तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 176, कुल 368 में से
संदर्भ में पढ़ें१६६ श्रीतन्त्रालोकः । विधिप्राप्यभावात्, यावदप्राप्तं हि विधेर्विषयः, न च स्वात्मनः कदाचित् अप्राप्तिरस्ति — आदिसिद्धतया सर्वदैव स्फुरणात् । ननु विधेर्नियोगभावनाद्यात्मतया बहुविधत्वमुक्तम्, स्वात्मा पुनः कस्य विधेर्विषयतां न भजते ? इत्याशङ्क्याह विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका ॥ १२७ ॥ विधिः अप्रवृत्तप्रवर्तको, न पुनरज्ञातज्ञापकः । यदाहुः 'विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् । अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥' इति । स्वर्गयागयोश्च साध्यसाधनभावमवबो- धयतोऽस्यैव विधेः तावत्प्रवर्तकत्वं — यत् सप्रत्ययस्य पुंसः 'प्रवृत्तोऽहम्' इति ज्ञानजननम् । स च 'नियोग' पं० ३ क० पु० सर्वस्फुरणादिति पाठः । पं० ४ ख० पु० कस्य तावद्विषयेत्येवंविधः पाठः । पं० ६ ख० पु० नियोगस्त्र्यंशश्चेति पाठः । पं० ११ ख० पु० न ज्ञातज्ञापनं विधिरिति पाठः । पं० १२ ख० पु० अवबोधयतोऽस्यैतावत्प्रवर्तकत्वमिति प्रथमः पाठः । पं० १३ क० पु० प्रवृत्तोहम् इत्यारभ्य प्रत्ययवाच्य इत्यन्तः पाठो ग० पुस्त- कात्पूरितोऽस्ति ।