तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 148, कुल 294 में से
संदर्भ में पढ़ेंअथ सप्तममाह्निकम् अथ देशाध्वा तत्र समस्त एव अयं मूर्तिवैचित्र्याभासनशक्तिजो देशाध्वा संविदि विश्रान्तः, तद्वारेण शून्ये बुद्धौ प्राणे नाडीचक्रानुचक्रेषु बहिः शरीरे यावलिङ्गस्थण्डिलप्रतिमादौ समस्तोऽध्वा परिनिष्ठितः, तं समस्तम् अध्वानं देहे विलाप्य, देहं च प्राणे, तं धियि, तां शून्ये, तत्संवेदने, निर्भर- परिपूर्णसंवित् संपद्यते षट्त्रिंशत्तत्त्वरूपज्ञः, तदुत्तीर्णां संविदं परमशिव- रूपां पश्यन् विश्वमयीमपि संवेदयेत, अपरथा वेद्यभागमेव कांचिद् परत्वेन गृह्णीयात् मायागर्भाधिकारिणं विष्णुब्रह्मादिकं वा, तस्मात् अवश्यं प्रक्रियाज्ञानपरेण भवितव्यम् । तदुक्तं न प्रक्रियापरं ज्ञानम् ............. । इति । तत्र पृथिवीतत्त्वं शतकोटिप्रविस्तीर्ण ब्रह्माण्डगोलकरूपम् । तस्य अन्तः कालाग्निर्नरकाः पातालानि पृथिवी स्वर्गो यावद्ब्रह्मलोक इति । ब्रह्माण्डबाह्ये रुद्राणां शतं । न च ब्रह्माण्डानां संख्या विद्यते । ततो धरातत्त्वात् दशगुणं जलतत्त्वं । तत उत्तरोत्तरं दशगुणम् अहंकारान्तं । तद्यथा जलं तेजो वायुर्नभः तन्मात्रपञ्चकाक्षैकादशगर्भोऽहंकारश्चेति । अहंकारात् शतगुणं बुद्धितत्त्वं ततः सहस्रधा प्रकृतितत्त्वं, एतावत्प्र- कृत्यण्डम् । तच्च ब्रह्माण्डवत् असंख्यम् । प्रकृतितत्त्वात् पुरुषतत्त्वं च दशसहस्रधा । पुरुषात् नियतिः लक्षधा । नियतेरुत्तरोत्तरं दशलक्षधा कलातत्त्वान्तम् । तद्यथा नियतिः रागः अशुद्धविद्या कालः कला चेति । कलातत्त्वात् कोटिधा माया, एतावत् मायाण्डम् । मायातत्त्वात् शुद्धविद्या दशकोटिगुणिता । विद्यातत्त्वात् ईश्वरतत्त्वं शतकोटिधा । ईश्वरतत्त्वात् सादाख्यं सहस्रकोटिधा । सादाख्यात् वृन्दगुणितं शक्तितत्त्वम्, इति शक्त्यण्डम् । सा शक्तिर्व्याप्य यतो विश्वमध्वानम् अन्तर्बहिरास्ते तस्मात् व्यापिनी । एवमेतानि उत्तरोत्तरम् आवरणतया वर्तमानानि तत्त्वानि—उत्तरं व्यापकं पूर्वं व्याप्यम् इति स्थित्या वर्तन्ते । यावद- शेषशक्तिशक्तितत्त्वान्तोऽध्वा शिवतत्त्वेन व्याप्तः । शिवतत्त्वं पुनरप्रमेयं