तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 177, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १२७ ] प्रथमाह्निकम् । १६७ इति प्राभाकरैरुक्तः, ‘भावना’ इति भाट्टैः । तत्र तिङादिप्रत्ययवाच्यः ‘प्रवर्तितोऽहम्’ इति प्रेरणात्मकः कार्यात्मा अनुष्ठेयो धर्मो नियोगः । स च ‘दर्श-पौर्णमासाभ्यां यजेत स्वर्गकामः ।’ इत्यादावनुबन्धद्वयावच्छिन्नः प्रतीयते । याज्या- दिना हि अस्य विषयानुबन्ध उच्यते । ‘स्वर्गकामः’ इत्यनेन च अधिकारानुबन्धः, अत एव च द्वयनुबन्ध- बान्धवो ‘नियोगः’ इत्युद्धोष्यते । कांचिन् क्वचिन्नियुंक्ते इति नियोगस्वरूपम् इति । ‘भावना’ च भाव्यनिष्ठो भावकव्यापारः, भाव्यं स्वर्गादिफलं, तन्निष्ठस्त- दुत्पादकः पुरुषव्यापारो भावना । पुरुषो हि भवन्तं स्वर्गादिकमर्थं स्वव्यापारेण भावयति इति भावना इत्युच्यते । सा च द्विविधा - शब्दभावना अर्थभावना च इति । तस्याश्च किं, केन, कथं भावयेत् इति अंशत्रयापेक्षत्वात् त्र्यंशत्वम् । तदुक्तम् ‘सा धातोः प्रत्ययाद्वापि भावनावगता सती । अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥’ इति । त्र्यंशा इति, तत्रार्थभावनायां ‘किम्’ इत्य- पेक्षायां स्वर्गः, ‘केन’ इत्यपेक्षायां यागः, ‘कथम्’ इत्य-