भारतकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

तैत्तिरीयब्राह्मणम् (१.१.६) ३७ नेयं नित्याग्निहोत्रविषया मीमांसा । तस्य पवमानेष्टिभ्य ऊर्ध्वं प्रवर्तिष्यमाणत्वात् । किंवाधानाङ्गमेतत्किंचित्कर्म । पूर्णाहुतेः प्राक्प्रवर्तमानत्वात् । “पूर्णाहुत्यन्तमग्न्याधेयम्” इत्याश्वलायनेनोक्तम् । अस्य चाऽऽधानाङ्गस्याग्निहोत्रस्य मन्त्रेण होमे सत्ययथापूर्वत्वं प्रसज्येत । तथा हि अग्निहोत्रशब्दोऽत्र नित्याग्निहोत्रधर्मानतिदिशति । नित्याग्निहोत्रे च- “सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा” इति । अयमहनि पठितो होममन्त्रः सोऽत्र प्रसक्तः । अहन्येव हूयमानत्वात् । प्रकृतिभूते त्वग्निहोत्रे रात्रावेवोपक्रमात् । “अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा” इति मन्त्रस्य रात्रिहोमाङ्गत्वात्तेन मन्त्रेण प्रथममनुष्ठाय पश्चात्प्रातः काले “सूर्यो ज्योतिः” इति मन्त्रेणानुष्ठानमित्येव क्रमः । इह त्वादावेव “सूर्यो ज्योतिः” इति मन्त्रेणानुष्ठानं प्रकृतिवैलक्षण्यादयथापूर्वत्वम् । अहोमपक्षे त्वाधानेनोत्पन्नोऽग्निराहाराभावात्पराभूतो भवेत् । अतो दोषद्वयं परिहर्तुं मन्त्रं परित्यज्य तूष्णीमेव होतव्यम् । तथा सति मन्त्रवैपरीत्याभावादयथापूर्वत्वदोषो न भवति । होमस्यानुष्ठितत्वादग्नेः पराभवोऽपि न भवति । यदुक्तं सूत्रकारेण-“आग्नेयस्य दक्षिणाकाले दक्षिणां ददात्यजं पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीध उपबर्हणं ददात्यश्वं ब्रह्मणेऽध्वर्यवे वाऽऽ हवनीयदेशेऽनड्वाहमध्वर्यवेऽपरं गार्हपत्यं धेनु ँ होत्रे वासो गावौ मिथुनौ गावौ नवं च रथं ददाति तानि साधारणानि सर्वेषामा द्वादशभ्यो ददातीत्युक्त्वाऽऽ ह काममूर्ध्वं देयमपरिमितस्यावरुद्ध्या इति विज्ञायते । ऊर्ध्वमादिष्टदक्षिणाभ्यो वदति षड् देया द्वादश देयाश्चतुर्विंशतिर्देया इति ता विकल्प्यन्ते ” इति । तदेतत्सर्वं क्रमेण विधत्ते- आ॒ग्नीधे॑ ददाति (९) । अ॒ग्निमु॑खाने॒वर्तूंन्प्री॑णाति । उ॒प॒ब॒र्ह॒णं द॑दाति । रू॒पाणा॒मव॑रुद्ध्यै । अश्वं॑ ब्र॒ह्मणे॑ । इ॒न्द्रि॒यमे॒वाव॑रुन्द्धे । धे॒नु ँ होत्रे॑ । आ॒शिष॑ ए॒वाव॑रुन्द्धे । अ॒न॒ड्वाह॑मध्व॒र्यवे॑ । व॒हिर्र्वा अ॑न॒ड्वान् । व॒हिर्ह्य॑ध्व॒र्युः (१०) । वह्नि॑नैव वह्निं॑य॒ज्ञस्याव॑रुन्द्धे । मि॒थु॒नौ गावौ॑ ददाति । मि॒थु॒नस्याव॑रुन्द्ध्यै (द्ध्यै) । वासौ॑ ददाति । स॒र्व॒दे॒व॒त्यं॒ वै वास॑:। सर्वा॑ ए॒व दे॒वता॑: प्रीणाति । आ द्वा॒द॒श॑भ्यो ददाति । द्वाद॑श॒ मासा॑: संवत्स॒रः । सं॒व॒त्स॒र

३८ (१.१.६) तैत्तिरीयब्राह्मणम् ए॒व प्रति॑तिष्ठति । कार्ष्ममूर्ध्नं देय॑म् । अप॑रिमितस्याव॑रुद्ध्यै (११) इति । आदित्ये तृतीयमप्स्वा॑सी॒त्तत्तेनाव॑रुन्धत स्यादा॑प्यते॒ रेतो॒ऽग्निरे- क॑मे॒कमे॑तानि ह॒वीग्ँ॑षि॒निर्व॑प॒त्प्रत्यव॑रोहति ददात्यध्व॒र्युर्दे॒यमेक॑ च । इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ आग्नीध्रेण तत्तदृतावग्नेरिध्यमानत्वात्तस्मै दत्तेन द्रव्येणाग्निसहितानामृतूनां प्रीतिः । तस्मै यद्देयमुपबर्हणं शिरसः पृष्ठस्य वाऽऽधारभूतं तस्य कार्पासाशाणोर्णादिमयैः शुक्लनीलपीतादिवर्णैः सर्वैः सूत्रैर्निष्पन्नत्वात्तेन रूपाणां प्राप्तिः। अश्वस्य प्रजापतिचक्षुर्जजन्यत्वात्तेनेन्द्रियप्राप्तिः । दातव्याया धेनोः कामधेनु- रूपत्वादाशिषां प्राप्तिः । अनड्वाञ्छकटं वहति । अग्निश्च द्रव्यं वहति । अध्वर्युरप्यनुष्ठानं वहति । ततः समानत्वाद्बलीवर्दरूपेणाध्वर्यु रूपेण च वह्निर्नैव यज्ञस्य वह्नियज्ञसंबन्धिहविर्वाहनमग्निं प्राप्नोति । गोमिथुनेन मनुष्यमिथुनं प्राप्तिः । वाससः सर्वदेवत्यत्वं दीक्षा- प्रकरणे-“अग्नेस्तूर्षाधानं वायोर्वातपानम्” इत्यादिवाक्येन प्रति- पादितम् । आ द्वादशभ्यो गोभ्य इति शेषः । उक्तदक्षिणाभ्य ऊर्ध्वं-“षड् देया द्वादश देयाः” इत्यादिशाखान्तरोक्तं बहुपक्षानुसारेण स्वाभिमतं यावत्तावद्देयम् । तेनापरिमितफलप्राप्तिः । अत्र मीमांसा । एकादशाध्यायस्य चतुर्थपादे चिन्तितम्- पवमानेष्टिहविषां तन्त्रं भेदोऽथ वाऽग्रिमः । साध्यदेशाद्यभेदान्नो काम्ये भेदोक्तितोऽन्तिमः ॥ इति । आधानप्रकरणे पठ्यते-“अग्नये पवमानायाष्टाकपालं निर्वपेदग्नये पावकाथाग्नये शुचये” इति । तैरेतैर्हविर्भिः साध्यस्याग्नेरेकत्वाद्देशाद्यभेदाच्चाङ्गानां तन्त्रमिति प्राप्ते ब्रूमः-“यः कामयेतोत्तरं वसीयाञ्छ्रेयान्स्यामिति तस्याग्नये पवमानाय निरूप्याथ पावकाय शुचये चोत्तरे हविषी समानबर्हिषी निर्वपेत्” इति वचनात्काम्यप्रयोगे प्रथमस्य हविषोऽङ्गभेदः । उत्तरयोस्तन्त्रम् । नित्यप्रयोगे तु त्रयाणां तन्त्रम् । द्वादशाध्यायस्य चतुर्थपादे चिन्तितम्-

