तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 71, कुल 345 में से
संदर्भ में पढ़ें४२ (१.१.८) तैत्तिरीयब्राह्मणम् अथाष्टमोऽनुवाकः । आधानमन्त्राः सप्तमेऽभिहिताः । अष्टमे तद्ब्राह्मणमुच्यते । तत्र त्रीनाधानमन्त्रान्विनियुङ्क्ते- इ॒मे वा ए॒त लो॒का अ॒ग्नय॑ः। ते यद॒व्या॑वृत्ता आधी॒येर॑न् । शो॒चये॑यु॒र्यज॑मानम् । घ॒र्मः शिर॒ इति॑ गार्हप॒त्यमाद॑धाति । वातः॑ प्रा॒ण इत्य॑न्वाहार्यप॒चन॑म् । अ॒र्कश्चक्षु॒रित्या॑- हव॒नीय॑म् । तेनै॒वैना॒न्व्याव॑र्तयति । तथा॒ न शौच॑यन्ति॒ यज॑मानम्, इति । एते त्रयोऽग्नयस्त्रित्वसाम्यादिमे त्रयो लोका भवन्ति । ते यदि परस्परम्-व्यावृत्ताः समुदिता आधीयेरंस्तदा दाहाधिक्येन यजमानं संतापयेयुः । अतस्त्रिभिर्मन्त्रैः पृथगादध्यात् । तेन व्यावृत्ताः सन्त स्तापाधिक्याभावाद्यजमानं नैव संतापयन्ति । अथाऽऽधानकाले सामगानं विधत्ते- र॒थं॒त॒र॒म॒भिगा॑यते गार्हपत्य आधी॒यमा॑ने । राथन्त॒रो वा अ॒यं लो॒कः (१) । अ॒स्मिन्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते । वा॒म॒दे॒व्य॒म॒भिगा॑यत उ (द्) ध्रिय॒माणे॑ । अ॒न्तरि॑क्षं॒ वै वा॑मदे॒व्यम् । अ॒न्तरि॑क्ष ए॒वैनं॑ प्रति॑ष्ठित॒माध॑त्ते । अथो॒ शान्ति॒र्वै वा॑मदे॒व्यम् । शान्त॑मे॒वैनं॑ पशू॒व्यमुद्ध॑रते । बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने बाह॑तो॒ वा अ॒सौ लो॒कः । अ॒मुष्मि॑न्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते, इति । “अभि त्वा शूर नोनुमः ” इत्यस्यामृच्युत्पन्नं रथंतरम् । “कया नश्चित्र आभुवत् ” इत्यस्यामृच्युत्पन्नं वामदेव्यम् । “त्वामिद्धि हवामहे” इत्यस्यामृच्युत्पन्नं बृहत् । रथंतरादीनां भूरादिलोक- भोगहेतुत्वाल्लोकरूपत्वम् । अत एतेषां गाने सति तत्तल्लोकेऽग्निः प्रतिष्ठितो भवति । अपि च वामदेव्यस्योपद्रवशान्ति- करत्वात्पशुप्राप्तिहेतुत्वाच्चैनमुद्ध्रियमाणमग्निं शान्तं पशुसाधनं च कृत्वोद्धरति । पुनरपि सामद्वयं विधत्ते-