वैशेषिक दर्शन (प्रशस्तपाद भाष्य सहित)
Vaisheshika Darshan with Prashastapada Bhashya
महर्षि कणाद / महर्षि प्रशस्तपाद द्वारा
स्रोत: चौखम्बा संस्कृत सीरीज · चौखम्बा संस्कृत सीरीज · 1950 (उद्गम)
विषयानुक्रमणिका ५९ अविद्याभेदनिरूपणम् (भा.) .... .... ४११ अविनाभावपदार्थनियामककथने सौगतमतम् (टी.) .... .... ४९२ अविनाभावस्मरणस्यानुमानाङ्गत्वप्रदर्शनम् (भा.) .... .... ४९१ अव्याप्यवृत्तिगुणकथनम् (भा.) .... .... २४७ असत्कार्यव्यवस्थापनम् (टी.) .... .... ३४२ असत्कार्यवादे विप्रतिपत्तिपूर्वकं सत्कार्यवादकथनम् (टी.) .... .... ३३९ असमवायिकारणगुणकथनम् (भा.) .... .... २४४ असमानजात्यारम्भकगुणकथनम् (भा.) .... .... २४० आकाशकालदिगात्मनां साधर्म्यकथनम् (भा.) .... .... ५८ आकाशनिरूपणम् (भा.) .... .... १४३ आकाशात्मनां साधर्म्यकथनम् (भा.) .... .... ६५ आकाशे प्रमाणम् (भा.) .... .... १४४ आकुञ्चननिरूपणम् (भा.) .... .... ७०० आत्मनित्यत्वेऽनिर्मोक्षाभावप्रकारः (टी.) .... .... २१५ आत्मनिरूपणम् आत्मसिद्धौ प्रमाणानि च (भा.) .... .... १६७ आत्मनः क्षणिकत्ववादनिरासः (टी.) .... .... १७५ आत्मसमवेतानां प्रत्यक्षे कारणकथनम् (भा.) .... .... ४६३ आत्मस्वरूपनिरूपणम् (टी.) .... .... ६९० आत्मैकत्ववादनिरासः (टी.) .... .... २१० आर्षज्ञाननिरूपणम् (भा.) .... .... ६२७ आश्रमिणां धर्महेतुनिरूपणम् (भा.) .... .... ६६८ आश्रयनाशाद् द्वित्वादिनाशः (भा.) .... .... २८६ आश्रयव्यापिगुणकथनम् (भा.) .... .... २९४ इच्छानिरूपणम् (भा.) .... .... ६३४ इन्द्रियकथनम् (भा.) .... .... ४४२ इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनम् (टी.) .... .... ६० ईश्वरस्याष्टगुणाधिकरणत्वम् (टी.) .... .... १४२ ईश्वरस्यैकानेकत्वविचारः (टी.) .... .... १४१ ईश्वरस्य क्लृप्तद्रव्यान्तर्गतत्वम् (टी.) .... .... २६ ईश्वरस्य नित्यमुक्तत्वकथनम्, ईश्वरस्य षड्गुणाश्रयत्वमतं च (टी.) .... १४२ ईश्वरे प्रमाणोपन्यासः (टी.) .... .... १३३ उत्क्षेपणनिरूपणं कर्मविभागश्च (भा.) .... .... ६९९ उत्क्षेपणादौ गमनव्यवहारस्य भाक्त्वकथनम् उद्देशादिलक्षणम् (टी.) .... ६९
६० प्रशस्तपादभाष्यम् उपमानस्य शब्देऽन्तर्भावकथनम् (भा.) .... .... ५३० उभयकारणताश्रयगुणकथनम् (भा.) .... .... २४६ एकादिप्रत्ययस्य रूपादिविषयत्वमतखण्डनम् (टी.) .... .... २६८ एकैकवृत्तिगुणकथनम् (भा.) .... .... २३० एकैकेन्द्रियग्राह्यगुणकथनम् (भा.) .... .... २३१ ऐतिह्यस्यानुमानेऽन्तर्भावकथनम् (भा.) .... .... ५५८ कणादशब्दार्थकथनम् (टी.) .... .... ४ कर्मजगुणकथनम् (भा.) .... .... २३९ कर्मणां जातिव्यञ्जकत्वव्यवस्थापने शङ्कासमाधिः (भा.) .... .... ७१ कर्मनिरूपणम् (भा.) .... .... ६९७ कर्मप्रत्यक्षे विप्रतिपत्तिनिराकरणम् (टी.) .... .... ४४० कामादीनामिच्छायामन्तर्भावकथनम् (भा.) .... .... ६३५ कारणगुणपूर्वकगुणकथनम् (भा.) .... .... २३६ कारणत्वञ्चान्यत्र पारिमाण्डल्यादिभ्यः (भा.) .... .... ४७ कारणवतां कार्यत्यानित्यत्वे (भा.) .... .... ४६ कालकृतपरत्वापरत्वोत्पत्तिकथनम् (भा.) .... .... ३९७ कालनिरूपणम्, सर्वकार्याणामुत्पत्तिस्थितिविनाशहेतुत्वम्, क्षणादिव्यवहारहेतुः, तद्गुणकथनम् (भा.) .... .... १५५ कृतदारविद्याव्रतस्नातकानां धर्महेतुनिरूपणम् (भा.) .... .... ६६९ क्रियाहेतुगुणकथनम् (भा.) .... .... २४४ क्रोधादीनां द्वेषान्तर्भावकथनम् (भा.) .... .... ६३७ गन्धनिरूपणम् (भा.) .... .... २५५ गमनस्य कर्मत्वापर्यायकथनम् (भा.) .... .... ७०९ गमनस्य कर्मत्वपर्यायत्वे विशेषसंज्ञाया गमनग्रहणस्य फलम् (भा.) .... ७१० गमननिरूपणम् (भा.) .... .... ७०० गन्धशून्यत्वं सलिलादीनाम् (टी.) .... .... ७४ गुणनिरूपणारम्भः, तेषां निर्गुणत्वं निष्क्रियत्वम् (भा.)... .... २२७ गुणविभागो रूपरसादिभेदेन (भा.) .... .... २६ गुणस्य निर्गुणत्वे निष्क्रियत्वे युक्तिः (टी.) .... .... २२८ गुणादीनां पञ्चानां निर्गुणत्वनिष्क्रियत्वे (भा.) .... .... ४३ गुरुत्वनिरूपणम् (भा.) .... .... ६४० गुरुत्वस्य त्वगिन्द्रियग्राह्यतावादिमतखण्डनम् (टी.) .... .... ६४० ग्रन्थकारवंशवर्णनादिकम् (टी.) .... .... ७८७