तैत्तिरीयब्राह्मणम् (१.१.७) ३९ एका देया समुच्चेयं विकल्प्यं वाऽऽद्य आनतेः । सौलभ्यादन्तिमौ नैरपेक्ष्यात्संख्यान्तरादपि ॥ इति । आधाने श्रूयते- “एका देया षड् देया द्वादश देयाः” इत्यादि । तत्र सोमक्रयन्यायेनाऽऽनतेः सौलभ्यात्समुच्चय इति चेत् । मैवम् । संख्यानां व्रीह्यादिवत्परस्परनैरपेक्ष्यावगमात् । समुच्चये तु श्रूयमाणाभिः संख्याभिः संख्यान्तरस्य दुर्वारत्वाच्च । तस्माद्विकल्पः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथम प्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अथ सप्तमोऽनुवाकः । षष्ठे हविर्विशेषा दक्षिणाश्चोक्ताः । अथ सप्तम आधानमन्त्रा उच्यन्ते । तत्राऽऽदौ गार्हपत्यविषयं मन्त्रमाह- घ॒र्मः शिर॒स्तदय॒म॒ग्निः । संप्रि॑यः प॒शुभि॑र्भुवत् । छ॒- र्दिस्तो॒काय॒ तन॑याय॒ यच्छ॑, इति । घर्मो दीप्तिज्वाला स च घर्मोऽग्निशरीरस्य शिरः स्थानीयः । तच्च शिरोऽयं पुरोवर्ती गार्हपत्योऽग्निः । तादृश हे गार्हपत्याग्ने त्वमस्मदीयैः पशुभिः सहसंप्रियो भुवत्सम्यक्प्रीतियुक्तो भव । ततोऽस्मदपत्याय तदीयापत्याय च च्छर्दैर्यच्छ तेजो देहि । अथान्वाहार्यपचनविषयं मन्त्रमाह- वातः॑ प्रा॒णस्तदय॒म॒ग्निः । संप्रि॑यः प॒शुभि॑र्भुवत् । स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॑च, इति । योऽयमग्निसखो वायुः सोऽग्नेः प्राणस्तत्प्राणरूपमयमाधीय- मानोऽन्वाहार्यपचनोऽग्निः । हेऽन्वाहार्यपचन त्वमस्मदीयैः पशुभिः सह संप्रियो भव । अस्मत्पुत्राय तत्पुत्राय च स्वदितं स्वादुयुक्तं पितुमन्नं पच पक्वं कुरु । अथाऽऽहवनीयदेशं प्रति गमनमन्त्रमाह- प्राची॒मनु॑प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् अ॒ग्नेर॒ग्ने पु॒रो अ॒ग्निर्भ॑वे॒ह ।

विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि । ऊर्जं॑ नो धेहि । द्वि॒पदे॒ चतु॑ष्पदे (१), इति । हेऽग्ने त्वं विद्वान्मागं जानन्प्राचीं प्रदिशमनु प्रागाख्यां प्रकृष्टां दिशमनु लक्ष्य प्रेहि प्रकर्षण गच्छ । गत्वा चेहाऽऽयतने प्रथममाहितस्य गार्हपत्यस्याग्नेः पुरोऽग्निः पूर्वदिग्वर्ती वह्निर्भव । ततो॑ दीद्यानः प्रकाशमानो विश्वाआशाः सर्वा दिशो विभाहि विशेषेण प्रकाशय । नोऽस्मदीयाय द्विपदे मनुष्याय चतुष्पदे पशवे चोर्जं धेहि देह्यन्नरसं संपादय । अथाऽऽहवनीयविषयं मन्त्रमाह- अ॒र्कश्चक्षु॒स्तद॒सौ सूर्य॒स्तदयम॒ग्निः । संप्रि॒यः प॒शुभ॑र्भुवत् । यत्ते॑ शु॒क्रं शु॒क्रं वर्च॑: शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा, इति । अर्कोऽर्चमानो मण्डलात्मा वह्निशरीरस्य चक्षुःस्थानीयस्तच्चक्षुः स्वरूपमसौ दिवि दृश्यमानः सूर्यरूपः स सूर्योऽयमाधीयमान आहवनीयोऽग्निः । ह आहवनीयास्मदीयैः पशुभिः संप्रियो भव । हे शुक्र ऽऽहवनीय ते त्वदीयं यच्छुक्रं वर्चो बहिः प्रसृतं दीप्तिरूपं तेजो या च शुक्रा तनूर्ज्वालाः रूपं शरीरं यदप्यजस्रं शुक्रं ज्योतिः सर्वदा वर्तमानो भारूपशरीरगतप्रकाशस्तेन सर्वेण मे दीदिहि मां प्रकाशय । हेऽग्ने परिवृढेन-“अर्कश्चक्षुः” इति मन्त्रेण तेन पूर्वोक्तगुण- युक्तेनाग्निनाऽऽहवनीयरूपेण त्वामिहाऽऽदधे । अथाऽऽहितस्याग्नेरभिमन्त्रणमन्त्रमाह- आन॑शे॒ व्यान॑शे॒ सर्व॒मायु॒र्व्यान॑शे, इति । अयमग्निरानशे जाठराग्निरूपेण भोक्तृशरीरं व्याप्तवान् । तथा व्यानशे विविधं भोग्यजातं व्याप्तवान् । तथा सर्वमायुर्व्यानशेऽपमृत्युपरिहारेण संपूर्णमायुः संपादितवान् । ये ते॑ अग्न शिवे॒ तनुवौ॑ । वि॒राट् च॑ स्व॒राट् च॑ । त मा॑ विश॑तां॒ ते मा॑ जिन्वताम् (२) । ये ते॑ अग्ने शिवे॒ तनुवौ॑ । स॒म्राट् चा॑भि॒भूश्च॑ । ते मावि॑शतां॒ ते मा॑ जिन्वताम् । ये

सप्तमोऽनुवाकः ॥ ७ ॥

तैत्तिरीयब्राह्मणम् (१.१.७) ४१ ते॑ अ॒ग्ने॒ शि॒वे त॒नुवौ॑ । वि॒भूश्च॑ परि॒भूश्च॑ । ते मा॑ वि॒शता॒न् त मा॑ जिन्वताम् । ये ते॑ अ॒ग्ने॒ शि॒वे त॒नुवौ॑ । प्र॒भ्वी च॑ प्र॒भूति॑श्च । ते मा॑ वि॒शता॒न् ते मा॑ जिन्वताम् । यास्तै॑ अग्ने शि॒वास्त॒नुवः॑ ताभि॒स्त्वाऽऽद॑धे, (इति) । कल्पः-“अथ यजमानः शिवा जपति-ये ते अग्ने शिवे तनुवौ विराट् च स्वराट् च ते मा विशतां ते मा जिन्वतां ये त अग्ने शिवे तनुवौ सम्राट् चाभिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिव तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ प्रभ्वी च प्रभूतिश्च ते मा शिवतां ते मा जिन्वतां यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वाऽऽदधे ” इति । विराडादिभिः प्रभूतिपर्यन्तैरष्टाभिः शब्दैरुक्ता अग्नेः शिवाः शान्तास्तनुवः । हेऽग्ने ते त्वदीये विराट्- स्वराडाख्ये ये शान्ते तनू ते उभे मां प्रविश्य प्रीणयताम् । एवमुत्तरत्रापि । विविधं राजत इति विराट् । स्वयमेव राजत इति स्वराट् । सम्यग्राजत इति सम्राट् । वैरिणोऽभिभवतीत्यभिभूः । विशिष्टेन रूपेण भवतीति विभूः । परितो भवतीति परिभूः । आज्ञालक्षणेन प्रभुत्वेन युक्ता प्रभ्वी । प्रकृष्टैनैश्वर्येणोपेता प्रभूतिः । हेऽग्ने या एतास्ते त्वदीयाः शिवास्तनुवस्ताभिर्युक्तं त्वामिहाऽऽदधे । यास्तै॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॒र॒मुं ग॑च्छ (३), (इति) । चतु॑ष्पदे जिन्वतां त॒नुव॒स्त्रीणि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके प्रथमाष्टके प्रथमाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ कल्पः-“यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छ इति यजमानो द्वेष्याय प्रहिणोति” इति । घोरतनवः क्षुत्तृष्णादिरूपाः । तथा चाऽऽरण्यकाण्डे समाम्नातम् “यास्ते अग्ने घोरास्तनुवः क्षुञ्च तृष्णा च” इत्यादि । ताभिर्घोराभिस्तनुभिरमुं शत्रुं गच्छ प्राप्नुहि । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥

४२ (१.१.८) तैत्तिरीयब्राह्मणम् अथाष्टमोऽनुवाकः । आधानमन्त्राः सप्तमेऽभिहिताः । अष्टमे तद्ब्राह्मणमुच्यते । तत्र त्रीनाधानमन्त्रान्विनियुङ्क्ते- इ॒मे वा ए॒त लो॒का अ॒ग्नय॑ः। ते यद॒व्या॑वृत्ता आधी॒येर॑न् । शो॒चये॑यु॒र्यज॑मानम् । घ॒र्मः शिर॒ इति॑ गार्हप॒त्यमाद॑धाति । वातः॑ प्रा॒ण इत्य॑न्वाहार्यप॒चन॑म् । अ॒र्कश्चक्षु॒रित्या॑- हव॒नीय॑म् । तेनै॒वैना॒न्व्याव॑र्तयति । तथा॒ न शौच॑यन्ति॒ यज॑मानम्, इति । एते त्रयोऽग्नयस्त्रित्वसाम्यादिमे त्रयो लोका भवन्ति । ते यदि परस्परम्-व्यावृत्ताः समुदिता आधीयेरंस्तदा दाहाधिक्येन यजमानं संतापयेयुः । अतस्त्रिभिर्मन्त्रैः पृथगादध्यात् । तेन व्यावृत्ताः सन्त स्तापाधिक्याभावाद्यजमानं नैव संतापयन्ति । अथाऽऽधानकाले सामगानं विधत्ते- र॒थं॒त॒र॒म॒भिगा॑यते गार्हपत्य आधी॒यमा॑ने । राथन्त॒रो वा अ॒यं लो॒कः (१) । अ॒स्मिन्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते । वा॒म॒दे॒व्य॒म॒भिगा॑यत उ (द्) ध्रिय॒माणे॑ । अ॒न्तरि॑क्षं॒ वै वा॑मदे॒व्यम् । अ॒न्तरि॑क्ष ए॒वैनं॑ प्रति॑ष्ठित॒माध॑त्ते । अथो॒ शान्ति॒र्वै वा॑मदे॒व्यम् । शान्त॑मे॒वैनं॑ पशू॒व्यमुद्ध॑रते । बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने बाह॑तो॒ वा अ॒सौ लो॒कः । अ॒मुष्मि॑न्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते, इति । “अभि त्वा शूर नोनुमः ” इत्यस्यामृच्युत्पन्नं रथंतरम् । “कया नश्चित्र आभुवत् ” इत्यस्यामृच्युत्पन्नं वामदेव्यम् । “त्वामिद्धि हवामहे” इत्यस्यामृच्युत्पन्नं बृहत् । रथंतरादीनां भूरादिलोक- भोगहेतुत्वाल्लोकरूपत्वम् । अत एतेषां गाने सति तत्तल्लोकेऽग्निः प्रतिष्ठितो भवति । अपि च वामदेव्यस्योपद्रवशान्ति- करत्वात्पशुप्राप्तिहेतुत्वाच्चैनमुद्ध्रियमाणमग्निं शान्तं पशुसाधनं च कृत्वोद्धरति । पुनरपि सामद्वयं विधत्ते-

तैत्तिरीयब्राह्मणम् (१.१.८) ४३ प्र॒जाप॑तिर॒ग्निम॑सृजत (२) । सोऽश्वो॑ वा॒रो भू॒त्वापरा॑ङ्डत् । तं वार॑वन्ती॒येना॑वारयत । तद्वा॑रवन्ती॒यस्य॑ वारवन्ती॒यत्वम् । श्यै॒तेन॑ श्ये॒ती अ॑कुरुत । तच्छ्यै॒तस्य॑ श्यै॒तत्वम् । यद्वा॑रवन्ती॒यम॒भिगा॑य॑ते । वा॒र॒यि॒त्वैवैनं॑ प्रति॑ष्ठित॒माध॑त्ते । श्यै॒तन॑ श्ये॒ती कु॑रुते, इति । यः प्रजापतिना सृष्टोऽग्निः स वारोऽश्वो भूत्वा पुनरावृत्तिरहितः पलायनमकरोत् । यो हस्तद्वयेन खलिनं गृहीत्वा बलान्निवारणीयः स वारः । तं वारमश्वं पलायमानं वारवन्तीयेन साम्ना प्रजापतिर्निवारयामास । “अश्वं नत्वा वारवन्तम् ” इत्यस्यामृच्युत्पन्नं वारवन्तीयम् । निवारणहेतुत्वात्तस्य वारवन्तीयं नाम संपन्नम् । निवारितमश्वं श्यैतसाम्ना श्येतीकृतवान्स्वाधीनीकृतवानित्यर्थः । “अभि प्रवः सुराधसम्' इत्यस्यामृच्युत्पन्नं श्यैतम् । स्वाधीनीकरणहेतुत्वात्तस्य श्यैतनाम संपन्नम् । अतो वारवन्तीयसाम्ना पलायनं निवार्य प्रतिष्ठितमग्निमाधाय श्यैतगानेनाग्निं स्वाधीनं करोति । आधानमन्त्रे शिरः शब्दतात्पर्यं दर्शयति- घ॒र्मः शिर॒ इति॑ गार्ह॑पत्य॒माद॑धाति । सशी॒र्षाण॑मे॒वैन॒माध॑त्ते (३) । उपैन॒मुत्त॑रो य॒ज्ञो न॑मति, इति । अग्नेः शिरःसहितत्वे सति न्यूनत्वाभावादुत्तरो दर्शपूर्णमाससोमादिरेनं प्राप्नोति । संप्रियशब्दतात्पर्यं दर्शयति- रु॒द्रो वा ए॒षः यद॒ग्निः । स आ॑धीयमा॑न ईश्व॒रो यज॑मानस्य प॒शून्‌हि ँ सि॑तोः । संप्रि॑यः प॒शुभि॑र्भुव॒दित्या॑ह । प॒शुभि॑रे॒वैन ँ संप्रि॑यं करोति । प॒शूनामहिँ॑सायै, इति । आधीयमानस्याग्नेः क्रूरत्वेन पशून्हिंसितुं समर्थत्वादहिंसार्थं पशुभिः सह संप्रीतिं मन्त्रेण करोति । यच्छेति पदस्याऽऽशीरर्थं दर्शयति- छ॒र्दिस्तो॒काय॒ तन॑याय य॒च्छेत्या॑ह । आ॒शिष॑मे॒वै :

