तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 222, कुल 368 में से
संदर्भ में पढ़ें२१२ श्रीतन्त्रालोकः । इति 'गृहीतं गृह्णामि' इति प्रतिपत्तिरस्य कथं स्यात् ? इत्याशङ्क्याह गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा ॥ १८१ ॥ गृह्णामीत्यविकल्पैक्य- बलात्तु प्रतिपद्यते । गृहीतमिति प्रथा हि विकल्पस्य भावादौपपत्तकी- गृहीत एवार्थे अस्य प्रवृत्तेः, यत्तु गृह्णामि इति प्रति- पद्यते तत् दृश्यविकल्प्यार्थैकीकारादिना निर्विकल्पकै- कात्म्यावलम्बनबलात् इति युक्तमुक्तं 'विकल्पेन गृहीतं गृह्यते' इति ॥ १८१ ॥ ननु ज्ञानं खलु ज्ञापकं न तु कारकम् इति, तेन वस्तुनो ज्ञप्तिः स्यात् न तु सिद्धिः इति कथमुक्तं 'सिद्धं विकल्पेनानुगम्यते' ? इत्याशङ्क्याह अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः ॥ १८२ ॥ पं० ४ ग० पु० यथा प्रथेति पाठः । पं० ७ क० पु० प्रथा हि विकल्पभावादौ प्रतिपत्तिगृहीत एवार्थे इति पाठः । पं० ८ क० पु० अस्याः प्रवृत्तेर्यत्तु गृह्णामीत्यविकल्पैकबलात्तं प्रतीति पाठः ।