विषयानुक्रमणिका ६१ ग्रन्थोपसंहारः (भा.) .... .... ७८६ घ्राणस्य पार्थिवत्वे प्रमाणम् (टी.) .... .... ८८ घ्राणे प्रमाणकथनम् (टी.) .... .... ८८ चक्षुषस्तैजसत्वकथनम् (टी.) .... .... ९९ चित्ररूपयुक्तिकथनम् (टी.) .... .... ७५ चेष्टाया अनुमानेऽन्तर्भावकथनम् (भा.) .... .... ५२९ जलनिरूपणम्, तद्गुणकथनम्, तस्य द्वैविध्यम्, अनित्यस्य त्रैविध्यम् (भा.) .... ९० जलस्य शुक्लरूपादिमत्त्वे युक्तिः (टी.) .... .... ९२ जले द्रवत्वात् कर्मोत्पत्तिः (भा.) .... .... ७२८ ज्ञाततावादनिराकरणम् (टी.) .... .... २२३ ज्ञानपूर्वकाद्धर्मादपवर्गकथनम् (भा.) .... .... ६८९ ज्ञानस्य आत्मसमवेतत्वव्यवस्थापनम् (टी.) .... .... २३५ ज्ञानस्य विषयसंवेदनानुमेयत्वमतखण्डनम् (टी.) .... .... २३४ ज्ञानस्य शरीराद्याश्रयत्वनिरासः (भा.) .... .... १७१ तमसो भावरूपत्वम् (टी.) .... .... २६ तमसो द्रव्यान्तरत्वयुक्तिखण्डनम् (टी.) .... .... २१ तर्कज्ञानस्य चतुर्विधाविद्यायामन्तर्भावविचारः (टी.) .... .... ४१५ तेजसो नैमित्तिकद्रवत्ववत्त्वे युक्तिः (टी.) .... .... ६७ तेजोनिरूपणम्, तद्गुणकथनम्, तस्य द्वैविध्यम्, अनित्यस्य त्रैविध्यम् (भा.) .... ९७ त्रिपुटीप्रत्यक्षतामतनिराकरणम् (टी.) .... .... २२१ त्र्यणुककारणनिरूपणम् (टी.) .... .... ८० त्वगिन्द्रियस्य वायुत्वम् (टी.) .... .... ११२ दिक्कालयोः सर्वोत्पत्तिनिमित्तत्वसाधनम् (टी. ) .... .... ६६ दिक्कालयोः साधर्म्यकथनम् (भा.) .... .... ६५ दिङ्निरूपणम्, तद्गुणकथनम्, तस्याः प्राच्यादिभेदाः (भा.) .... १६२ दीर्घत्वमहत्त्वयोर्ह्रस्वत्वाणुत्वयोश्च विशेषकथनम् (भा.) .... ३३० दुःखनिरूपणम् (भा.) .... .... ६३३ द्रवत्वनिरूपणम्, द्रवत्वविभागादिश्च (भा.) .... .... ६४१ द्रव्यत्वादीनामपरसामान्यत्व-विशेषसामान्यत्वकथनम् (भा.) .... ७४६ द्रव्यनाशजपरत्वापरत्वनाशोदाहरणम् (भा.) .... ...... ४०३ द्रव्यविभागः पृथिव्यादिभेदेन (भा.) .... .... २० द्रव्यसंयोगनाशजपरत्वापरत्वनाशोदाहरणम् (भा.) .... .... ४०६ द्रव्यातिरिक्तसंख्यासाधनम् (टी.) .... .... २७०
६२ प्रशस्तपादभाष्यम् द्रव्यादिपदार्थोद्देशक्रमनियमे युक्तिः (टी.) .... १७ द्रव्यादीनां त्रयाणां सत्तावत्त्वे बाधकनिरासः (टी.) .... ४४ द्रव्यादीनां त्रयाणां सत्तावत्त्वं सामान्यविशेषवत्त्वं स्वसमय्यार्थशब्दाभिधेयत्वं धर्माधर्मकर्तृत्वम् (भा.) .... ४४ द्रव्यादीनां पञ्चानामनेकत्वं समवायित्वं च (भा.) .... ४२ द्रव्योपेक्षाबुद्धिविनाशजपरत्वापरत्वनाशोदाहरणम् (भा.).... .... ४०४ द्रव्याश्रितत्वमन्यत्र नित्यद्रव्येभ्यः नित्यद्रव्याणामनाश्रितत्वं च (भा.).... .... ४८ द्वित्वसद्भावे विप्रतिपन्नानां तार्किकानां मतखण्डनम् (टी.) .... २९५ द्वित्वसामान्यज्ञाने प्रमाणम् (टी.) .... २७६ द्वित्वादेरपेक्षाबुद्धिनाशनाश्यत्वे क्षणनियमः (भा.) .... २७२ द्वित्वादेर्बुद्धिजन्यत्वे युक्तिः (टी.) .... २७५ द्वीन्द्रियग्राह्यगुणकथनम् (भा.) .... २३२ द्वेषनिरूपणम् (भा.) .... ६३७ द्वयणुककारणनिरूपणम् (टी.) .... ७९ धर्मनिरूपणम् (भा.) .... ६५९ धर्मविनाशप्रकारः (टी.) .... ६६४ धर्मस्य निःश्रेयसहेतुत्वकथनम् (भा.) .... १८ धर्मस्वीकारे युक्तिप्रदर्शनम् (टी.) .... ६६० ध्वन्यात्मकशब्दोत्पत्तिविधिः (भा.) .... ६९५ निदर्शननिरूपणं तद्विभागः (भा.) .... ५९८ निदर्शनाभासनिरूपणम् (भा.) .... ५९९ निमित्तकारणगुणकथनम् (भा.) .... २४६ निर्णयनिरूपणं निर्णयविभागश्च (भा.) .... ६२२ निष्क्रमणत्वप्रवेशनत्वयोः कर्मान्तरत्वखण्डनम् (भा.) .... ७०४ नैमित्तिकद्रवत्वोत्पत्तिप्रकारः (भा.) .... ६४४ पञ्चानां कर्मणां गमनत्वकथनम् (भा.) .... ७०१ पदानामर्थबोधकत्वप्रकारकथनम् (टी.) .... ५६१ पदार्थानां सामान्यविशेषलक्षणानि (टी.) .... ४० परत्रारम्भकाणां गुणानां कथनम् (भा.) .... २४२ परत्वापरत्वनिरूपणम् (भा.) .... ३९३ परत्वापरत्वविनाशकारणनिर्वचनम् (भा.) .... ३९९ परमह्रस्वत्वपरमदीर्घत्वपरिमाणस्वीकर्तृमतम् (टी.) .... ३२१ परमाणुपरिमाणस्य कारणतामतखण्डनम् (टी.) .... ३२८