४४ (१.१.८) तैत्तिरीयब्राह्मणम् तामाशा॑स्ते, इति । प्राणशब्दस्य तात्पर्यं दर्शयति- 'वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् (४) । सप्रा॑णमे॒वैन॑माध॒त्ते, इति । स्वदितपितुशब्दयोस्तात्पर्यं दर्शयति- स्व॒दितं॑ तो॒काय॒ तन॑याय पि॒तुं प॑चेत्या॑ह । अन्न॑मे॒वास्मै॑ स्वदयति, इति । प्राचीं प्रेहीति पदद्वयस्य तात्पर्यं दर्शयति । प्राची॒मनु॑ प्र॒दिशं॑ प्रेहि वि॒द्वानित्या॑ह । विभ॑क्तिरे॒वैन॑योः सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते, इति । येयं प्राच्यां दिशि गतिरयमेवैनयोराहवनीयगार्हपत्ययोर्विभागः । अपि च विभागे सति पूर्वोक्तरीत्या द्वयोः पृथक्सामर्थ्यं भवति । धेहीति पदस्याऽऽशीर्र्थत्वं दर्शयति- ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते, इति । अर्कशब्दस्य तात्पर्यं दर्शयति- अ॒र्कश्च॒रित्या॑हव॒नीय॑म् । अ॒र्को वै दे॒वाना॒मन्न॑म् (५) । अन्न॑मे॒वाव॑रुन्द्धे, इति । अर्चनीयत्वव्युत्पत्या देवानाम्नकारित्वादन्नप्राप्तिः । दीदिहिशब्दस्य समिन्धनार्थत्वं दर्शयति- तेन॑ मे दीदि॒हीत्या॑ह । समि॑न्ध ए॒वैन॑म्, इति । पूर्वपक्षहेतुत्वेन मंत्रस्य कंचिद्विनियोगं दर्शयति- आ॒न॒शे व्या॑न॒श इति॑ त्रि॒रुर्दि॒ङ्गय॑ति । त्र्य॑ इ॒मे लो॒काः॑ ।

तैत्तिरीयब्राह्मणम् (१.१.८) ४५ ए॒ष्वे॒वैनं॑ लो॒केषु॒ प्रति॑ष्ठितमा॒धत्ते॒, इति॑ । हस्ते धृतस्याग्नेस्त्रिवारमूर्ध्वचलनेन लोकत्रयप्रतिष्ठा । तमेतं दूषयित्वा विनियोगान्तरं दर्शयति- तत्तथा॒ न का॒र्यम् । वीऽङ्गित॒मप्र॑तिष्ठितमाद॑धीत । उ॒द्धृत्यै॒वाऽऽधाया॑भिमन्त्र्यः । अवी॑ङ्गितमे॒वैनं॒ प्रति॑ष्ठितमाध॒त्ते, इति॑ । त्रिरूर्ध्वचलनेन वीङ्गितं विविधं चालितमप्रतिष्ठितमग्निमाहित- वान्भवोत् । तस्मात्तथोर्ध्वचलनं न कार्यम् । किंतु हस्ते सकृदुद्धृत्यैवाऽऽयतने तमग्निमाधाय पश्चात्सोऽग्निरनेन मन्त्रेण मन्त्रणीयः । तथा सति विविधचलनरहितं स्थिरत्वेन प्रतिष्ठितमग्निमाहितवान्भवति । विराडादिशब्दानां तात्पर्यं दर्शयति- वि॒राट् च॑ स्व॒राट् च॑ यास्तै॑ अग्ने शि॒वास्त॒नुव॒स्ताभि॑स्त्वाऽऽद॑ध॒ इत्या॑ह । ए॒ता वा अ॒ग्नेः शि॒वास्त॒नुव॑ः। ताभि॑रे॒वैन॒ ँ॒सम॑र्धयति, इति॑ । मन्त्रान्तरं विनियुङ्क्ते- यास्तै॑ अग्ने घो॒रास्त॒नुव॒स्ताभि॑र॒मुं ग॑च्छेति॑ ब्रूया॒द्यं द्वि॒ष्यात् । ताभि॑रे॒वैनं॑ परा॑भावयति (६), इति॑ । लो॒केऽसृ॑जत्तै॒नमाध॑त्तेऽन्वाहार्यप॒चनं॑ दे॒वाना॒मन्न॒मेनं॒ प्रति॑ष्ठित॒माध॑त्ते पञ्च॑ च । इति कृष्णयजुर्वेदीयतेत्तिरीयब्राह्मणे प्रथमाष्टके प्रथमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ यं पुरुषमसौ यजमानो द्विष्यात्तं प्रत्येतं मन्त्रं ब्रूयात् । तथा सति ताभिरेव घोराभिस्तनुभिरेनं द्वेष्यं विनाशयति । अथ मीमांसा । दशमाध्यायस्याष्टमपादे चिन्तितम्- उन्नेयो ब्रह्मगानस्य निषेधो विहितस्तुतिः । विकल्पितो वा शून्योऽपि वपोत्खेद इव स्तुतिः ॥

४६ (१.१.८) तैत्तिरीयब्राह्मणम् विध्यन्वयतोऽस्तोत्रं ब्रह्मोद्गाता तथा सति । विषयैक्याद्विकल्पोऽत्र षोडशिग्रहवन्मतः ॥ (इति) । आधाने वामदेव्यादिसाम्नां गानानि विहितानि । आधान एववेदमपरमाम्नायते-“उपवीता वा एतस्याग्नयो यस्याग्न्याधेये ब्रह्मा सामानि गायति” इति । उपशब्दः सामीप्यं ब्रूते । वीता विगताः कालविलम्बमन्तरेण परित्यक्ता इत्यर्थः । अनया निन्दया ब्रह्मणः सामगाननिषेध उन्नीयते । स निषेध उद्गातृविहितं वामदेव्यादिसामगानं स्तौति । ननु ब्रह्मणः सामगानमप्रसक्तम् । अतस्तन्निषेधोऽ त्यन्तमसंभावितत्वाच्छशविषाणवच्छून्यः । न हि वन्ध्यापुत्रो वा तद्वधो वा संभावयितुं शक्यते । तथा सति तादृशेन निषेधेन कथं स्तुतिरिति चेत् । वपोत्खेदवदिति ब्रूमः। स आत्मनो वपामुदखिद- दित्यनेनात्यन्तासंभावितार्थेन यथा प्राजापत्यस्य तूपरस्याजस्य विधिः स्तूयते तद्वदिति प्राप्ते ब्रूमः । नेदं वामदेव्यादि साम विधीनां स्तोत्रं भवितुमर्हति । विधीनामनेकत्वेन स्वस्वसंनिधिपठितैर- र्थवादैर्निराकाङ्क्षत्वेन च तदन्वयायोगात् । का तर्ह्यस्य वाक्यस्य गतिरिति चेत् । उच्यते ब्रह्मशब्दोऽत्र विप्रत्वजातिद्वारेणोद्गातारं ब्रूते । यस्य च गानं प्रसक्तं तस्मिन्निषेधे सति विधिनिषेधाभ्यामेकविषयाभ्यामुद्गातृगानं विकल्प्यते । (अथ) मीमांसा । एकादशाध्यायस्य तृतीयपादे चिन्तितम्- प्रतिकर्म पृथक्कार्यमाधानं यदि वा सकृत् । अन्याङ्गवत्पृथङ्गैवं स्वकालत्वसमत्वतः ॥ वसन्ते ब्राह्मणोऽग्निमादधीतेति विहितमाधानं प्रयाजाद्यङ्गवत्प्रतिकर्म पृथक्कार्यमिति चेत् । मैवम् । आधानस्य स्वातन्त्र्येण'वसन्तादिकाले विहिते तत्तत्कर्मकालेषु पृथगनुष्ठानायोगात् । स्वकालेऽनुष्ठितस्य सर्वैः कर्मभिः संबन्धः समानः । न च प्रकरणेन विशेषो नियन्तुं शक्यः । आधानस्यानारभ्याधीतत्वात् । “आहवनीये जुहोति” इत्यादिवाक्येन त्वैष्टिकपाशुकसौमिकदार्विकहोमेषु संबन्धः साधारणः प्रतिपाद्यते । तस्मात्तन्त्रेणानुष्ठेयम् । यद्यप्याधानं नेष्ट्यादिकर्मणां साक्षादङ्गं तथाऽपि पृथक्फलाभावादाहवनीयादिद्वारा कर्मोपकारित्वाच्चाङ्गत्वमभ्युपेत्येयं चिन्ता । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठ केऽष्टमोऽनुवाकः ॥ ८ ॥

