तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 66, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.१.६) ३७ नेयं नित्याग्निहोत्रविषया मीमांसा । तस्य पवमानेष्टिभ्य ऊर्ध्वं प्रवर्तिष्यमाणत्वात् । किंवाधानाङ्गमेतत्किंचित्कर्म । पूर्णाहुतेः प्राक्प्रवर्तमानत्वात् । “पूर्णाहुत्यन्तमग्न्याधेयम्” इत्याश्वलायनेनोक्तम् । अस्य चाऽऽधानाङ्गस्याग्निहोत्रस्य मन्त्रेण होमे सत्ययथापूर्वत्वं प्रसज्येत । तथा हि अग्निहोत्रशब्दोऽत्र नित्याग्निहोत्रधर्मानतिदिशति । नित्याग्निहोत्रे च- “सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा” इति । अयमहनि पठितो होममन्त्रः सोऽत्र प्रसक्तः । अहन्येव हूयमानत्वात् । प्रकृतिभूते त्वग्निहोत्रे रात्रावेवोपक्रमात् । “अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा” इति मन्त्रस्य रात्रिहोमाङ्गत्वात्तेन मन्त्रेण प्रथममनुष्ठाय पश्चात्प्रातः काले “सूर्यो ज्योतिः” इति मन्त्रेणानुष्ठानमित्येव क्रमः । इह त्वादावेव “सूर्यो ज्योतिः” इति मन्त्रेणानुष्ठानं प्रकृतिवैलक्षण्यादयथापूर्वत्वम् । अहोमपक्षे त्वाधानेनोत्पन्नोऽग्निराहाराभावात्पराभूतो भवेत् । अतो दोषद्वयं परिहर्तुं मन्त्रं परित्यज्य तूष्णीमेव होतव्यम् । तथा सति मन्त्रवैपरीत्याभावादयथापूर्वत्वदोषो न भवति । होमस्यानुष्ठितत्वादग्नेः पराभवोऽपि न भवति । यदुक्तं सूत्रकारेण-“आग्नेयस्य दक्षिणाकाले दक्षिणां ददात्यजं पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीध उपबर्हणं ददात्यश्वं ब्रह्मणेऽध्वर्यवे वाऽऽ हवनीयदेशेऽनड्वाहमध्वर्यवेऽपरं गार्हपत्यं धेनु ँ होत्रे वासो गावौ मिथुनौ गावौ नवं च रथं ददाति तानि साधारणानि सर्वेषामा द्वादशभ्यो ददातीत्युक्त्वाऽऽ ह काममूर्ध्वं देयमपरिमितस्यावरुद्ध्या इति विज्ञायते । ऊर्ध्वमादिष्टदक्षिणाभ्यो वदति षड् देया द्वादश देयाश्चतुर्विंशतिर्देया इति ता विकल्प्यन्ते ” इति । तदेतत्सर्वं क्रमेण विधत्ते- आ॒ग्नीधे॑ ददाति (९) । अ॒ग्निमु॑खाने॒वर्तूंन्प्री॑णाति । उ॒प॒ब॒र्ह॒णं द॑दाति । रू॒पाणा॒मव॑रुद्ध्यै । अश्वं॑ ब्र॒ह्मणे॑ । इ॒न्द्रि॒यमे॒वाव॑रुन्द्धे । धे॒नु ँ होत्रे॑ । आ॒शिष॑ ए॒वाव॑रुन्द्धे । अ॒न॒ड्वाह॑मध्व॒र्यवे॑ । व॒हिर्र्वा अ॑न॒ड्वान् । व॒हिर्ह्य॑ध्व॒र्युः (१०) । वह्नि॑नैव वह्निं॑य॒ज्ञस्याव॑रुन्द्धे । मि॒थु॒नौ गावौ॑ ददाति । मि॒थु॒नस्याव॑रुन्द्ध्यै (द्ध्यै) । वासौ॑ ददाति । स॒र्व॒दे॒व॒त्यं॒ वै वास॑:। सर्वा॑ ए॒व दे॒वता॑: प्रीणाति । आ द्वा॒द॒श॑भ्यो ददाति । द्वाद॑श॒ मासा॑: संवत्स॒रः । सं॒व॒त्स॒र