तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 31, कुल 199 में से
संदर्भ में पढ़ें१२ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः न्यायबोधिनी रूपं लक्षयति—चक्षुरिति । चक्षुर्मात्रग्राह्यत्वविशिष्टगुणत्वं रूपस्य लक्षणम् । विशेष्यमात्रोपादाने रसादावतिव्याप्तिः, अतश्चक्षुर्मात्रग्राह्यत्व- विशेषणम् । तावन्मात्रोपादाने रूपत्वेऽतिव्याप्तिः । यो गुणो यदिन्द्रियग्राह्य- स्तन्निष्ठा जातिस्तदिन्द्रियग्राह्येति नियमात्, तद्वारणार्य विशेष्योपादानम् । चक्षुर्मात्रग्राह्यत्वं नाम चक्षुर्भिनेन्द्रियाग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम् । मात्रपदानुपादाने संख्यादिसामान्यगुणेऽतिव्याप्तिः चक्षुर्ग्राह्यत्वविशिष्टगुण- त्वस्य तत्रापि सत्त्वात्, अतस्तद्वारणार्य मात्रपदम् । सङ्ख्यादेश्चक्षुर्भिन्न- त्वगिन्द्रियग्राह्यत्वात् चक्षुर्मात्रग्राह्यत्वं नास्ति । अतीन्द्रियगुरुत्वादावति- व्याप्तिवारणाय चक्षुर्ग्राह्यँति । अत्र लक्षणे ग्राह्यत्वं नाम प्रत्यक्षविषय- त्वम् । अग्राह्यत्वं नाम तदविषयत्वम् । तथा च चक्षुर्भिनेन्द्रियजन्यप्रत्यक्षा- विषयत्वे सति चक्षुर्जिन्यप्रत्यक्षविषयत्वमिति फलितोऽर्थः । ननु प्रभाघटसंयोगे रूपलक्षणस्यातिव्याप्तिस्तस्य चक्षुर्मात्रग्राह्यगुणत्वा- दिति चेन्न, गुणपदस्य विशेषगुणपरत्वात् । न चैवं विशेषगुणत्वघटितलक्षणे सङ्ख्यादावतिव्याप्त्यभावान्मात्रपदवैयर्थ्यमिति वाच्यम्, जलमात्रवृत्तिसां- सिद्धिकद्रवत्वादावतिव्याप्तिवारणाय तदुपादानात् । अथवा चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य लक्षणत्वान्न प्रभाघटसंयोगादाव- तिव्याप्तिः, संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात् । घटपटसंयोगस्य त्वगि- न्द्रियग्राह्यत्वात् तद्गतजातेरपि त्वगिन्द्रियग्राह्यत्वात् । यो गुणो यदिन्द्रिय- ग्राह्यस्तन्निष्ठजातेरपि तदिन्द्रियग्राह्यत्वात् । अत्र जातिघटितलक्षणे गुणत्वानुपादाने चक्षुर्मात्रग्राह्यजातिमति सुवर्णादावतिव्याप्तिरतस्तद्- वारणाय तदुपादानम् । एवं रसादिलक्षणे विशेषणानुपादाने लक्ष्यभिन्न- गुणादावतिव्याप्तिः । विशेष्यानुपादाने लक्ष्यमात्रवृत्तिरसत्वगन्धत्वादावति- व्याप्तिः, अतो विशेषणविशेष्ययोरुभयोरुपादानम् । हिन्दी-कला रण के लिये 'इन्द्रियत्व' रूप विशेष्यपद का उल्लेख किया । आत्मा तो इन्द्रिय नहीं है । 'चक्षुर्मात्रग्राह्यत्व-विशिष्ट गुणत्व' यह रूप का लक्षण है। यहाँ यदि 'गुणत्व' इस विशेष्यमात्र का ग्रहण किया जाय तो रसादि में भी रूपलक्षण की अतिव्याप्ति हो जायगी । क्योंकि रसादि भी गुण है । इस दोष का निवारण करने के लिये 'चक्षु- र्मात्रग्राह्यत्व' विशेषण कहा । यदि यह विशेषणमात्र दिया जाय और 'गुणत्व' विशेष्य न कहा जाय तो रूपत्व में भी रूपलक्षण की अतिव्याप्ति होने लगेगी । क्योंकि "जो गुण जिस इन्द्रिय से ग्राह्य होता है, उसमें रहने वाली जाति भी उसी