तैत्तिरीयब्राह्मणम् (१.१.९) ४७ अथ नवमोऽनुवाकः । अष्टम आधानमन्त्रव्याख्यानमुक्तम् । अथ नवमे ब्रह्मौदनमुच्यते । तत्राऽऽदौ तावद्ब्रह्मौदनात्पराचीनमाधानात्प्राचीमग्निमन्थनमुच्यते । यदुक्तं सूत्रकारेण-“ब्राह्मौदनिकाद्भस्मापोह्य तस्मिञ्शमीगर्भादग्निं मन्थति” इति । तदिदं विधत्ते- श॒मी॒गर्भा॒द॒ग्निं म॑न्थति । ए॒षा वा अ॒ग्नेर्य॒ज्ञिया॑ त॒नूः । ता॑मे॒वास्मै॑ जनयति, इति । आधानदिनात्पूर्वेद्युर्ब्रह्मौदनं पक्त्वाऽपरेद्युरुद्युदयात्पूर्वं तस्मा- ब्राह्मौदनिकादग्नेर्भस्मापोह्य तस्मिन्स्थाने शमीवृक्षस्य गर्भंगतेनाश्वत्थेन निष्पादितामरणिमवस्थाप्याग्निं मन्थेत् । तस्माच्छमीगर्भा- दुत्पन्नायाऽग्नेस्तनूरेषा यज्ञार्हाऽतस्तामेव जनयति । अथ ब्रह्मौदनं विधत्ते- अदि॑तिः पु॒त्रका॑मा । सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्र॒ह्मौद॒नम॑पचत् । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽधत्त । तस्यै धा॒ता चार्य॒मा चा॑जायेताम् । सा द्वि॒तीय॑मपचत् (१) । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽधत्त । तस्यै॑ मि॒त्रश्च॒ वरु॑णश्चाजायेताम् । सा तृ॒तीय॑मपचत् । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽधत्त । तस्या॒ अ ँशो॑श्च॒ भग॑श्चाजायेताम् । सा च॒तुर्थ॑मपचत् (२) । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राऽऽश्ना॑त् । सा रेतो॑ऽ धत्त । तस्या॒ इन्द्र॑श्च वि॒वस्वाँ॑श्चाजायेताम् । ब्र॒ह्मौद॒नं प॑चति । रेत॑ ए॒व तद्द॑धाति, इति । ब्रह्मणं देवमुद्दिश्य होमार्थं ब्राह्मणानामृत्विजां प्राशनार्थं च पच्यमान ओदनो ब्रह्मौदनः । तं कदाचिददितिर्देवी पुत्रकामा सती साध्येभ्यो देवेभ्य उत्पादनीयधात्रादिदेवार्थमपचत् । तदानीमृत्विजो होमं प्राशनं च कृत्वा शिष्टमोदनं तस्या अदितये प्रायच्छन् । सा च यदुच्छेषणं प्राश्य

४८ (१.१.९) तैत्तिरीयब्राह्मणम् गर्भमाधत्त । तस्माद्गर्भाद् द्वादशादित्यानामादिभूतौ धाता चार्यमा चेत्युभावजायेताम् । एवमुत्तरेषु त्रिष्वपि पर्यायेषु योज्यम् । तस्मादावित्सुर्ब्रह्मौदनं पचेत् । तेन पुत्रोत्पादकं रेत एव तद्दधाति । ऋत्विजां प्राशनं विधत्ते- प्राश्न॑न्ति ब्राह्म॒णा औद॑नम्, इति । तस्मात्प्राशनात्पूर्वं समिदाधानं विधत्ते- यदाज्य॑मुच्छि॒ष्यते॑ । तेन॑ स॒मिधो॑ऽभ्यज्याऽऽद॑धाति । उ॒च्छेष॑णाद्वा अदि॑ती॒ रेतो॑ऽधत्त (३)। उ॒च्छेष॑णादे॒व तद्रेतो॑ धत्ते, इति । होमोच्छिष्टं समिदञ्जनसाधनमाज्यं प्रशस्य तेनाभ्यक्ताः समिधः प्रशंसति- अस्थि॒ वा ए॒तत् । यत्स॒मिध॑ः । ए॒तद्रेतः॑ । यदाज्य॑म् । यदाज्ये॑न स॒मिधो॒ऽभ्यज्या॒ऽऽदधा॑ति । अस्थ्ये॒व तद्रेत॑सि दधाति, इति । काठिन्यसाम्यात्समिधामस्थित्वम् । समित्संख्यां विधत्ते- ति॒स्र आद॑धाति मिथु॒नत्वाय॑, इति । सपुत्रयोर्मातापित्रोर्मिथुनरूपयोस्त्रित्वसाम्यम् । अत एवा- न्यत्राऽऽम्नातम्-“माता पिता पुत्रस्तदेव तन्मिथुनम् ” इति । प्रादेशाभिनयेन समिधा परिमाणं विधत्ते- इय॑तीर्भवन्ति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताः (४) । इय॑तीर्भवन्ति । य॒ज्ञपु॑रुषा॒ संमि॑ताः । इय॑तीर्भवन्ति । ए॒ताव॒द्वै पुरु॑षे वी॒र्यम्॑ । वी॒र्यसं॑मिताः, इति । इयत्यः प्रादेशपरिमिताः । प्रजापत्यवतारस्य यज्ञपुरुषस्य मुखं मूर्धानमारभ्य चुबुकपर्यन्तं प्रादेशपरिमितं भवति । अवस्तत्तुल्यत्वम् ।

तैत्तिरीयब्राह्मणम् (१.१.९) ४९ यज्ञस्य परु पर्वावयवविशेषः पवित्ररूपः । तस्य च प्रादेशप्रमाणं तन्मन्त्रे समाम्नातम् -“त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः” इति । अतो यज्ञपर्वणा तुल्यत्वम् । किंच पुरुषविशेषे चक्षुःश्रोत्रादिज्ञानेन्द्रियसामर्थ्यं प्रादेशपरिमिते मुखे वर्तते । अतस्तेन वीर्येण तुल्यत्वम् । तासां समिधां शुष्कत्वं वारयितुं विधत्ते- आ॒र्द्रा भ॑वन्ति । आ॒र्द्रमि॑व॒ हि रेत॑: सि॒च्यते॑, इति । इवशब्द एवकारार्थः । समिधां वृक्षविशेषं विधत्ते- चित्रिय॑स्याश्व॒त्थस्याऽऽद॑धाति । चि॒त्रमे॒व भ॑वति, इति । अश्वत्थग्रामोऽश्वत्थचित्रक इत्युच्यते । योऽश्वत्थो ग्रामादेश्चिह्नीभूतस्तदीयाः समिध आदध्यात् । तेन विचित्रमेवैश्वर्यं भवति । समिदाधानार्थानृग्विंशेषान्विधत्ते- घृ॒तव॑तीभि॒राद॑धाति (५) । ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ । यद् घृ॒तम् । प्रि॒येणै॒वैनं॒ धाम्ना॒ समर्धयति । अथो॒ तेज॑सा, इति । घृतशब्दो यास्वृक्षु स्थितस्ता घृतवत्यः । घृ॒तेना॑र्धयतातिथि॒मित्येवं घृतशब्दस्तत्र श्रूयते । घृतेन ज्वालाभिवृद्धेरग्नेर्घृतप्रियत्वम् । अतस्तेन घृतयुक्तेन मन्त्रेण समिध आदधानः प्रियेण स्थानेन समृद्धो भवति । अपि च तेजसा समृद्धो भवति । अधिकारिभेदादृग्व्यवस्थां विधत्ते- गा॒य॒त्रीभि॑र्ब्राह्म॒णस्याऽऽद॑ध्यात् । गा॒य॒त्रच्छ॑न्दा॒ वै ब्राह्म॒णः । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑ । त्रि॒ष्टुभी॑ रा॒ज॒न्य॑स्य । त्रि॒ष्टुप्छ॑न्दा॒ वै रा॒ज॒न्य॑ः । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑ (६) । जग॑तीभि॒र्वैश्य॑स्य । जग॑तीछन्दा॒ वै वैश्य॑: । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑, इति ।

