रथमस्य हविषोऽङ्गभेदः । उत्तरयोस्तन्त्रम् । नित्यप्रयोगे तु त्रयाणां तन्त्रम् । द्वादशाध्यायस्य चतुर्थपादे चिन्तितम्-