तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 69, कुल 345 में से
संदर्भ में पढ़ेंविश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि । ऊर्जं॑ नो धेहि । द्वि॒पदे॒ चतु॑ष्पदे (१), इति । हेऽग्ने त्वं विद्वान्मागं जानन्प्राचीं प्रदिशमनु प्रागाख्यां प्रकृष्टां दिशमनु लक्ष्य प्रेहि प्रकर्षण गच्छ । गत्वा चेहाऽऽयतने प्रथममाहितस्य गार्हपत्यस्याग्नेः पुरोऽग्निः पूर्वदिग्वर्ती वह्निर्भव । ततो॑ दीद्यानः प्रकाशमानो विश्वाआशाः सर्वा दिशो विभाहि विशेषेण प्रकाशय । नोऽस्मदीयाय द्विपदे मनुष्याय चतुष्पदे पशवे चोर्जं धेहि देह्यन्नरसं संपादय । अथाऽऽहवनीयविषयं मन्त्रमाह- अ॒र्कश्चक्षु॒स्तद॒सौ सूर्य॒स्तदयम॒ग्निः । संप्रि॒यः प॒शुभ॑र्भुवत् । यत्ते॑ शु॒क्रं शु॒क्रं वर्च॑: शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा, इति । अर्कोऽर्चमानो मण्डलात्मा वह्निशरीरस्य चक्षुःस्थानीयस्तच्चक्षुः स्वरूपमसौ दिवि दृश्यमानः सूर्यरूपः स सूर्योऽयमाधीयमान आहवनीयोऽग्निः । ह आहवनीयास्मदीयैः पशुभिः संप्रियो भव । हे शुक्र ऽऽहवनीय ते त्वदीयं यच्छुक्रं वर्चो बहिः प्रसृतं दीप्तिरूपं तेजो या च शुक्रा तनूर्ज्वालाः रूपं शरीरं यदप्यजस्रं शुक्रं ज्योतिः सर्वदा वर्तमानो भारूपशरीरगतप्रकाशस्तेन सर्वेण मे दीदिहि मां प्रकाशय । हेऽग्ने परिवृढेन-“अर्कश्चक्षुः” इति मन्त्रेण तेन पूर्वोक्तगुण- युक्तेनाग्निनाऽऽहवनीयरूपेण त्वामिहाऽऽदधे । अथाऽऽहितस्याग्नेरभिमन्त्रणमन्त्रमाह- आन॑शे॒ व्यान॑शे॒ सर्व॒मायु॒र्व्यान॑शे, इति । अयमग्निरानशे जाठराग्निरूपेण भोक्तृशरीरं व्याप्तवान् । तथा व्यानशे विविधं भोग्यजातं व्याप्तवान् । तथा सर्वमायुर्व्यानशेऽपमृत्युपरिहारेण संपूर्णमायुः संपादितवान् । ये ते॑ अग्न शिवे॒ तनुवौ॑ । वि॒राट् च॑ स्व॒राट् च॑ । त मा॑ विश॑तां॒ ते मा॑ जिन्वताम् (२) । ये ते॑ अग्ने शिवे॒ तनुवौ॑ । स॒म्राट् चा॑भि॒भूश्च॑ । ते मावि॑शतां॒ ते मा॑ जिन्वताम् । ये