उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 103, कुल 439 में से
संदर्भ में पढ़ें८६ उत्तररामचरितं [४-१ सौधातकिः—भो दण्डाअण किंणामधेओ एसो महन्तस्स ठविरंस- त्थस्स धुरंधरो अज्ज अदिदी आअदो । भो दाण्डायन किंनामधेय एष महतः स्थविरसार्थस्य धुरंधरोऽद्यातिथिरागतः । दाण्डायनः—धिम्प्रहसनम् । नन्वयमृष्यशृङ्गाश्रमादरुन्धतीपुरस्कृतान् महाराजदशरथस्य दारानधिष्ठाय भगवान्वसिष्ठः प्राप्तः । तत्किमेवं प्रलपसि । सौधातकिः—हुं वसिठ्ठो । हुं वसिष्ठः । दाण्डायनः—अथ किम् । सौधातकिः—मए उण जाणिदं वग्घो वा विक्खो वा एसोत्ति । मया पुनर्ज्ञातं व्याघ्रो वा वृको वैष इति । दाण्डायनः—आः किमुक्तं भवति । सौधातकिः—जेणे परावट्टिदेण जेव्व सा वराइं कबिला कल्लाणी मढ- मडाइदा । येन परापतितेनैव सा वराकी कपिला कल्याणी मडमडायिता ।- . दाण्डायन —समांसो मधुपर्क इत्याम्नायं बहुमन्यमानाः श्रोत्रियाया- भ्यागताय वत्सतरीं महोक्षं वा महाजं वा निर्वपन्ति गृहमेधिनः । तं हि धर्मं धर्मसूत्रकाराः समामनन्ति । सौधातकिः—भो णिग्गहीदोसि । भो निगृहीतोऽसि । दाण्डायनः—कथमिव । सौधातकिः—जेन आअदेसु वसिद्वमिस्सेसु वच्छदरी विससिदा। अज्ज जेव्व पंचाअदस्स राएसिणो अणअस्स भअवदा वग्मीइणा दहिमहूहिं जेव्व सत्तारावर्त्त. । ‘दाडी’ इति महाराष्ट्राः । लंगज्झाअ इत्यत्र ‘व्यङ्गोश’ इति झत्वम् ॥ भो दाण्डायन किंनामधेय इदानीमेष महत स्थविरसार्थस्य धुरन्धरोऽद्यातिथिरागत । दण्डायनस्यापत्यं दाण्डायनिः । सार्थः सङ्घः । प्रहास प्रकर्षेण हासम् । करोषीति शेष । अधिष्ठायेति-दारानुद्दिश्य अधि- ष्ठानं नियन्तृत्वमधिगम्येति यावत् । हुं वसिष्ठ । मया पुनर्ज्ञातं व्याघ्र वोऽ- प्येष इति । आः कोपे । किं प्रश्ने । येनागच्छतैव सा वराकी कपिला मड- १ 'भण्टाअण' घ-घ. २ 'इत्थिआसत्थवम' क-न. ३ 'अब्झ पीरभारओ' घ-घ ४ 'वग्घो विअ एशोत्ति' न, 'व्याघ्र, कोप्येष इति' टी. ५ 'तेण' घ-घ. ६ 'कल्लाणी मढामोदिअ' न. ७ एतन्नास्ति झ-पुस्तके. ८ 'पचन्ति' न. ९ 'मेधिन इति हि' घ-घ. १० 'पच्चागदस्स' ( पर्यागतस्य ) क-घ.