उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 108, कुल 439 में से
संदर्भ में पढ़ें४-६] उत्तररामचरितं ८९ प्रत्यग्र इव न मे दारुणो दुःखसंवेगः प्रशाम्यति । अयि मातर्देवयजनसं- भवे सीते ईदृशस्ते निर्माणभागः परिणतो येन लज्जया स्वच्छन्दमाक्रन्दितु- मपि न शक्यते । हा पुत्रि भगवति वसुन्धरे सत्यमतिदृढासि । अनियतरुदितस्मितं विराज- त्कतिपयकोमलदन्तकुङ्मलाग्रम् । वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमञ्जु जल्पितं ते ॥ ४ ॥ त्वं यन्मिर्मुुनयो वसिष्ठगृहिणी गङ्गा च यत्त्वा विदु- र्माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः । विद्यां वागिव यामसूत भवतीं तद्वस्तु या दैवतं तस्यास्त्वद्दुहितुस्तथा विशसनं किं दारुणेऽमृष्यथाः ॥ ५॥ (नेपथ्ये) इत इतो भगवतीमहादेव्यौ । जनकः—(दृष्ट्वा) अये गृष्टिनोपदिष्टसन्निमार्गा भगवत्यरुन्धती । ( वलाय ) कां पुनर्महादेवीत्याह । (निरूप्य) हा हा कथमियं महाराज- दशरथस्य धर्मदाराः प्रियसखी मे कौसल्या । क ऐतद्यह्येति सैवेयमिति । आसीदियं दशरथस्य गृहे यथा श्रीः श्रीरेव वा किमुपमानपदेन सैषा । तथा च सुतृप्त्यभावाद्युक्तमेवेदं देहं पतत्विति भावः ॥ ननु बालघात- कियतामत आह-प्रत्येति । 'इतीत्थमवेन्त्वित्थम्' इति चङ्ग्रूपः । प्रति- क्षणं परिभावनायाः निरस्तारम् । दृष्टनिर्माणः स्वभावतः वलाद् । प्रत्यग्रः नूतनः । भागः अंशः । येन कारणेन । अनियतमिति ॥ ४ ॥ कुङ्ग्मलाः मुकुला । कमलकं स्वार्थे कः । स्मरन्तिवं इति वा पाठः ॥ ४ ॥ दृढा निष्ठुरा ॥ त्वमिति ॥ ५ ॥ यदि संभावनायाम् । कुलगुरुर्वसिष्ठः । वाक् सरस्वती । तथा नृशंसनं मारणप्रस्त्रावाद्यपवादिनित्यर्थः । अमृ- ष्यथाः असहथाः इति यावत् ॥ ५ ॥ भगवतो च देवी च भगवती- देव्यौ । देवी कृताभिषेकायाम्' इत्यमरः । महादेवी इति भ्रान्तः पाठः । 'जगन्माता महादेवी भवानी त्रिपुरेश्वरी' इत्यागमतन्त्रोक्त्या महादेवीति नाम्नः परदेवतायामेवोचिततया अन्यत्र सम्भवेऽप्यधार्ंसंभवात् । 'पुंभूम्नि दाराः' इत्यमरः । प्रत्येति विश्वसिति ॥ आसीदियं दशरथस्येति ॥ १ 'मुग्ध' प-घ. २ 'गृष्टि गयापा.' न. ३ 'पद्मा' न-क.