भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 109, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 109

९० उत्तररामचरितं [ ४-८ कष्टं यतान्यदिव दैववशेन जाता दुःखात्मकं किमपि भूतमहो विपाकः ॥ ६ ॥ य एव मे जनः पूर्वमासीन्मूर्तो महोत्सवः । क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनम् ॥ ७ ॥ ( ततः प्रविशत्यरुन्धती कौसल्या कञ्चुकी च । ) अरन्धती--ननु ब्रवीमि द्रष्टव्यः स्वयमुपेत्यैव वैदेह इत्येष वः कुलगु- रोरादेशः । अत एव चाहं प्रेषिता । तत्कोऽयं पदे पदे महाननध्यवसायः । कञ्चुकी—देवि संस्तम्भात्मानमनुरुध्यस्व भगवतो वसिष्ठस्यादेशमिति विज्ञापयामि । कौसल्या--ईरिसे काले मिहिलाहिवो मए दिट्ठव्वो त्ति समं जेव्व सव्वाइं दुक्खाईं समुब्भवन्ति । ता ण सक्कुणोमि उव्वट्टमाणमूलबन्धणं हिअअं पज्जवस्थावेदुम् । [ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वाणि दुःखानि समुद्भवन्ति । तन्न शक्नोम्युद्वर्त्तमानमूलबन्धनं हृदयं पर्यवस्था- पयितुम् । अरुन्धती--अत्र कः सन्देहः । निवृत्ता यद्येते त्ति सन्तानवाहिन्यपि मानुषाणां दुःखानि सम्बन्धिवियोगजानि । ॥ ६ ॥ पदेन फलेन । कष्टं खेदकरि । चिन्तात्मकं चिन्तास्वरूपम् । अन्यत् जगद्विलक्षणम् । किमपि भूतं जन्तुरिव जाता बतेत्यर्थः । 'कष्टं त्रिषु स्यात्खेदकारिनि' इत्यमरमाला । अत एव 'कष्टा रन्ध्रव्यथा वत्थ' इति मुरारिः । 'चिन्ता हृदयसन्ताप' इति, 'भूतं क्ष्मादौ च जन्तौ च' इति, 'वतानुकम्पने' इति हैमविश्वहडावुभा । अहो विपाकः विरुद्धपरिणाम इति यावत् । अत्र युक्तायुक्तास्तावदवगमनभ्रान्तिभ्या शिरसि दोलायन्ते ॥ ६ ॥ य एव मे जन इति ॥ ७ ॥ जनः कौसल्या । 'स्त्रीपुंसी कथयेज्जनः' इति काव्यदीपिकायां दण्डी व्याजहार ॥ ७ ॥ गुरोर्वसिष्ठस्य । अध्यवसायः निश्चय । पदे पदे इत्यनेन प्रतिक्षणं भिन्नभिन्न इति व्यज्यते । संस्तभ्य स्थिरीकृत्य । अनुरुध्यस्व अनुवर्त्तस्व ॥ ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखानि समुद्भवन्ति । तस्मान्न शक्नोमि उद्वर्त्तमानमूल- बन्धनं हृदयं व्यवस्थापयितुम् । समं युगपत् । उद्वर्त्तमानं चेष्टमानं मूल- १ 'विकार' न. २ अस्मात्पूर्वं 'अवमपरः पापो दशाविपर्यास.' इत्यधिकं क-घ-पुस्तक्रयोः । ३ 'महानध्यवसाय.' न-टी. ४ 'उप्पट्टमाण' घ-घ. ५ 'सकण्णु' क-घ-घ.