विषयानुक्रमणिका ६३ परमाणुसद्भावे युक्तिः (टी.) .... .... ७८ परापरसामान्यनिरूपणम् (भा.) .... .... ७४१ परार्थानुमानकथनम् (भा.) .... .... ५५८ परार्थानुमाने पूर्वपक्षनिरासः (टी.) .... .... ५६४ परिमाणनिरूपणम्, तस्य चातुर्विध्यम्, महद् द्विविधम्, अण्वपि द्विविधम्, अनित्यपरिमाणमपि चतुर्विधम् (भा.) .... .... ३१४ परिमाणस्य द्रव्यातिरिक्तत्वव्यवस्थापनम् (टी.) .... .... ३१६ पाणिमुक्तेषु गमननिरूपणम् (भा.) .... .... ७१८ पिठरपाक (परमाणुसंयोगजपाक) वादनिराकरणम् (टी.) .... .... २६० पीलुपाक (पूर्वव्यूहनाशाद् व्यूहान्तरोत्पत्तिपूर्वकपाक) वादिमतपरिष्कारः (टी.) .... २६३ पूर्वरूपनाशे प्रमाणोपन्यासः (टी.) .... .... २५९ पृथक्त्वनिरूपणम् (भा.) .... .... ३३२ पृथिवीजलयोः साधर्म्यकथनम् (भा.) .... .... ६४ पृथिवीजलात्मनां साधर्म्यकथनम् (भा.) .... .... ६५ पृथिवीतेजसोः साधर्म्यकथनम् (भा.) .... .... ६७ पृथिवीनिरूपणम्, पृथिव्या गुणानां कथनम्, तस्या द्वैविध्यम्, अनित्यायास्त्रैविध्यम् (भा.) ७० पृथिवीपरमाणुरूपादीनां पाकजोत्पत्तिविधानम् (भा.) .... २५७ पृथिव्यप्तेजोवायुमनसां पृथिव्युदकज्वलनपवनात्ममनसां च साधर्म्यकथनम् (भा.) ५६ पृथिव्यादीनां चतुर्णां साधर्म्यकथनम् (भा.) .... .... ६३ पृथिव्यादीनां त्रयाणां साधर्म्यकथनम् (भा.) .... .... ६३ पृथिव्यादीनां नवानां साधर्म्यकथनम्, द्रव्यत्वयोग इत्यादिना (भा.) .... ५४ पृथिव्यादीनां परत्वापरत्ववत्त्वे बाधकनिरासः (टी.) .... .... ५७ पृथिव्यादीनां पञ्चानां साधर्म्यकथनम् (भा.) .... .... ५९ पृथिव्यामभिघातात् कर्मोत्पत्तिः (भा.) .... .... ७२६ प्रतिज्ञाया उदाहरणम् (भा.) .... .... ५६६ प्रतिज्ञालक्षणम् (भा.) .... .... ५६५ प्रत्यक्षनिर्णयकथनम् (भा.) .... .... ६२२ प्रत्यक्षनिर्णयोदाहरणम् (भा.) .... .... ६२४ प्रत्यक्षनिरूपणम्, प्रत्यक्षप्रकारकथनं च (भा.) .... .... ४४२ प्रत्यक्षानुमानयोर्विरोधे बलाबलकथनम् (टी.) .... .... ३७४ प्रत्यक्षे मानमितिममेयमातृणां विभागः (भा.) .... .... ४७१ प्रत्याम्नायनिरूपणम् (भा.) .... .... ६११ प्रत्याम्नायोदाहरणम्, प्रत्याम्नायावयवस्थानुमानाङ्गत्वे शङ्कासमाधानं च (भा.) ६१२
६४ प्रशस्तपादभाष्यम् प्रयत्ननिरूपणम्, प्रयत्नविभागादिकथनं च (भा.) .... .... ६३८ प्रव्रजितस्य धर्महेतुनिरूपणम् (भा.) .... .... ६७२ प्रसारणनिरूपणम् (भा.) .... .... ७०० प्राणस्य वायुत्वम् (भा.) .... .... १२० बुद्धिनिरूपणं बुद्धिभेदनिरूपणं च (भा.) .... .... ४१० बुद्धिविभागः, तस्य द्वैविध्यं विद्याविद्याभेदेन अविद्यापि चतुर्धा इत्यादिनिरूपणम् (भा.) .... .... ४११ बुद्धेरन्तःकरणग्राह्यत्वमतखण्डनम् (टी.) .... .... २३२ बुद्धिरपेक्षगुणकथनम् (भा.) .... .... २३९ ब्राह्मणादीनां प्रत्येकं धर्महेतुकथनम् (भा.) .... .... ६६६ भावनाख्यसंस्कारनिरूपणम् (भा.) .... .... ६४७ भावस्याभावकार्यत्वे विप्रतिपत्तिनिराकरणम् (टी.) .... .... ३४५ भूतात्मनां साधर्म्यकथनम् (भा.) .... .... ६४ भ्रमणादीनां गमनेऽन्तर्भावः, तानि च भ्रमणरेचनस्यन्द- नोर्ध्वज्वलनतिर्यक्पतननमनोन्नमनादीनि (भा.) .... २८ मङ्गलश्लोकव्याख्या, मङ्गलस्य सफलत्वसाधनं च (टी.) .... .... २ मङ्गलाचरणम् (भा.) .... .... १ मनसि कर्मकथनम् (भा.) .... .... ७३५ मनसि प्रमाणोपन्यासः, मनोनिरूपणं तद्गुणनिरूपणं च (भा.) .... २१६ मनसो ज्ञातृत्वनिराकरणम् (टी.) .... .... २२५ मनोबहुत्वव्यवस्थापनम् (टी.) .... .... २२१ महोदयशब्दार्थः, तत्र तैर्थिकानां बौद्धादीनां च मतभेदः (टी.) .... ६ महोदयाभिधेयापवर्गस्य पारम्पर्येणास्मिन्निबन्धे हेतुत्वकथनम् (टी.) .... ६ मुक्तेर्ज्ञानमात्रजन्यत्वं कर्मसमुच्चितज्ञानजन्यत्वं वेति मतयोर्विवेकः (टी.) ..... ‘६८३ मुक्तेः पुरुषार्थत्वसाधनम् (टी.) .... .... १७ मुनिशब्दार्थकथनम् (टी.) .... .... ४ मूर्तगुणकथनम्, मूर्तामूर्तगुणकथनं च (भा.) .... .... २२९ मोक्षक्रमनिरूपणम् (टी.) .... .... ६७४ यन्त्रमुक्तेषु गमननिरूपणम् (भा.) .... .... ७२० यावद्द्रव्यभाविगुणकथनम् (भा.) .... .... २४९ युगत्पलितयकारणनाशजपरत्वापरत्वनाशोदाहरणम् (भा.) .... ४०९ योगिनामतीन्द्रियार्थज्ञाने विपरीतानुमाने दोषकथनम् (टी.) .... ४६८ योगिप्रत्यक्षकथनम् (भा.) .... .... ४६४