प्रथमोऽनु धर्मः” इत्याद्यास्त्रिष्टुभः । “त्वामग्ने समिधानम्” इत्याद्या

५० (१.१.९) .तैत्तिरीयब्राह्मणम् “समिधाऽग्निं दुवस्यत” इत्याद्या गायत्र्यः । “समिध्यमानः प्रथमोऽनु धर्मः” इत्याद्यास्त्रिष्टुभः । “त्वामग्ने समिधानम्” इत्याद्या जगत्यः । एताश्चोपरितनप्रपाठक आम्नास्यन्ते । गायत्रीब्राह्मणयोरेकमुखत्वं संबन्धः। अतः स्वकीयस्यैव गायत्रीछन्दसः प्रत्ययनस्त्वाय पुनः प्राप्तये गायत्रीभिर्ब्राह्मणास्याऽऽदध्यात् । एवमुत्तरयोर्वाक्ययोर्योज्यम् । समिद्धस्य ब्राह्मौदनिकाग्नेश्चिरावस्थानं विधत्ते- त ँसंव॑त्स॒रं गोपायेत॒ । सं॒व॒त्स॒र ँहि॒ रेतो॑ हि॒तं वर्ध॑ते, इति । यस्माल्लोके गर्भाशये स्थापितं रेतः संवत्सरं वर्धते तस्मादग्निरूपस्य गर्भस्य वृद्धये संवत्सरमभिरक्षेत् । यदुक्तं सूत्रकारेण-“यद्येन ँ संवत्सरेऽग्न्याधेयं नोपनमेद्ब्रह्मौदनं पक्त्वा समिध आधाय यदैवेनमुपनमेदथाऽऽदधीत” इति । तदिदं विधत्ते- यद्ये॑न ँसंवत्स॒रे नोप॒नमे॑त् । स॒मिधः॒ पुन॒राद॑ध्यात् । रेत॑ ए॒व तद्धि॒तं वर्ध॑मानमेति, इति । केनापि द्रव्यराहित्यादिना निमित्तेनास्य यजमानस्या- ग्न्याधेयप्राप्तिर्यदि न स्यात्तदा संवत्सरगोपिते तस्मिन्ब्राह्मौदनिकेऽग्नौ समिध आधाय तत्सिद्धिपर्यन्तं गोपायेत् । तेन गर्भाशये स्थापितं रेतः संवत्सरं वर्धते । तस्मादग्निरूपस्य गर्भस्य वृद्धये संवत्सरमभिरक्षेत् । तेन गर्भाशये स्थापितं वर्धमानं रेतः प्राप्नोति । ब्राह्मौदनिकस्य रक्षणकर्तुर्नियमविशेषं विधत्ते- न मा॒ ँसम॑श्नीयात् । न स्त्रिय॑मु॒पेयात् (७), इति । व्यतिरेकमुखेन नियमं प्रशंसति- यन्मा॒ ँसम॑श्नी॒यात् । यत्स्त्रिय॑मुपे॒यात् । निर्वी॑र्यः स्यात् । नैन॑म॒ग्निरुप॑नमेत्, इति । अग्न्याधेयं न प्राप्नुयादित्यर्थः । आधानदिनात्पूर्वदिने पुनर्ब्रह्मौदनं विधत्ते-

तैत्तिरीयब्राह्मणम् (१.१.९) ५१ श्व आधा॑स्यमा॑नो ब्रह्मौद॒नं प॑चति । आ॒दि॒त्या वा इ॒त उत्त॑माः सु॑व॒र्गं लो॒कमा॑यन् । ते वा इ॒तो यन्तं॑ प्रति॒नुद॑न्ते । ए॒ते खलु॒ वावाऽऽदि॒त्याः । यद्ब्राह्म॑णाः । तैरे॒व स॒न्तवं॑ ग॑च्छति (८) । नैनं॒ प्रति॑नुदन्ते, इति । पुरा कदाचिदादित्या इतो भूलोकादुद्गततमाः स्वर्गं प्राप्ताः । ते चान्यं पुरुषमितः स्वर्गे गच्छन्तं प्रतिबध्नन्ति । भूलोकवर्तित्वात् । ब्राह्मणा एवादितिसंबन्धादादित्याः । अनेन ब्रह्मौदनेन तुष्टैस्तैर्ब्राह्मणैरादित्यैः सहस्वर्गप्राप्तौ संमतत्वं गच्छति । तत एनं न प्रतिबध्नन्ति । तस्य ब्राह्मौदनिकाग्नेः समिन्धनं तस्मिन्नरणिप्रतापनं च विधत्ते- ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । क्वा॑ सः । अ॒ग्निः कार्यः॑ । यो॑ऽ स्मै॑ प्र॒जां प॒शून्प्र॑ज॒नयतीति॑ । शल्कै॒स्ता ँ रात्री॒म् ग्निमि॑न्धीत । तस्मि॑न्नुपव्यु॒षम॑रणी॒ निष्ट॑पेत् । यथ॑र्ष॒भाय॑ वा॒शिता॒यावि॑च्छा॒यति॑ । ता॒दृगे॒व तत्, इति । आधातव्यो योऽग्निरस्मा आहिताग्नये प्रजां पशूंश्च संपादयति सोऽग्निः क्व कार्यः कुत्र संपादनीय इति ब्रह्मवादिनां प्रश्नः। तस्यैतदुत्तरम् । तस्यां रात्रौ निरन्तरं तस्मिन्काष्ठालैशैरग्निं समिन्ध्यऽग्नावुषः कालसमीपे मन्थनसाधनमरणिद्वयं निष्टपेन्निःशेषेण तपेत् । तेन स ब्राह्मौदनिकोऽग्निररण्योः प्रविशति । यथा लोके कस्मैचिदृषभाय प्रियाणि वाशितानि किकिटादिशब्दजातानि तदागमनाय विशेषेण संपादयति । तदरणिप्रतापनं तादृगेवेति द्रष्टव्यम् । अथ देशविशेषे मन्थनं विधत्ते- अपोदू॒ह्य भस्मा॒ग्निं मं॑न्थति (९) । सैव साऽग्नेः संत॑तिः, इति । ब्राह्मौदनिकाग्निसंबन्धिभस्मान्यपोदूह्य निःसार्य तस्मिन्स्थाने तप्ताभ्यामरणीभ्यामग्निं मन्थेत् । तस्मिन्स्थाने येयं मन्थनक्रिया सैव ब्राह्मोदनिकस्याग्नेरुत्पत्स्यमानेनाग्निना सह सा संततिः । तथाविधो विच्छेदाभावः।

