भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 70, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 70

तैत्तिरीयब्राह्मणम् (१.१.७) ४१ ते॑ अ॒ग्ने॒ शि॒वे त॒नुवौ॑ । वि॒भूश्च॑ परि॒भूश्च॑ । ते मा॑ वि॒शता॒न् त मा॑ जिन्वताम् । ये ते॑ अ॒ग्ने॒ शि॒वे त॒नुवौ॑ । प्र॒भ्वी च॑ प्र॒भूति॑श्च । ते मा॑ वि॒शता॒न् ते मा॑ जिन्वताम् । यास्तै॑ अग्ने शि॒वास्त॒नुवः॑ ताभि॒स्त्वाऽऽद॑धे, (इति) । कल्पः-“अथ यजमानः शिवा जपति-ये ते अग्ने शिवे तनुवौ विराट् च स्वराट् च ते मा विशतां ते मा जिन्वतां ये त अग्ने शिवे तनुवौ सम्राट् चाभिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिव तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ प्रभ्वी च प्रभूतिश्च ते मा शिवतां ते मा जिन्वतां यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वाऽऽदधे ” इति । विराडादिभिः प्रभूतिपर्यन्तैरष्टाभिः शब्दैरुक्ता अग्नेः शिवाः शान्तास्तनुवः । हेऽग्ने ते त्वदीये विराट्- स्वराडाख्ये ये शान्ते तनू ते उभे मां प्रविश्य प्रीणयताम् । एवमुत्तरत्रापि । विविधं राजत इति विराट् । स्वयमेव राजत इति स्वराट् । सम्यग्राजत इति सम्राट् । वैरिणोऽभिभवतीत्यभिभूः । विशिष्टेन रूपेण भवतीति विभूः । परितो भवतीति परिभूः । आज्ञालक्षणेन प्रभुत्वेन युक्ता प्रभ्वी । प्रकृष्टैनैश्वर्येणोपेता प्रभूतिः । हेऽग्ने या एतास्ते त्वदीयाः शिवास्तनुवस्ताभिर्युक्तं त्वामिहाऽऽदधे । यास्तै॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॒र॒मुं ग॑च्छ (३), (इति) । चतु॑ष्पदे जिन्वतां त॒नुव॒स्त्रीणि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके प्रथमाष्टके प्रथमाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ कल्पः-“यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छ इति यजमानो द्वेष्याय प्रहिणोति” इति । घोरतनवः क्षुत्तृष्णादिरूपाः । तथा चाऽऽरण्यकाण्डे समाम्नातम् “यास्ते अग्ने घोरास्तनुवः क्षुञ्च तृष्णा च” इत्यादि । ताभिर्घोराभिस्तनुभिरमुं शत्रुं गच्छ प्राप्नुहि । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