विषयानुक्रमणिका ६५ रसनिरूपणम् (भा.) .... .... २५४ रसनेन्द्रियस्याप्यत्वम् (टी.) .... .... ९६ रूपद्रव्यतादात्म्यमतखण्डनम् (टी.) .... .... २५३ रूपनिरूपणम् (भा.) .... .... २५१ रूपस्य आश्रयनाशनाश्यत्वे युक्तिः (टी.) .... .... २५२ रूपादिषु प्रत्यक्षोत्पत्तिकारणकथनम् (भा.) .... .... ४५९ रूपादिंसंज्ञायां बीजकथनम् (भा.) .... .... २५० लक्षणस्य प्रयोजनम् (टी.) .... .... ७१ लिङ्गलक्षणम् (भा.) .... .... ४७८ लिङ्गलक्षणेऽतिव्याप्तिनिरासे मतविशेषनिरासपूर्वकस्वमतव्यवस्थापनम् (टी.) .... ४८२ लिङ्गाभासकथनम् (भा.) .... .... ४८० लिङ्गाभासे सूत्रकारस्य विशेषमतोपन्यासः (भा.) .... .... ४९० लैङ्गिकलक्षणम् (भा.) .... .... ४७६ वर्णात्मकशब्दोत्पत्तिविधिः (भा.) .... .... ६९३ वर्णाश्रमिणां सामान्यरूपेण धर्महेतुकथनम् (भा.) .... .... ६६५ वाक्यस्यार्थप्रत्यायकत्वे स्फोटवादनिराकरणारम्भः (टी.) .... .... ६५० वानप्रस्थानां धर्महेतुनिरूपणम् (भा.) .... .... ६७१ वायुनिरूपणम् तद्गुणकथनम्, तस्य द्वैविध्यम्, अनित्यस्य त्रैविध्यम् (भा.) १११ वायोरप्रत्यक्षत्वकथनं वाय्वनुमानप्रकारश्च (टी.) .... .... ११६ वायौ कर्मोत्पत्तिकथनम् (भा.) .... .... ७३३ विज्ञानवादिमतखण्डनम् (टी.) .... .... २६८ विद्याविभागः (भा.) .... .... ४४१ विपर्ययनिरूपणम् (भा.) .... .... ४२३ विपर्ययास्वीकर्तृमतम् (टी.) .... .... ४३० विपर्ययास्वीकर्तृमतखण्डनम् (टी.) .... .... ४३१ विभागजगुणकथनम् (भा.) .... .... २३९ विभागनिरूपणम् (भा.) .... .... ३६३ विभागलक्षणम् (भा.) .... .... ३६४ विभागविनाशः (भा.) .... .... ३८२ विभागजविभागादिः (भा.) .... .... ३६५ विभुद्वयसंयोगमतखण्डनम् (भा.) .... .... ३६० वियुक्तप्रत्यक्षकथनम् (भा.) .... .... ४६५ विशेषणविशेष्ययोरेकज्ञानालम्बनत्वे बाधकम् (टी.) .... .... २७६
६६ प्रशस्तपादभाष्यम् विशेषपदार्थनिरूपणम् (भा.) .... .... ३६ विशेषपदार्थनिरूपणम् (भा.) .... .... ७६५ विशेषस्य द्रव्याद्यतिरिक्तत्वनिरूपणम् (भा.) .... .... ७६९ विषयभोगजसुखस्य क्षणिकत्वादिकथनम् (टी.) .... .... १६ विहितनित्यकर्मकरणस्य प्रत्यवायहेतुत्वे विप्रतिपत्तिनिरासः (टी.) .... .... ६८३ वेगस्य गुणान्तरत्वे युक्तिः (टी.) .... .... ५८ वेगोत्पत्तिप्रकारः (भा.) .... .... ६४६ वैधर्म्यनिदर्शनलक्षणं वैधर्म्यनिदर्शनोदाहरणं च (भा.) .... .... ५९९ वैशेषिकगुणकथनम् (भा.) .... .... २३० शक्तेः पदार्थान्तरत्वखण्डनम् (टी.) .... .... ३४३ शब्दादीनामनुमानेऽन्तर्भावकथनम् (भा.) .... .... ५१२ शब्दनिरूपणम् (भा.) .... .... ६९२ शब्दविभागः (भा.) .... .... ६९३ शब्दस्य श्रोत्रग्राह्यत्वप्रकारः (भा.) .... .... ६९४ शब्दस्यार्थप्रतिपादकत्वे विप्रतिपत्तिनिराकरणम् (टी.) .... .... ३१५ शरीरस्य पाञ्चभौतिकत्वनिरासः (टी.) .... .... ९५ शास्त्रारम्भः (भा.) .... .... १५ शुक्तिरजतप्रतीतेरलौकिकवस्तुविषयकत्वखण्डनम् (टी.) .... .... ४३३ शौर्यादीनां गुणेष्वन्तर्भावकथनम्, ते च शौर्यौदार्यकारुण्यदाक्षिण्यौग्र्यादयः (टी.) २७ श्रोत्रस्य नभोदेशत्वम् (टी.) .... .... १५४ षण्णां पदार्थानां साधर्म्यनिरूपणम् (भा.) .... .... ४१ सत्कार्यवादखण्डनम् (टी.) .... .... ३३९ सत्तानिरूपणम् (टी.) .... .... ३१ सत्तासामान्यस्थापनम् (भा.) .... .... ७४३ सञ्चत्यकर्मकथनम् (भा.) .... .... ७१३ सन्निकृष्टविप्रकृष्टयोः परस्पराभावरूपत्वमतखण्डनम् (टी.) .... .... ३९६ समवायः, द्रव्यादिसाधर्म्यं च (भा.) .... .... ३७ समवायनिरूपणम् (भा.) .... .... ७७३ समवायसद्भावे प्रमाणम् (भा.) .... .... ७७४ समवायस्य द्रव्याद्यतिरिक्तत्वम् (भा.) .... .... ७७६ समवायस्य नित्यत्वम् (भा.) .... .... ७८२ समवायस्य संयोगभिन्नत्वम् (भा.) .... .... ७७५ समवायस्यानुमेयत्वम् (भा.) .... .... ७८५
