तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 312, कुल 368 में से
संदर्भ में पढ़ें३०२ श्रीतन्त्रालोकः । संविद्रूप एव प्रकाशः स्वरूपं, संविच्च निरवयवा इति एक एव अखण्डप्रकाशरूपः इति यावत् । अत एव च 'शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् ।' इत्याद्युक्तयुक्त्या तस्य आत्मनः क्रोडीकृतानन्त- शक्तिकं स्वरूपम्, एवमद्वयात्मत्वेऽपि स एव अति- दुर्घटकारित्वलक्षणात् स्वस्वातन्त्र्यात्, निजस्य — अ- नन्यसाधारणस्य ज्ञत्वकर्तृत्वलक्षणस्य, महसो गोप- नात् ग्राह्यग्राहकात्मकं द्वन्द्वमाभासयन् '............शिव एव गृहीतपशुभावः ।' इत्याद्युक्तयुक्त्या 'बद्धः' इत्युच्यते, एवमपि तस्य आ- त्मनः प्रत्यावृत्त्या 'मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः । स्वरूपं चात्मनः संवित्..................॥' इत्याद्युक्तयुक्त्या ज्ञत्वकर्तृत्वलक्षणस्य स्वमहस एव प्रथनं मोक्षः, यदर्थमेव च तत्तदनन्तशास्त्रात्मक इ- यान् परिकरः । तदाह 'स चायम्' इत्यादि, स चायं मोक्षः — तत्तद्गृहीताधरदर्शनभूमिकस्य अस्य पं० ८ ग० पु० महिम्नो गोपनादिति पाठः ।