भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 278, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 278

अथ द्वाविंशमाह्निकम् अथ समस्ता इयम् उपासा समुन्मिषत्तादृशदृढवासनारूढान् अधि- कारिणः प्रति श्रीमत्कौलिकप्रक्रियया निरूप्यते, तत्र उक्तं योगसंचारादौ आनन्दं ब्रह्म तद्देहे त्रिधौष्ठचान्त्यव्यवस्थितम् । अब्रह्मचारिणस्तस्य त्यागादानन्दवर्जिताः ॥ आनन्दकृत्रिमाहारवर्जं चक्रस्य याजकाः । द्वयेऽपि नरके घोरे तस्मादेनां स्थितिं भजेत् ॥ तदनया स्थित्या कुलयागः, स च षोढा—बाह्ये शक्तौ स्वदेहे यामले प्राणे संविदि च इति । तत्र च उत्तर उत्तर उत्कृष्ट, पूर्वः पूर्वस्तदुच्च्यर्थम् । सिद्धिकामस्य द्वितीयतुर्यपञ्चमाः सर्वथा निर्वर्त्याः, षष्ठस्तु मुमुक्षोः मुख्यः, तस्यापि द्वितीयाद्या नैमित्तिके यथासंभवम् अनुष्ठेया एव विधिपूरणार्थं च । तत्र बाह्यं स्थण्डिलम्, आनन्दपूर्णं वीरपात्रं, अरुणः पटः, पूर्वोक्त- मपि वा लिङ्गादि । तत्र स्नानादिकर्तव्यानपेक्षयैव पूर्णानन्दविश्रान्त्यैव लब्धशुद्धिः प्रथमं प्राणसंविद्देहैकीभावं भावयित्वा संविदश्च परमशिवरूप- त्वात् सप्तविंशतिवारं मन्त्रम् उच्चार्य मूर्ध-वक्त्र-हृद्गुह्य-मूर्तिषु अनुलोम- विलोमाभ्यां विश्वाध्वपरिपूर्णता परमेश्वरे अपरत्वे परापरत्वे परत्वेऽपि च । तथाहि—माया-पुं-प्रकृति-गुण-धी-प्रभृति धरान्तं सप्तविंशतित- त्त्वानि—कलादीनां तत्रैव अन्तर्भावात्, विद्याशक्तावपि परापरत्वे ब्रह्म- पञ्चकस्य सद्यस्त्वोजातातद्भवोद्भूतवादीनां धर्माणां सप्तविंशतिरूपत्वमेव उक्तं श्रीमत्कुलेशादिपादैः । परत्वेऽपि पञ्चशक्तिः हि परमेश्वरः, प्रति- शक्ति च पञ्चरूपता, एवं पञ्चविंशतिः शक्तयः, ताश्च अन्योन्यम् अनुद्भि- न्नविभागा इत्येका शक्तिः, सा चानुद्भिन्नविभागा—इत्येवं सप्तविंशति- रूपया व्याप्त्या संविदग्नेः शिखां बुद्धिप्राणरूपां सकृदुच्चारमात्रेणैव बद्धां कुर्यात्—येन परमशिव एव प्रतिबद्धो तद्व्यतिरिक्तं न किंचिदभिधावति, तथाविधबुद्धयधिष्ठितकरणचक्रानुवेधेन पुरोवर्तिनो यागद्रव्यगृहदिगा- धारादीनपि तन्मयीभूतान् कुर्यात्, ततोऽर्घपात्रमपि शिखाबन्धनव्याप्त्यैव पूरयेत् पूजयेच्च, तद्विप्रुड्भिः स्थण्डिलान्यपि तद्रसेन वामानामाङ्गुष्ठयो- गात् देहचक्रेषु मन्त्रचक्रं पूजयेत् तर्पयेत् च, ततः प्राणान्तः, ततः स्थण्डिले