तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 205, कुल 294 में से
संदर्भ में पढ़ेंअथ द्वादशमाह्निकम् दीक्षादिकं वक्तव्यम् इति उक्तम्, अतो दीक्षास्वरूपनिरूपणार्थं प्राक् कर्तव्यं स्नानम् उपदिश्यते। स्नानं च शुद्धता उच्यते, शुद्धता च परमेश्वरस्वरूपसमावेशः। कालुष्यापगमो हि शुद्धिः, कालुष्यं च तदेक- रूपेऽपि अतत्स्वभावरूपान्तरसंवलनाभिमानः। तदिह स्वतन्त्रानन्द- चिन्मात्रसारे स्वात्मनि विश्वत्रापि वा तदन्यरूपसंवलनाभिमानः अशुद्धिः, सा च महाभैरवसमावेशेन व्यपोह्यते, सोऽपि कस्यचित् झटिति भवेत्, कस्यापि उपायान्तरमुखप्रेक्षी। तत्रापि च एकद्वित्र्यादिभेदेन समस्त- व्यस्ततया क्वचित् कस्यचित् कदाचित् च, तथा आश्वासोपलब्धेः विचित्रो भेदः। स च अष्टधा—क्षितिजलपवनहुताशनाकाशसोमसूर्यात्म- रूपासु अष्टासु मूर्तिषु मन्त्रन्यासमहिम्ना परमेश्वररूपतया भावितासु तादात्म्येन च देहे परमेश्वरसमाविष्टे शरीरादिविभागवृत्तेः चैतन्यस्यापि परमेश्वरसमावेशप्राप्तिः, कस्यापि तु स्नानवस्त्रादितुष्टिजनकत्वात् परमेशोपायतामेतीति, उक्तं च श्रीमदानन्दादौ—धृतिः आप्यायो वीर्यं मलदाहो व्याप्तिः सृष्टिसामर्थ्यं स्थितिसामर्थ्यम् अभेदश्च इत्येतानि तेषु मुख्यफलानि—तेषु तेषु उपाहितस्य मन्त्रस्य तत्तद्रूपधारित्वात्। वीरोद्देशेन तु विशेषः, तद्यथा—रणरेणु, वीराम्भः, महामरुत्, वीरभस्म श्मशाननभः तदुपहितौ चन्द्राकौँ आत्मा निर्विकल्पकः। पुनरपि बाह्या- भ्यन्तरतया द्वित्वम्, बहिरुपास्यमन्त्रतादात्म्येन तन्मयीकृते तत्र तत्र निमज्जनम् इत्युक्तम्। विशेषस्तु आनन्दद्रव्यं वीराधारगतं निरीक्षणेन शिवमयीकृत्य तत्रैव मन्त्रचक्रपूजनम्, ततः तेनैव देहप्राणोभयाश्रित- देवताचक्रतर्पणम् इति मुख्यं स्नानम्। आभ्यन्तरं यथा—तत्तद्धरादिरूप- धारणया तत्र तत्र पार्थिवादौ चक्रे तन्मयीभावः। परभैरवसंमज्जनमाहुः स्नानं यथा तु तद्भवति। तदपि बाह्यं स्नानं न मुख्यमुपचारतः किं तु॥ परमानन्दनिमज्जणु इउपरमत्थिण ह्लाणु। तँहिं आविद्रुतरत्ति दिणु जाणइ पर अप्पाणु॥ इति श्रीमदाचार्याभिनवगुप्तविरचिते श्रीतन्त्रसारे स्नानप्रकाशनं नाम द्वादशमाह्निकम् ॥१२॥