तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 311, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ३३० ] प्रथमाह्निकम् । ३०१ एतदुपसंहरन्नन्यदवतारयति इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे । अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् ॥३२६॥ अस्य इति-उद्दिष्टस्य प्रमेयजातस्य ॥३२६॥ इदानीमाह्निकार्थमेव संचिनोति आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्ति- व्रातं तस्य स्वरूपं स च निज महस- श्छादनाद्वद्धरूपः । आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह य- त्संग्रहेणार्थ एषः ॥३३०॥ इह आत्मनस्तावत् धामत्रयीबाह्यप्रकाशविलक्षणः पं० ४ क० पु० लक्षणापेक्ष्या तत्र इति पाठः । पं० १० ग० पु० निजमहिमाच्छादनाद्वन्द्वरूपः इति पाठः । पं० १३ क० पु० स चास्य इति पाठः ।