वैशेषिक दर्शन (प्रशस्तपाद भाष्य सहित)
Vaisheshika Darshan with Prashastapada Bhashya
महर्षि कणाद / महर्षि प्रशस्तपाद द्वारा
स्रोत: चौखम्बा संस्कृत सीरीज · चौखम्बा संस्कृत सीरीज · 1950 (उद्गम)
पृष्ठ 61, कुल 759 में से
संदर्भ में पढ़ेंसंशोधकनिवेदनम्
[प्रथमसंस्करणस्य] श्रीमद्भिर्गवेषणालयनिदेशकैः डॉ० भागीरथप्रसादत्रिपाठि-(वागीशः शास्त्री) महा- भागैराज्ञप्तेन मया न्यायकन्दलीटीकायुतस्यास्य प्रशस्तपादभाष्यग्रन्थस्य यथाशक्यं यथा- शीघ्रं च पुनर्मुद्रणक्षमं संशोधनं विहितम्। यद्यप्यत्र न्यायकन्दल्यां तत्सहकृत-हिन्दीभाषानुवादे चानुच्छेदादिव्यवस्था नास्ति समीचीना, अतः पाठकानां सौविध्याय आपेक्षिकानुच्छेदादिविधेरवश्यम्भावादपि ग्रन्थस्य मुद्रणप्रकाशनशैघ्यविधिसम्भवात् पुनः पूर्वसदृश एवायं ग्रन्थः संस्कृतः; तथापि समेषां भाष्य-कन्दली-भाषानुवादानां प्रतीकानुसारं पृष्ठबन्धने ऐकरूप्या- पादनाय यत्र तत्र यथासम्भवं कियत्प्रयासस्तरसो कृतोऽपि। ग्रन्थेऽस्मिन् संशोधनविधिकर्मणा सप्ततिपृष्ठे (पृ. ७०) 'प्रशस्तपादभाष्यम्' इत्यस्योपरि अथ द्रव्यपदार्थनिरूपण् इति नूतनं शीर्षकं विधाय 'पृथिवी-प्रकरणम्' इत्युपशीर्षकात् पूर्वं स्वल्पस्थानभावाद् द्रव्येषु-इतिकर्तव्यस्थाने केवलं 'द्रव्ये' इति पदं योजितम्। तथैव गुणपदार्थनिरूपण-प्रकरणे पञ्चाशदुत्तर-द्विशततमपृष्ठतः (पृ. २५०) ग्रन्थोपरिशीर्षकात् पूर्वं गुणेषु-इतिकर्तव्यस्थाने केवलं 'गुणे' इति पदं योजितम्। एकचत्वारिंशदुत्तर-सप्तशततमपृष्ठे (पृ. ७४१) उपरि मुद्रितं 'प्रशस्त- पादभाष्यम्' पदं मुद्रिताद् अथ सामान्यपदार्थनिरूपणम् शीर्षकादधः कृतम्। तथैव पञ्चषष्ट्युत्तरसप्तशतपृष्ठे (पृ. ७६५) मुद्रितं 'प्रशस्तपादभाष्यम्' पदं मुद्रिताद् अथ विशेषपदार्थनिरूपणम् शीर्षकात्, तथा त्र्यधिकसप्तत्युत्तर-सप्तशततमपृष्ठे (पृ. ७७३) मुद्रिताद् अथ समवायपदार्थनिरूपणम् शीर्षकाच्चाधः कृतम्। प्रतीकानुसारं च केषाञ्चित् प्रशस्तपादभाष्यांशानां न्यायकन्दल्यांशानां च पृष्ठ- परिवर्तनम् - यथा सप्तपञ्चाशदुत्तर-षट्शततमपृष्ठे (पृ. ६५७) मुद्रितः 'स्थितिस्थापकस्तु... घनावयवसन्नि....' भाष्यांशोऽष्टपञ्चाशदुत्तर-षट्शततमपृष्ठे (पृ. ६५८) कृतः, तद्धिन्दीभाषानुवादोऽपि तत्रैव विहितः। नवपञ्चाशदुत्तर-षट्शततमपृष्ठे (पृ. ६५९) मुद्रितः 'धर्मः पुरुषगुणः....... विशुद्धाभिसन्धिजः' भाष्यांशः षष्ट्युत्तर-षट्शततमपृष्ठे (पृ. ६६०) परिवर्तितः। तथात्रस्थः (पृ. ६६०) 'समवेतमसमवायिकारणं स स्थितिस्थापकः' इत्यादि- कन्दल्यंशो नवपञ्चाशदुत्तर-षट्शततमपृष्ठे (पृ. ६५९) कन्दल्यंशे निवेशितः। पञ्चषष्ट्युत्तर-षट्शततमपृष्ठे (पृ. ६६५) 'तत्र समान्यानि.....विशिष्टदेवता- भक्तिरुपवासोऽप्रसादश्च' इति भाष्यांशः सर्वत्रैव भाषानुवादेन सह षट्षष्ट्युत्तर-षट्- शततमपृष्ठे (पृ. ६६६) कृतोऽर्थसंवादात्। तथात्रस्थः (पृ. ६६६) 'ब्राह्मण- क्षत्रियवैश्यानाम्......संस्काराः' भाष्यांशः सप्तषष्ट्युत्तर-षट्शततमपृष्ठे (पृ. ६६७) परिवर्तितः।