तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 280, कुल 294 में से
संदर्भ में पढ़ेंआ. २२ ] तन्त्रसार-अभिनवगुप्त [ १९३ अनुचक्रदेवतात्मकमरीचिगणपूरणाधिगतवीर्यम् । तच्छक्तितद्वदात्मकमन्योन्यसमुन्मुखं भवति ॥ तद्युगलमूर्ध्वधामप्रवेशसस्पन्दजातसंक्षोभम् । क्षुभ्नात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु ॥ इत्थं यामलमेतद् गलितभिदासंकथं यदैव तदा । क्रमतारतम्ययोगात् सैव हि संविद्विसर्गसंघट्टः ॥ तद्ध्रुवधामानुत्तरमुभयात्मकजगदुदारमानन्दम् । नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् ॥ अनवच्छिन्नपदेप्सुस्तां संविदमात्मसात्कुर्यात् । शान्तोदितात्मकद्वयमथ युगपदुदेति शक्तिशक्तिमतोः ॥ स्वात्मान्योन्यावेशात् शान्तान्यत्वे द्वयोर्द्वयात्मकत्वात् । शक्तिस्तु तद्वदुदितां सृष्टिं पुष्णाति नो तद्वान् ॥ तस्यां चार्यं कुलमथ तया नृषु प्रोक्तयोगसंघट्टात् । अथ सृष्टे द्वितीयेऽस्मिन् शान्तोदितधाम्नि येऽनुसंदधते ॥ प्राच्यां विसर्गसत्तामनवच्छिदिते पदे रूढा । उदितं च मिथो वक्त्रात् मुख्याद्वक्त्र प्रगृह्यते च बहिः ॥ तृप्तं देवीचक्रं सिद्धिज्ञानापवर्गदं भवति । शान्ताभ्यासे शान्तं शिवमेति यदत्र देवताचक्रम् ॥ शून्यं निरानन्दमयं निर्वृतिनिजधामतोऽर्घं च । रणरणकरसान्निजरसभरितबहिर्भावचर्वणरसेन ॥ आन्तरपूर्णसमुच्छलदनुचक्रं याति चक्रमथ तदापे । उच्छलति प्राग्वदिति त्रिविधोऽन्वर्थो विसर्गोऽयम् ॥ एतद्विसर्गधामनि परिमर्शनतस्त्रिधैव मनुवीर्यम् । तत्तत्संविद्गर्भे मन्त्रस्तत्तत्फलं सूते ॥