भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 185, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 185

अथ दशममाह्निकम् उक्तस्तावत् तत्त्वाध्वा । कलाद्यध्वा तु निरूप्यते, तत्र यथा भुवनेषु अनुगामि किञ्चिद्रूपं तत्त्वम् इत्युक्तम्, तथा तत्त्वेषु वर्गशो यत् अनुगामि रूपं तत् कला—एकरूपकलनासहिष्णुत्वात् । तद्यथा पृथिव्यां निवृत्तिः— निवर्तते यतस्तत्त्वसर्ग इति । जलादिप्रधानान्ते वर्गे प्रतिष्ठा—कारणतया- प्यायनपूरणकारित्वात् । पुमादिमायान्ते विद्या—वेद्यतिरोभावे संविदा- धिक्यात् । शुद्धविद्यादिशक्त्यन्ते शान्ता कञ्चुकतरङ्गोपशमात् । एतदेव अण्डचतुष्टयं—पार्थिव-प्राकृत-मायीय-शाक्ताभिधम् । पृथिव्यादिशक्तीनाम् अत्र अवस्थानेन शक्तितत्त्वे यावत् परस्पर्शो विद्यते स्पर्शस्य च सप्रति- घत्वमिति तावति युक्तम् अण्डत्वम् । शिवतत्त्वे शान्तातीता—तस्यो- पदेशभावणार्चादौ कल्पमानत्वात् । स्वतन्त्रं तु परं तत्त्वं, तत्रापि यत् अप्रमेयं तत्कलातीतम् । एवं पञ्चैव कलाः षट्त्रिंशत्तत्त्वानि । तथाहि— प्रमेयत्वं द्विधा—स्थूलसूक्ष्मत्वेन इति दश । करणत्वं द्विधा—शुद्धं कर्तृतास्पर्शि च इति दश । करणतोपसर्जनकर्तृभावस्फुटत्वात् पञ्च, शुद्धकर्तृभावात् पञ्च, विगलितविभागतया विकासोन्मुखत्वे पञ्च, सर्वा- वच्छेदशून्यं शिवतत्त्वं षट्त्रिंशम् । तद्यदा उपदिश्यते भाव्यते वा यत् तत्प्रतिष्ठापदम्, तत् सप्तत्रिंशम्, तस्मिन्नपि भाव्यमाने अष्टात्रिंशम्, न च अनवस्था—तस्य भाव्यमानस्य अनवच्छिन्नस्वातन्त्र्ययोगिनो वेद्यीकरणे सप्तत्रिंश एव पर्यवसानात्, षट्त्रिंशं तु सर्वतत्त्वोत्तीर्णतया सम्भाव्याव- च्छेदम् इति पञ्चकलाविधिः । विज्ञानाकलपर्यन्तम् आत्मकला, ईशान्तं विद्याकला, शिष्टं शिवकला इति त्रितत्त्वविधिः । एवं नवतत्त्वाद्यपि ऊह्येत इति । मेयांशगामी स्थूलसूक्ष्मपररूपत्वात् त्रिविधो भुवनतत्त्व- कलात्माध्वभेदः, मातृविश्रान्त्या तथैव त्रिविधः, तत्र प्रमाणतायां पदाध्वा, प्रमाणस्यैव क्षोभतरङ्गशाम्यत्तायां मन्त्राध्वा, तत्प्रशमे पूर्ण- प्रमातृतायां वर्णाध्वा, स एव च असौ तावति विश्रान्त्या लब्धस्वरूपो भवति इति एकस्यैव षड्विधत्वं युक्तम् । पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः । तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्त्या ॥१॥

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक) · पृष्ठ 185, कुल 294 में से · BharatKosha