५२ (१.१.९) तैत्तिरीयब्राह्मणम् मथितस्याग्नेर्गार्हपत्याधानार्थमुद्धरणं विधत्ते- तं म॑न्थि॒त्वा प्राञ्च॒मुद्ध॑रति । सं॒व॒त्स॒रमे॒व तद्रेतौ॑ हि॒तं प्र॒जन॑यति, इति । अरणावुत्पन्नं मथितमग्निं कस्मिंश्चित्पात्रे प्राञ्चमुद्धरति, न तु प्रत्यञ्चम् । यथा लोके संवत्सरं गर्भे धत्ते रेतोऽन्ते प्रजनयति तद्वदेतद्भवति । ब्राह्मौदनिकेऽग्नौ गायत्र्यादिभिर्यः समिदाधानविधौ विधिरुक्तस्तमेव पक्षान्तरविधानाय पुनः परामृशति- अना॑हि॒तस्तस्या॒ग्निरित्या॑हुः । यः स॒मिधो॒ऽ ना॑धा॒या॒ग्निमाद॑धत॒ इति॑ । ताः सं॑वत्स॒रे पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒त्स॒रादे॒वैन॑मव॒रुध्याऽऽध॑त्ते, इति । समिदाधानाभावे कृतमप्याधानमकृतमेव स्यादित्यभिज्ञा आहुः । तस्मादाधानात्पुरस्तात्संवत्सरपरिमिति काले समिदाधानं मुख्यः पक्षः। तमेतं मुख्यं पक्षमनूद्य तदसंभवेऽनुकल्पं विधत्ते- यदि॑ संवत्स॒रे नाऽऽद॑ध्यात् । द्वाद॒श्यां पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒त्स॒रप्र॑तिमा॒ वै द्वाद॑श रात्र॑यः । सं॒व॒त्स॒रमे॒वाऽऽस्याहि॑ता भवन्ति, इति । आधानदिनमारभ्याधस्तनतिथिगणनायां या द्वादशसंख्यापूरणी तिथिस्तस्यां ताः समिध आदध्यात् । द्वादशानां रात्रीणां मासस्थानीयत्वेन मिलित्वा संवत्सरसादृश्यम् । पुनरप्यसंभवेऽनुकल्पान्तरं विधत्ते- यदि॑ द्वाद॒श्यां नाऽऽद॑ध्यात् । त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात् । आहि॑ता ए॒वास्य॑ भवन्ति (१०), इति ।

तैत्तिरीयब्राह्मणम् (१.१.१०) ५३ द्वि॒तीय॑मपच॒च्चतु॑र्थमपच॒द्दितीर॑तोऽधत्त सं॒मिताघृ॒तवती॑भिरा॒र्दधा॑ति रा॒जन्य॑:स्व॒स्य छन्द॑सः प्र॒त्यय॑न॒स्त्वो॑र्येयाद॒गच्छ॑ति । म॑न्थति रा॒त्र॑यश्च॒त्वारि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके प्रथमाध्याये नवमोऽनुवाकः ॥ ९ ॥ पूर्ववद् व्याख्येयम् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ दशमोऽनुवाकः । नवमे ब्रह्मौदनाऽभिहितः । अथ दशमं पञ्चाग्न्याधानमभिधीयते । पूर्वं पञ्चमेऽनुवाके यत्रेधाऽग्निरधीयत इत्यग्नित्रयाधानपक्ष एवाभिहितः। इह तु पञ्चाग्न्याधानं विधातुमाख्यायिकामाह- प्र॒जाप॑तिः प्र॒जा असृ॑जत । स रि॑रिचा॒नोऽम॑न्यत । स तपो॑ऽतप्यत । स आ॒त्मन्वी॒र्य॑मपश्यत् । तद॑वर्धत । तद॑स्मा॒त्सह॑सो॒र्ध्वमसृ॑ज्यत । सा वि॒राड॑भवत् । तां दैवा॑सु॒रा व्य॑गृह्णत । सोऽब्रवीत्प्र॒जाप॑तिः । मम॒ वा ए॒षा (१) । दोहो॑ ए॒व यु॒ष्माक॒मिति॑, इति । प्रजापतिः प्रजाः सृष्ट्वा स्वकीयस्य वीर्यस्योपक्षयेण रिक्तोऽहमिति मत्वा वीर्यलाभाय स तपस्तप्त्वा स्वात्मनि किंचिद्वीर्यमपश्यत् । तच्च वीर्यं कालेनावर्धत । तत्प्रवृद्धं वीर्यं धारयितुमशक्यं सच्छीघ्रमेवास्मात्प्रजापतेरूर्ध्वं निर्गत्य केनचिद्रूपेण सृष्टमभूत् । सा सृष्टा निष्पन्ना विविधं राजमाना काचिद्गौरभवत् । तामुद्दिश्य देवाश्चासुराश्च वयमेवैतां गृह्णीम इत्येवं परस्परं विग्रहमकुर्वन् । तदा विग्रहशान्तये प्रजापतिरेवमब्रवीत् । एषा गौर्ममैवेति । युष्माकं तु दोहा एव क्षीराण्येवेति । सा ततः॒ प्राच्युद॑क्रामत् । तत्प्र॒जाप॑तिः पर्य॑गृह्णात् । अथ॑र्व पि॒तुं मे॑ गोपायेति॑ । सा द्वि॒तीय॒मुद॑क्रामत् । तत्प्र॒जाप॑तिः पर्य॑गृह्णात् । नर्य॑ प्र॒जां मे॑ गोपायेति॑ । सा तृ॒तीय॒मुद॑क्रामत् ।

५४ (१.१.१०) तैत्तिरीयब्राह्मणम् तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । शस्य॑ ँ॑प॒शून्मै॑ गोपा॒येति॑ (२) । सा च॑तु॒र्थमुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । सप्र॑थ सभां॑ मे॑ गोपा॒येति॑ । सा प॑ञ्च॒ममुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपा॒येति॑ । अ॒ग्नीन्वाव सा तान्व॑क्रमत । तान्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अथो॑ पा॒ङ्क्तमे॒व, इति । येयं गौः प्रजापतिना स्वार्थमेव स्वीकृता विराट् सा प्रजापतेः सकाशात्प्राङ्मुखी सत्युदक्रामत् . तदा प्रजापतिरथर्वेति मन्त्रेण तां विराजं परितो निरुद्धवान् । हेऽथर्व चतुर्थवेदप्रवर्तकाचार्यरूप दक्षिणाग्ने, यद्वा हिंसारहितं मे पितुं मदीयमन्रं गोपाय । एवमुत्तरेषु चर्तुषु योज्यम् । नरेभ्यो मनुष्येभ्यो हितो नर्यो गार्हपत्यः । ऋत्विग्भिः प्रशंसनीयरूपत्वाच्छंस्य आहवनीयः । प्रथया कीर्त्या सह वर्तमानत्वात्सप्रथः सभ्यः । अहिंसकत्वादबुध्ने मूले जगदादावुत्पन्नत्वादहिर्बुध्निय आवसथ्यः । ऋगादिर्भन्त्रः । इत्थं सैव विराट् तानग्नीन्पञ्चधा विवेक्तुं पञ्चवारं व्यक्रामत् । तान्यञ्चाग्नीन्प्रजापतिः परितः स्वीकृतवान् । अपि च क्रमेणावस्थानात्पञ्चसंख्यान्वयाद्वा पङ्क्तमेवैतावदग्निविषयां गृहीतवान् । इदानीं विधत्ते- पा॒ङ्क्तिर्वा ए॒षा ब्राह्म॑णे प्रवि॑ष्टा (३) । तामा॒त्मनोऽधि॑ निर्मि॑मीते । यद॒ग्निरा॑धी॒यते॑ । तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॑ आधी॑यन्ते । पा॒ङ्क्त वा इद ँसर्व॑म् । पा॒ङ्क्तेनै॒व पा॒ङ्क्त ँ स्पृणोति, इति । पूर्वोक्तानामाथर्वंत्यादीनां मन्त्राणां ब्राह्मणेनाधीतत्वात्प्रजापति- प्रतिपाद्यत्वाद्वा पङ्क्तिर्विप्रे प्रविष्टा । तथा सत्यग्न्याधानेन तां पङ्क्तिं तस्मादुत्पादयति । तस्मादेतावन्तः पञ्चाग्नय आधातव्याः । यदिदं मनुष्यपश्वादिरूपं जगत्सर्वं पञ्चसंख्यॉपेतत्वात्पाङ्क्तम् । शिरो हस्तौ पादौ चेत्येवं मनुष्याणां पञ्चावयवाः । शिरसा पुच्छेन वा सह चत्वारः पादाः पशूनां पञ्चावयवाः। अतः पञ्चसंख्यायुक्तेनैवाग्निना पञ्चसंख्यायुक्तं जगत्प्रीणयति । अथ मन्त्राणां तात्पर्यं क्रमेण दर्शयति-

