उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 43, कुल 439 में से
संदर्भ में पढ़ें२४ उत्तररामचरितं [ १-३४ आ विवाहसमयाद्गृहे वने शैशवे तदनु यौवने पुनः । स्वापहेतुरनुपाधितोऽनया रामबाहुरुपधानमेष ते ॥ ३७ ॥ सीता-( निद्रां नाटयन्ती । ) अत्थि एदम् । अय्यउत्त अत्थि एदं । ( इति स्वपिति । ) अस्त्येतदार्यपुत्र अस्यैतत् । रामः-कथं प्रियवचना मे वक्षसि प्रसुप्तैव । ( निर्वर्ण्य ) इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः । अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि' परमसह्यस्तु विरहः ॥ ३८ ॥ प्रविश्य । प्रतीहारी-देव उवड्ठिदो । देव उपस्थितः । रामः-अपि क. । प्रतीहारी-आसण्णपरिआरओ देवस्स दुम्मुहो । आसन्नपरिचारको देवस्य दुर्मुखः । रामः-( स्वगतम् ) शुद्धान्तचारी दुर्मुखः । स मया पौरजानपदेष्वप- सर्पः प्रहितः । ( प्रकाशम् ) आगच्छतु । ( प्रतीहारी निष्क्रान्ता । ) प्रविश्य । दुर्मुखः-( स्वगतम् ) हा कहं दाणिं देविं अन्तरेण ईदिसं अचिन्तणिज्जं जणाववादं देव्वस्स कहइस्सं । अथवा णिओओ क्खु मे एरिसो वक्तव्ये 'लखरिअ' इति प्रमादः ॥ म्लानस्य जीवकुसुमस्येति ॥ ३६ ॥ जीवः समुद्धारणम् । विकासनानि विकासकराणि । इति यथोचितमूह्यम् । पद्येऽस्मिन् ममेत्यध्याहारः ॥ ३६ ॥ प्रियंवद एहि सविशाव । अपिः समा- वनायाम् ॥ आ विवाहसमयादिति ॥ ३७ ॥ वने दण्डकावने । अस्यान्त- तोऽन्वयः ॥ ३७ ॥ आर्यपुत्र एतदस्ति । निर्वर्ण्य दृष्ट्वा ॥ इयं गेहे ल- क्ष्मीरिति ॥ ३८ ॥ अमृतरूपा अञ्जनवर्तिरिव भावः । मसृणः स्निग्धः । अस्याः किं न प्रेयः सर्वं प्रेय इत्यर्थः । तु किन्तु । विरहो यदि विरह- श्वेत् परं अत्यन्तम् । असह्यः ॥ ३८ ॥ देव उपस्थितः । विरह इति च पूर्वेणान्वयः । आसन्नपरिचारको देवस्य दुर्मुखः । शुद्धान्तं अन्तःपुरम् । अपसर्पः चरश्मन् ॥ हा कथमिदानीं सीतादेवीमन्तरेणैदृशमचिन्तनीयं ज- नापवादं देवाय कथयिष्यामि । अथवा नियोगः खलु मे मन्दभाग्यस्यैषः । हा आर्यपुत्र क्वासि । सौजन्यं चिन्तनेति यावत् ॥ सौजन्यं वर्णयति ॥ १ 'यदि पुनरसह्यो न' इति क-थे. २ 'जानपदानपसर्पितुं' ग-क-घ.