विषयानुक्रमणिका ६७ समवायस्याप्रत्यक्षत्वम् (भा.) .... .... ७८४ समवायस्यैकत्वम् (भा.) .... .... ७७७ समानजात्यारम्भकगुणकथनम् (भा.) .... .... २४० समानाधिकरणारम्भकगुणकथनम् (भा.) .... .... २४२ समानासमानजात्यारम्भकगुणकथनम् (भा.) .... .... २४१ सम्बन्धप्रयोजनकथनफलम् (टी.) .... .... ५ सम्भवस्यानुमानेऽन्तर्भावादिकथनम् (भा.) .... .... ५४२ सविकल्पकप्रत्यक्षान्तर्भूतकल्पनापदार्थविचारः (टी.) .... .... ४५२ सलिलादीनां गन्धशून्यत्वकथनम् (टी.) .... .... ७४ साधर्म्यनिदर्शनलक्षणं साधर्म्यनिदर्शनोदाहरणं च (भा.).... .... ५९८ साधर्म्यवैधर्म्यप्रकरणारम्भः (भा.) .... .... ४१ साधर्म्यवैधर्म्यशब्दार्थकथनम् (टी.) .... .... १६ सामान्यगुणकथनम् (भा.) .... .... २३१ सामान्यनिरूपणम् (भा.) .... .... ७४१ सामान्यविभागादिः परमपरमित्यादिना (भा.) .... .... २९ सामान्यस्य द्रव्याद्यतिरिक्तत्वव्यवस्थापनम् (भा.) .... .... ७४८ सामान्यादिषु सामान्याभावकथनम् (टी.) .... .... ४९ सामान्यादीनामकृतकत्वे युक्ति (टी.) .... .... ५१ सामान्यादीनां त्रयाणां साधर्म्यकथनं स्वात्मसत्त्वं बुद्धिलक्षणत्वम् अकार्यत्वमकार- णत्वमसामान्यविशेषवत्त्वं नित्यत्वमर्थशब्दानभिधेयत्वं च (भा.) .... ४९ सिद्धदर्शनस्य विद्यान्तरत्वखण्डनम् (भा.) .... .... ६२९ सुखनिरूपणम् (भा.) .... .... ६३० सुखस्य दुःखाभावरूपतावादिमतखण्डनम् (टी.) .... .... ६३३ सुखादीनां ज्ञानात्मकत्वमतनिरासः (टी.) .... .... २१८ सुरभिचन्दनप्रत्यक्षस्य चक्षुर्घाणोभयजन्यत्वमतखण्डनम् (टी.) .... .... २७६ सुवर्णादीनां रूपस्पर्शव्यतिरिक्तद्रव्यत्वसाधनम् (टी.) .... .... १०२ सुवर्णादिस्तैजसत्वसाधनम् (टी.) .... .... ६७ सृष्टिसंहारविधिः (भा.) .... .... १२१ सौगतमतम् अविनाभावपदार्थनियामककथनम् (टी.) .... .... ४९२ सौगतमतखण्डनम् अनुमाने (टी.) .... .... ४९४ संख्यानिरूपणम् (भा.) .... .... २६७ संख्येयनाशेऽपि संख्याव्यवहारोपपत्तिः (टी.) .... .... २८३ संयुक्तप्रत्ययनिमित्तत्वेन संयोगसिद्धौ विप्रतिपत्तिनिरासः (टी.) .... ३३५
६८ प्रशस्तपादभाष्यम् संयोगजगुणकथनम् (भा.) .... .... २३८ संयोगनाशकथनम् (भा.) .... .... ३६१ संयोगनाशजपरत्वापरत्वनाशोदाहरणम् (भा.) .... ४०१ संयोगनिरूपणं तस्य त्रैविध्यादिकम् (भा.) .... ३३५ संयोगलक्षणं संयोगस्यान्यतरकर्मजादिविभागादिश्च (भा.) .... ३४७ संयोगापेक्षाबुद्धिनाशजपरत्वापरत्वनाशोदाहरणम् (भा.) .... ४०८ संयोगाभावातिरिक्तविभागकथनम् (टी.) .... ३६२ संशयनिरूपणं संशयभेदकथनं च (भा.) .... .... ४११ संशयस्य प्रत्ययत्वे विप्रतिपत्तिनिराकरणम् (टी.) .... .... ४२० संस्कारनिरूपणं तद्विभागश्च (भा.) .... .... ६४६ संस्कारात् संयोगाःविभागपूर्वककर्मोत्पत्तिः (भा.) .... .... ७३१ संस्कारातिशयहेतुकथनम् (टी.) .... .... ६४७ स्थितिस्थापकनिरूपणम् (भा.) .... .... ६५७ स्पर्शनिरूपणम् (भा.) .... .... २५६ स्फोटवादनिराकरणम् (टी.) .... .... ६५० स्मृतिनिरूपणम् (भा.) .... .... ६२५ स्नेहनिरूपणम् (भा.) .... .... ६४५ स्वतन्त्रपरमाणुषु पाकजोत्पत्तौ प्रमाणम् (टी.) .... .... २५९ स्वप्ननिरूपणं स्वप्नविभागादिश्च (भा.) .... .... ४३६ स्वप्रकाशवादखण्डनम् (टी.) .... .... २३५ स्वार्थानुमाननिरूपणम् (भा.) .... .... ५१० स्वाश्रयसमवेततदन्योभयारम्भकगुणकथनम् (भा.) .... .... २४२ हेत्वाभासनिरूपणम् (भा.) .... .... ५७६
प्रशस्तपादाचार्यप्रणीतं प्रशस्तपादभाष्यम् [ पदार्थधर्मसङ्ग्रहाख्यम् ] श्रीधरभट्टकृत- न्यायकन्दलीव्याख्योपेतम् श्रीदुर्गाधरझाकृत-हिन्दीभाषानुवादसहितम् प्रशस्तपादभाष्यम् प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः । पदार्थधर्मसङ्ग्रहः प्रवक्ष्यते महोदयः ॥ (सभी जन्यपदार्थों के) कारण ईश्वर को प्रणाम करने के पश्चात् कणाद मुनि को प्रणाम करके 'महोदय' अर्थात् मोक्ष देनेवाले 'पदार्थ- धर्मसङ्ग्रह' नाम के ग्रन्थ को लिख रहा हूँ। न्यायकन्दली अनादिनिधनं देवं जगत्कारणमीश्वरम् । प्रपद्ये सत्यसङ्कल्पं नित्यविज्ञानविग्रहम् ॥ १ ॥ ध्यानैकतानमनसो विगतप्रचाराः पश्यन्ति यं कमपि निर्मलमद्वितीयम् । ज्ञानात्मने विघटिताखिलबन्धनाय तस्मै नमो भगवते पुरुषोत्तमाय ॥ २ ॥ आदि और विनाश से रहित एवं जगत् के निमित्तकारण, तथा जिनके संकल्प कभी विफल नहीं होते, नित्यविज्ञानस्वरूप उन परमेश्वर की शरण को मैं प्राप्त होऊँ ॥ १ ॥ सभी दोषों से रहित एवं सांसारिक सभी वस्तुओं से सर्वथा विलक्षण जिस वस्तु को योगिगण एकाग्र होने पर देखते हैं, सभी बन्धनों से शून्य, ज्ञान-स्वरूप उन भगवान् पुरुषोत्तम को मैं प्रणाम करता हूँ ॥ २ ॥