तैत्तिरीयब्राह्मणम् (१.१.१०) ५५ अथ॑र्व पि॒तुं मे॑ गोपायेत्या॑ह । अ॒न्नमे॒वैतेन॑ स्पृणोति । नर्य॑ प्र॒जां मे॑ गोपायेत्या॑ह । प्र॒जामे॒वैतेन॑ स्पृणोति । शस्य॑ ँ प॒शून्मे॑ गोपायेत्या॑ह (४) । प॒शूने॒वैतेन॑ स्पृणोति । स॒प्रथ॑ सभां मे॑ गोपायेत्या॑ह । स॒भामे॒वैतेनै॑न्द्रि॒य ँ स्पृ॑णोति । अ॒हे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपायेत्या॑ह । मन्त्र॑मे॒वैतेन॑ । श्रिय॑ ँ स्पृणोति, इति । मन्त्रे तानिन्द्रियावत इत्यभिधानादिन्द्रियप्रीतिः । सा हि श्रीरित्यभिधानाच्छ्रियः प्रीतिः । पञ्चानामग्नीनां पृथगुपयोगं दर्शयन्प्रशंसति- यद॑न्वाहार्यपच॑नेऽन्वाहार्यं॒ पच॑न्ति । तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यद्गा'हपत्य॒ आज्य॑मधिश्रय॑न्ति संपत्नी॑र्य॒जय॑न्ति । तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यदा॑हव॒नीये॑ जु॒ह्वति॑ (५) । तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यत्स॒भायां वि॒जय॑न्ते । तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यदा॑वस॒थेऽन्न॑ ँ हर॑न्ति । तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । तथा॑ऽस्य॒ सर्वे॑ प्री॒ता अ॒भीष्टा॒ आधी॑यन्ते, इति । दर्शपूर्णमासकर्मणि ऋत्विजामनु दक्षिणार्थं आह्नियत इत्योदनो ऽन्वाहार्यः । स च पच्यते यस्मिन्दक्षिणाग्नौ सोऽयमन्वाहार्यपचनः । तेनौदनपाकेनोपयुक्तत्वात्स दक्षिणाग्निरस्य यजमानस्याभीष्टोऽपि भवति । एतदीयपरिचर्यया प्रीतश्च भवति । एवमुत्तरत्रापि । गार्हपत्ये ह्याज्यं विलापयन्ति । देवपत्नीश्च संयाजयन्ति । अतः पत्नीसंबन्धाद् गृहपतिना संयुक्त इति गार्हपत्यः । प्रधानाहुति जुहोत्यस्मिन्नित्याहवनीयः । अथ सभाया मध्येऽधिदेवनमुद्धृत्येत्यादिना द्यूतविजयः सूत्रेऽभिहितः । तां द्यूतसभामर्हतीति सभ्यः । “तदन्नं संस्कृत्य सभासद्भ्य-उपहरन्त्यावसथे भुञ्जते” इति .सूत्रेऽन्नहरणमुक्तम् । तद् गृहमावसथः । तमर्हतीत्यावसथ्यः । तेनोक्तप्रकारेण सर्वेऽप्यग्नयोऽस्य यजमानस्य प्रीतिपूर्वकमभीष्टं संपादयन्त आहिता भवन्ति ।

५६ (१.१.१०) तैत्तिरीयब्राह्मणम् पूर्वोक्तैरथर्व पितुमित्यादिमन्त्रैरुपस्थानं विधत्ते- प्र॒वस॒न्मेष्य॒न्नेवमु॑पतिष्ठे॒तैक॑मे॒कम् । यथो॑ ब्राह्म॒णाय॑ गृ॒हेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑ । ता॒दृगे॒व तत्, इति । आहिताग्निर्यदा देशान्तरं गमिष्यति तदा पूर्ववदुपतिष्ठेत । पूर्ववत्प्रजापतिर्विराजः क्रमेणाथर्व पितुमित्यादिमन्त्रैर्विराजं परिगृहीतवानित्यर्थवाद उक्तः । तेनार्थवादेनाऽऽधानकालीनस्यो- पस्थानस्य विधिरुन्नेयः । अत एव सूत्रकार आधानादूर्ध्वं पवमानेष्टिभ्यः पूर्वमेतदुवाच-“अथ विराट् क्रमैर्यजमान उपतिष्ठते, अथर्वपितुं मे गोपाय” इत्यादि । अत आधानाकालीनमुपस्थानं दृष्टान्तीकर्तुमेवमित्युक्तम् । यथा लोके गृहस्वामी कश्चिदन्यं कंचिद्ब्राह्मणं गृहरक्षार्थं वासयित्वा तस्मै ब्राह्मणाय गृहान्परिदाय त्वमेवमेवं रक्षेति बुद्धिप्रदानं कृत्वा ग्रामान्तरं गच्छति तादृगेव तदुपस्थानं द्रष्टव्यम् । उपस्थानान्तरं विधत्ते- पुन॑रा॒गत्योप॑तिष्ठते । साऽभा॒गेय॑मे॒वैषां॒ तत् । सा तर्त॑ ऊ॒र्ध्वाऽऽरो॑हत् । सा रो॑हि॒ण्य॑भवत् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । रो॒हि॒ण्याम॒ग्निमाद॑धीत । स्व ए॒वैनं॒ योनौ॑ प्रति॑ष्ठित॒माध॑त्ते । ऋ॒ध्नोत्ये॑नेन (६), इति । एषा पशून्मे॑ गोपायेति॒ प्रवि॑ष्टा पशून्मे॑ गोपायेत्या॑हु जुहो॑ति तिष्ठ॑ते सप्त च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः ॥ १० ॥ ग्रामान्तरादागत्य पुनरप्याहिताग्नीनथर्व पितुमित्यादिमन्त्रै- रुपतिष्ठेत । ते च प्रत्येकमुपस्थानमन्त्राः संध्योपस्थानमन्त्रस्तु पञ्चधाऽ ग्नीन्व्यक्रामदित्यादिः । स चैवमुत्तरप्रपाठके पठिष्यते-‘ ‘पञ्चधाऽग्नीन्व्यक्रामत् । विराट् सृष्टा प्रजापतेः। ऊर्ध्वाऽऽरोहद्रोहिणी । योनिरग्नेः प्रतिष्ठितिः” इति । गेयमित्यादिना तदीयतात्पर्यमुच्यते । येयं प्रजापतिसृष्टा विराट् सेयं तदानीमेषामग्नीनां भागरहिताऽभूत् । अन्वाहार्यं पचन्त्याज्यमधिश्रयन्तीत्याद्युपयोगो यथाऽग्नीनामभिहितो न तथा विराजः कश्चिदुपयोग उक्तः । तस्मादभागत्वम् । सा च भागरहिता ततो देशादूर्ध्वा