तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 279, कुल 294 में से
संदर्भ में पढ़ें१९८ ] तन्त्रसार-अभिनवगुप्त [ आ. २२ त्रिशूलात्मकं शक्तित्रयान्तमासनं कल्पयेत्, मायान्तं हि सार्णे औकारे च शक्तित्रयान्तं तदुपरि याज्या विमर्शरूपा शक्तिः—इत्येवं सकृदुच्चा- रेणैव आधाराधेयन्यासं कृत्वा तत्रैव आधेयभूतायामपि संविदि विश्वं पश्येत्, तदपि च संविन्मयम्—इत्येवं विश्वस्य संविदा तेन च तस्याः संपुटीभावो भवति, संविद उदितं तत्रैव पर्यवसितं यतो विश्वं, वेद्याच्च संवित् उदेति तत्रैव च विश्राम्यति—इति एतावत्त्वं संवित्तत्त्वं संपुटी- भावद्वयात् लभ्यते। तदुक्तम् सृष्टिं तु संपुटीकृत्य.....................। इति। ततो गन्धधूपासवकुसुमादीन् आत्मप्रह्वीभावान्तान् अर्पयित्वा स्वविश्रान्त्या जप्त्वा उपसंहृत्य जले निक्षिपेत्। इति बाह्ययागः अथ शक्तौ, तत्र अन्योन्यं शक्तितालासावीराणाम्—उभयेषाम् उभयात्मकत्वेन प्रोल्लासप्रारम्भसृष्ट्यन्तशिवशक्तिप्रबाधे परस्परं व्या- पारात्, परमेशानितया च शुद्धरूपतया तत्र प्राधान्यम्, एतेन च विशिष्ट- चक्रस्यापि शक्तित्वं व्याख्यातम्, तत्र शिखाबन्धनव्याप्त्यैव पूजनं शक्ति- त्रयान्तमासनं कोणत्रये मध्ये विसर्गशक्तिः इति तु व्याप्तौ विशेषः। एवं स्वदेहे तत्रैव चक्रे ततो ब्रह्मरन्ध्राद्यनुचक्रेषु। अथ यामले शक्तेर्लक्षणमेतत् तद्द्बभेदस्ततोऽनपेक्ष्य वयः। जात्यादींश्चासङ्गात् लोकेतरयुगलजं हि तादात्म्यम्॥ कार्यहेतुसहोत्थत्वात्तैधं साक्षादथान्यथा। क्लृप्तान्नतो मिथोऽभ्यर्च्य तर्प्यानन्दान्तिान्तिकत्वतः॥ चक्रमर्च्चेत्तदौचित्यादनुचक्रं तथानुगम्। बहिः पुष्पादिनान्तश्च गन्धभुक्त्यासवादिभिः॥ एवमानन्दसन्दोहिततत्त्वचेष्टोच्छलत्स्थितिः। अनुचक्रगणश्चक्रतादात्म्यादभिलीयते॥ निजनिजभोगाभोगप्रविकासमयस्वरूपपरिमर्शो। क्रमशोऽनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति॥