२ न्यायकन्दलीसंवल्लितप्रशस्तपादभाष्यम् [ मङ्गलाचरण- न्यायकन्दली शास्त्रारम्भेऽभिमतां देवतां शास्त्रस्य प्रणेतारं गुरुञ्च श्लोकस्य पूर्वार्द्धेन नमस्यति- प्रणम्येति । कर्म्मारम्भे हि देवता गुरवश्च नमस्क्रियन्ते इति शिष्टाचारोऽयम् । फलं च नमस्कारस्य विघ्नोपशमः । न तावदयमफलः, प्रेक्षावद्भिरनुष्ठेयत्वात् । अन्यफलोऽपि न कर्म्मारम्भे नियमेनाऽनुष्ठीयेत, अविघ्नेनप्रारीप्सितपरिसमाप्तेस्तदानीमपेक्षितत्वात्, फलान्तर- स्यानभिसंहितत्वाच्च । ननु किं नमस्कारादेव विघ्नोपशमः ? उत अन्यस्मादपि भवति ? न तावन्नमस्कारा- देवेत्यस्ति नियमः, अस्त्यपि नमस्कारे न्यायमीमांसाभाष्ययोः परिसमाप्तत्वात् । यदा चान्यस्मादपि तदा नियमेनोपादानं निरुपपत्तिकम् । अत्रोच्यते-नमस्कारादेव विघ्नोपशमः, कर्म्मारम्भे सद्भिर्नियमेन तस्योपादानात् । न च न्यायमीमांसाभाष्यकाराभ्यां न कृतो नमस्कारः, किन्तु तत्राऽनुपनिबद्धः । शास्त्र के आदि में इष्टदेवता तथा शास्त्र के रचयिता और अपने गुरु कणाद मुनि को "प्रणम्य" इत्यादि श्लोक के पूर्वार्द्ध से नमस्कार किया गया है । किसी कार्य्य के आरम्भ में देवता और गुरु को नमस्कार करना शिष्टजनों का आचार है । इसका फल विघ्नों का नाश (ही) है । यह निष्फल तो हो नहीं सकता, क्योंकि शिष्टों से आचरित है । विघ्नों के नाश को छोड़कर और (स्वर्गादि) फल भी इसके नहीं हो सकते, क्योंकि उस दशा में शास्त्रों के आरम्भ में ही नियम से इसका अनुष्ठान नहीं होता । एवं मङ्गलाचरण के समय "ग्रन्थ निर्विघ्न समाप्त हो जाय" यही मङ्गलाचरण करनेवाले को अभिप्रेत भी होता है । दूसरे (स्वर्गादि) फल वहाँ उपस्थित भी नहीं हैं । (प्रश्न) (१) विघ्नों का विनाश नमस्कार से ही होता है ? या (२) और भी किसी कारण से ? यह नियम तो नहीं है कि नमस्कार से ही विघ्नों का नाश हो, क्योंकि न्यायभाष्य और मीमांसाभाष्य दोनों ही निर्विघ्न समाप्त हैं, यद्यपि उनमें नमस्कार नहीं है । अगर नमस्कार को छोड़कर और भी किसी कारण से विघ्नों का नाश हो सकता है तो फिर ग्रन्थ के आरम्भ में नमस्कार करना ही चाहिए, यह नियम युक्ति-शून्य हो जाता है । (उत्तर) उक्त प्रश्न के समाधान में कहना है कि नमस्कार से ही विघ्नों का नाश होता है, क्योंकि सभी कार्यों के आरम्भ में शिष्टों ने नियम से मङ्गलाचरण किया है, न्यायभाष्यकार और मीमांसाभाष्यकार इन दोनों ने मंगलाचरण नहीं किया है, यह बात नहीं है, किन्तु उन लोगों ने अपने मङ्गलाचरण को अपने ग्रन्थों में लिखा नहीं है ।
प्रकरणम्] भाषानुवादसहितम् ३
प्रकरणम्] भाषानुवादसहितम् ३ न्यायकन्दली कथमेषा प्रतीतिरिति चेत् ? कर्तुः शिष्टतयैव । अस्तु वा तावदपरः । प्रेक्षावान् म्लेच्छोऽपि तावद् गुर्वारम्भे कर्म्मणि न प्रवर्त्तते यावदिष्टान्न नमस्यति । यदिमौ परमास्तिकौ पक्षिलशबरस्वामिनौ नानुतिष्ठत इत्यसम्भावनमिदम् । अक्षराथों व्याह्रियते-प्रणम्येति । प्रकर्षवाचिना प्रशब्देन भक्तिश्रद्धातिशयपूर्वकं नमस्कारमाचष्टे । स हि धर्म्मोत्पादकस्तिरत्यन्तरायबीजं नापरः । अत एव कृतनमस्कारस्यापि कादम्बर्यादेरपरिसमाप्तिः, विशिष्टनमस्काराभावात् तद्वैशिष्ट्यस्य कार्य्यगम्यत्वात् । अत्रैव च नमस्कारः क्रियमाणोऽपि करिष्यमाणपदार्थधर्म्मसङ्ग्रह- प्रवचनापेक्षया पूर्वकाल भावीति क्त्वाप्रत्ययेनाभिधीयते तदेकवाक्यतामापादयितुम्, न तस्य पूर्वकालमात्रतामनूद्यते, अनुवादे वा प्रयोजनाभावात् । हेतुमिति निर्विशेषणेन हेतुपदेन सर्वोत्पत्तिमतां निमित्ततां प्रतिजानीते । ईश्वरमिति विशिष्टदेवताया अभिधानम्, लोके तद्विषयत्वेनैवस्य पदस्य प्रसिद्धेः, लोकप्रसिद्धार्थाेपसङ्ग्रहत्यादस्य शास्त्रस्य । मुनिमिति (प्रश्न) यह कैसे समझा जाय ? (उत्तर) उन लोगों की शिष्टता से ही । अथवा और भी इसका हेतु हो सकता है । किन्तु बुद्धिमान् म्लेच्छ भी इस प्रकार के बड़े कामों में तब तक प्रवृत्त नहीं होता है, जब तक अपने इष्टदेवता को नमस्कार न कर ले । फिर परम आस्तिक पक्षिलस्वामी(वात्स्यायन) और शबरस्वामी ग्रन्थनिर्माण से पूर्व मङ्गलाचरण न करें, यह बात सम्भावना के बाहर है । मङ्गल-श्लोक में प्रयुक्त प्रत्येक पद की व्याख्या करते हैं । 