भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 282, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 282

आ. २२ ] तन्त्रसार-अभिनवगुप्त [ २०१ श्वभ्रे सुदूरे झटिति स्वदेहं संपातयन्त्वासमसाहसेन । आकुञ्च्य हस्तद्वितयं प्रपश्यन् मुद्रामिमां व्योमचरीं भजेत ॥ इत्येष यामलयागः । उक्तव्याप्तिके प्राणे विश्वमये प्रोक्तसंविदाप्त्या तर्पणास्रग्गन्धधूपादिसमर्पणेन उपोद्वलनं प्राणयागः । विश्रान्तिरूढिस्तु संविद्यागः प्रागेव निरूपितः एवम् एतेभ्यो यागेभ्योऽन्यतमं कृत्वा यदि तथाविधनिर्विचिकित्सतापवित्रितहृदयः शिष्यो भवति तदा तस्मै तद्याग- दर्शनपूर्वकं तिलाज्याहुतिपूर्वकनिरपेक्षमेव पूर्वोक्तव्याप्त्या अनुसंधान- क्रमेण अवलोकनया दीक्षां कुर्यात्, परोक्षदीक्षादिके नैमित्तिकान्ते तु पूर्व एव विधिः—केवलम् एतद्यागप्रधानतया इति । गुरुशरीरे सप्तमः कुल- यागः सर्वोत्तमः, सोऽपि प्राग्यागसाहित्येन सकृदेव कृतः सर्वं पूरयति इति शिवम् । बाहोरि सत्तिदेहिणि अदेह इज्झामलि पाणदुद्धिगुरुबोधइ । जो अणुसंविदि सन्धि अरोह इसो पर इक्कुललद्धणि सोहइ ॥ इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे कुलयागप्रकाशनं नाम द्वाविंशमाह्निकम् ॥ २२ ॥ इत्थं षडर्धक्रमसंप्रदायं सप्रत्ययाप्रत्ययभिन्नमाप्य । श्रीशम्भुनाथात्करणारसेन स्वयं प्रसन्नादनपेक्षवृत्त्या ॥ काश्मीरिकोऽभिनवगुप्तपदाभिधानः श्रीतन्त्रसारमकरोदृजुना क्रमेण । यत्तेन सर्वजन एष शिवं प्रयातु लोकोत्तरप्रसरशांभवतन्त्रसारम् ॥ कृतिस्तत्रभवच्छ्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनव- गुप्तापादानाम् ।