भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 281, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 281

२०० ] तन्त्रसार-अभिनवगुप्त [ आ. २२ कोणत्रयान्तराश्रितनित्योदितमङ्गलच्छदे कमले । नित्यावियुतं नालं षोडशदलकमलसन्मूलम् ॥ मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ । मध्यस्थपूर्णशशधरसुन्दरदिनकरकरौघसंघट्टात् ॥ त्रिदलारुणवीर्यकलासङ्गान्मध्येऽङ्कुरसृष्टिः । इति शशधरवासरपतिचित्रगुसङ्घट्टमुद्रया झटिति ॥ सृष्ट्यादिक्रममन्तःकुर्वंस्तुर्ये स्थितिं लभते । एतत्खेचरमुद्रावेशेऽन्योन्यं स्वशक्तिशक्तिमतोः ॥ पानोपभोगलीलाहासादिषु यो भवेद्विमर्शमयः । अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः ॥ अव्युच्छिन्नानाहतपरमार्थैमन्त्रवीर्यं तत् । गमनागमविश्रान्तिषु कर्णे नयने द्विलक्षमसम्पर्के ॥ तत्संमीलनयोगे देहान्ताख्ये च यामले चक्रे । कुचमध्यहृदयदेशादोष्ठान्ते कण्ठगं यदव्यक्तम् ॥ तच्चक्रद्वयमध्यगमाकर्ण्य क्षोभविगमसमये यत् । निर्वान्ति तत्र चैवं योऽष्टविधो नादभैरवः परमः ॥ ज्योतिर्ध्वनिश्च यस्मात् सा मान्त्री व्याप्तिरुच्यते परमा । एवं कर्मणि कर्मणि विदुषः स्याज्जीवतो मुक्तिः । तज्ज्ञः शास्त्रे मुक्तः परकुलविज्ञानभाजनं गर्भः ॥ शून्याशून्यलयं कुर्यादेकदण्डेऽनलानिलौ । शूलं समरसीकृत्य रसे रसमिव स्थितम् ॥ त्यक्ताशङ्को निराचारो नाहमस्मीति भावयन् । देहस्था देवताः पश्यन् ह्लादोद्वेगादि चिद्धने ॥ कर्णाक्षिमूखनासादिचक्रस्थं देवतागणम् । ग्रहीतारं सदा पश्यन् खेचर्या सिध्यति ध्रुवम् ॥