'प्रणम्य' पद में प्रयुक्त प्रकर्षवाची 'प्र' शब्द से भक्ति और श्रद्धा से युक्त नमस्कार का बोध होता है । वही (भक्ति-श्रद्धापूर्वक) नमस्कार धर्म्मजनक होकर विघ्नों को मूल सहित नष्ट करता है, भक्ति और श्रद्धा से रहित नमस्कार नहीं । इसीलिए कादम्बरी प्रभृति ग्रन्थों में नमस्कार होने पर भी समाप्ति नहीं हुई । नमस्कार में भक्तिश्रद्धायुक्तत्व का अभाव कार्य्य से ही समझा जा सकता है । नमस्कार भी यद्यपि इस ग्रन्थ में ही किया जा रहा है, तथापि आगे प्रतिपादित की जानेवाली वस्तु की अपेक्षा वह पहले है । मङ्गलग्रन्थ और वस्तुविवेचनग्रन्थ दोनों में एकवाक्यता लाने के अभिप्राय से 'क्त्वा' प्रत्यय का प्रयोग किया गया है । इससे मङ्गल-ग्रन्थ में विषय-ग्रन्थ से पूर्वकालतामात्र अभिप्रेत नहीं है, क्योंकि उसका यहाँ कोई प्रयोजन नहीं है । बिना विशेषण के केवल 'हेतु' शब्द से ईश्वर में सभी उत्पत्तिशील वस्तुओं की कारणता समझायी गई है, यहाँ 'ईश्वर' शब्द विशेष प्रकार के देवता का वाचक है, क्योंकि लोक में ईश्वर शब्द इसी अर्थ में प्रसिद्ध है एवं यह शास्त्र और लोक में प्रसिद्ध अर्थों का ही विवेचक है । उग्र तपस्या और सभी विषयों के यथार्थ ज्ञान से युक्त जिस व्यक्ति का अज्ञानरूप अन्धकार विशुद्ध आत्मज्ञानरूप
४ न्यायकन्दलीसंबलितप्रशस्तपादभाष्यम् [ मङ्गलाचरण- न्यायकन्दली शुद्धात्मज्ञानप्रदीपक्षपिततमसमत्युग्रतपसं साक्षादशेषतत्त्वावबोधयुक्तं पुरुषविशेषमाह, इत्थ- म्भूत एवार्थे मुनिशब्दस्य लोके दर्शनात् । कणादमिति तस्य कापोतीं वृत्तिमनुतिष्ठतो रथ्यानिपतितांस्तण्डुलकणानादाय प्रत्यहं कृताहारनिमित्ता संज्ञा । अत एव "निरवकाशः कणान् वा भक्षयतु" इत्युपालम्भस्तत्रभवताम् । इदं हि तस्य नामेति तच्छब्दसङ्कीर्त्तनं कृतं प्रशस्तदेवेन, न त्वियं तदुपनिबन्धवैशिष्ट्यख्यापनाय युक्तिरभिहिता,तदुपनिबन्धवैशिष्ट्यस्य मन्वादिवाक्यवन्महाजनपरिग्रहादेव प्रतीतेः । न चास्य कणादशास्त्रस्थापनेन किञ्चित् प्रयोजनमस्ति । तावता तत्पूर्वकस्य ग्रन्थस्य वैशिष्ट्यसिद्धिरिति चेन्न, अवश्यं तत्पूर्वकत्वेन स्वग्रन्थस्य वैशिष्ट्यसिद्धिः, कर्तृदोषेणाऽयथार्थस्यापि निबन्धस्य सम्भावनास्पदत्वात् । सम्भावित- प्रामाण्ये प्रशस्तदेवे पुरुषदोषाणामसम्भव इति चेत्? एवं तर्हि यथा कणाददर्शिनां तच्छिष्याणां पुरुषप्रत्ययादेव तथात्वनिश्चयात् तदुपनिबन्धे प्रवृत्तिः, अपरेषाञ्च पुरुषान्तर- संवादात् । एवं प्रशस्तदेवकृतोपनिबन्धेऽपि तच्छिष्याणामपरेषाञ्च प्रवृत्तिर्भविष्यतीति नार्थस्तत्पूर्वकत्वस्थापनेन । प्रदीप से नष्ट हो गया है, वही विशिष्ट पुरुष मुनि शब्द से अभिप्रेत है, क्योंकि इसी प्रकार के अर्थ में मुनि शब्द का प्रयोग लोक में देखा जाता है । उन (शास्त्रकर्त्ता) का यह 'कणाद' नाम रास्ते में गिरे हुए अन्न-कणों को कपोत की तरह चुन-चुन कर आहार करने का कारण है । अत एव उनके खण्डन-ग्रन्थों में जहाँ तहाँ "अब कोई उपाय न रहने के कारण कणों को खाइये" यह आक्षेपयुक्त उक्ति उनके लिए देखी जाती है । यह (कणाद) इनका नाम है, इसीलिए प्रशस्तदेव ने 'कणाद' शब्द का प्रयोग किया है, अपने ग्रन्थ में ख्याति दिखलाने की दृष्टि से नहीं । इस निबन्धरूप वाक्यों के वैशिष्ट्य की प्रतीति मनु इत्यादि स्मृतिकारों के वाक्य की तरह महापुरुषों के इसके अनुसार चलने से ही हो जाती है । यह निबन्ध कणादकृत शास्त्रमूलक है, यह प्रसिद्ध करने का कोई प्रयोजन भी नहीं है । (प्र.) इस प्रसिद्धि से ग्रन्थ में उत्कर्ष की सिद्धि होगी । (उ.) यह ठीक है कि इस प्रसिद्धि से ग्रन्थ में उत्कर्ष की सिद्धि होगी, किन्तु कर्त्ता के दोष से उत्कृष्ट निबन्ध में भी वैशिष्ट्य संशयास्पद हो जाता है । (प्र.) प्रशस्तदेव में प्रामाण्य निश्चित है, अतः उनमें पुरुष-दोष की सम्भावना नहीं है । (उ.) अगर ऐसी बात है तो फिर जैसे (कणादरूप) पुरुष में प्रामाण्य-निश्चय के कारण कणाददर्शन के अनुगामी उनके शिष्यों की प्रवृत्ति उनके ग्रन्थ के अध्ययन में होती है, एवं औरों की प्रवृत्ति उन प्रवृत्त पुरुषों की सफलता सुनकर होती है,उसी प्रकार उनके शिष्यों की एवं औरों की भी प्रवृत्ति इस ग्रन्थ के अध्ययन में भी होगी । तस्मात् "यह निबन्ध कणादसूत्रमूलक है" इसे प्रसिद्ध करने का कोई प्रयोजन नहीं है ।
प्रकरणम् ] भाषानुवादसहितम् ५
प्रकरणम् ] भाषानुवादसहितम् ५ न्यायकन्दली किमर्थं तर्हि कणादर्षेर्नमस्कारः ? विघ्नोपशमायेत्युक्तम्, यथेश्वरस्य नमस्कारः । सोऽपि हि न तत्पूर्वकत्वख्यापनाय, व्यभिचारात् । यस्य हि या देवता स तां प्रणम्य सर्वकर्म्माणि प्रस्तौति, न कर्म्मणस्तत्पूर्वकत्वेन, भक्तिश्रद्धामात्रनिबन्धनत्वात्रमस्कारस्य । यथा मीमांसावार्त्तिककृता नमस्कृतः सोमावतंसः । न च तत्पूर्विका मीमांसेत्यस्ति प्रवादः । अन्विति ईश्वरप्रणामादनन्तरतां कणादप्रणामस्य परामृशति, ईश्वरमादौ प्रणम्य ईश्वर- प्रणामादनु पश्चात् कणादं प्रणम्येत्यर्थः । सम्बन्धप्रयोजनयोरनभिधाने श्रोता न प्रवर्त्तते, प्रयोजनाधिगतिपूर्वकत्वात् सर्व- प्रेक्षावत्प्रवृत्तेः । तस्याप्रवृत्तौ च शास्त्रं कृतमकृतं स्यात् । अतः शास्त्रारम्भमादधानः प्रेक्षावत्प्रवृत्त्यङ्गं तस्य सम्बन्धं प्रयोजनञ्चादौ श्लोकस्योत्तरार्द्धेन कथयति- पदार्थधर्म्मत्यादि । पदार्था द्रव्यादयः षट्, तेषां धर्म्माः साधारणासाधारणस्वभावाः संगृह्यन्ते संक्षेपेणाभिधीयन्तेऽनेनेति पदार्थधर्म्मसङ्ग्रहः । प्रवक्ष्यत इति । पदार्थधर्म्माणाम् (प्र.) फिर कणाद ऋषि को ही नमस्कार करने की क्या आवश्यकता है ? (उ.) यह कहा जा चुका है कि ईश्वर को नमस्कार करने की तरह कणाद ऋषि को नमस्कार करना भी विघ्नों के नाश के लिए ही है, ग्रन्थ में इस प्रसिद्धि के लिए नहीं कि यह ग्रन्थ कणादकृत-ग्रन्थमूलक है, क्योंकि यह नियम व्यभिचरित है । जिसके जो देवता हैं, उनको नमस्कार करके ही वह व्यक्ति अपने सभी कामों को आरम्भ करता है । (कोई भी) "सभी काम उस देवतामूलक हैं" इस अभिप्राय से अपने इष्टदेवता को प्रणाम नहीं करता है । नमस्कार तो केवल भक्ति-श्रद्धामूलक है । जैसे मीमांसावार्त्तिककार (कुमारिलभट्ट) ने सोमावतंस (शिव) को नमस्कार किया है, किन्तु इससे कोई यह नहीं कहता कि मीमांसा सोमावतंसकृत है । 'अन्वतः' यह पद "ईश्वरप्रणाम के बाद कणाद ऋषि को प्रणाम करते हैं" इस आनन्तर्य को दिखाता है । अभिप्राय यह है कि पहले ईश्वर को प्रणाम कर 'अनु' अर्थात् उसके बाद कणाद ऋषि को प्रणाम करके इस ग्रन्थ को आरम्भ करते हैं । (वक्तव्य विषय के साथ ग्रन्थ का) सम्बन्ध और (ग्रन्थ सुनने के) प्रयोजन को न कहने से श्रोता (ग्रन्थ को सुनने में) प्रवृत्त नहीं होते हैं, क्योंकि बुद्धिमान् व्यक्ति प्रयोजन को बिना समझे हुए किसी भी काम में प्रवृत्त नहीं होते। वे अगर इस शास्त्र को पढ़ने या सुनने में प्रवृत्त न होंगे तो इसका निर्माण होना न होने के बराबर होगा । इसलिए शास्त्र को आरम्भ करते हुए (प्रशस्तदेव ने) बुद्धिमान् व्यक्तियों की प्रवृत्ति में कारणीभूत 'सम्बन्ध' और 'प्रयोजन' इन दोनों को 'पदार्थधर्म्मसङ्ग्रहः' इत्यादि कथित श्लोक के उत्तरार्द्ध से दिखलाते हैं । जिसमें पदार्थ अर्थात् द्रव्यादि छः वस्तुएँ और उनके साधारण और असाधारण स्वभाव 'संगृहीत' हों अर्थात् संक्षेप से कहे जायँ, यही "पदार्थधर्म्मसङ्ग्रहः" शब्द का अर्थ है । 'प्रवक्ष्यते' इस पद से "मैं पदार्थों और
६ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् [ मङ्गलाचरण- न्यायकन्दली संक्षेपेणाभिधायको ग्रन्थः प्रकृष्टो मया वक्ष्यत इति ग्रन्थकर्त्तुः प्रतिज्ञा । ग्रन्थस्य चेयं प्रकृष्टता यदन्यत्र ग्रन्थे विस्तरेणेतस्ततोऽभिहितानामिहैकत्र तावतामेव पदार्थधर्म्माणां ग्रन्थे संक्षेपेण कथनम् । एतदेव चास्यारम्भः सत्स्वप्युपनिबन्धनान्तरेषु पदार्थधर्म्माणां सङ्ग्रहः पदार्थधर्म्मप्रतीतिहेतुः । पदार्थधर्म्मप्रतीतिश्च न पुरुषार्थः, सुखदुःखाप्तिहान्योः पुरुष- प्रयोजकत्वात् । तस्मादयमपुरुषार्थहेतुत्यादनुपादेय एवेत्याशङ्क्य तस्य पुरुषार्थफलतां प्रतिपादयितुमुक्तं महोदय इति । महानुदयो महत्फलमपवर्गलक्षणं यस्मात् सङ्ग्रहादसौ महोदयः सङ्ग्रहः । एतेन सङ्ग्रहस्य पदार्थधर्म्मैः सह वाच्यवाचकभावः, तत्प्रतिपत्त्या च महोदयेन सह साध्यसाधनभावः सम्बन्धो दर्शितः । ननु भोः क एष महोदयो नाम ? (१) सवासनसमुच्छेदो ज्ञानोपरम इत्येके । तथा च पठन्ति-न प्रेत्य संज्ञास्तीति । तदयुक्तम्, सर्वतः प्रियतमस्यात्मनः समुच्छेदाय प्रेक्षावत्प्रवृत्त्यनुपपत्तेः, बन्धविच्छेदपर्यायस्य मुक्तिशब्दस्यातदर्थत्वाच्च । उनके धर्मों को संक्षेप में प्रतिपादित करनेवाले उत्तम ग्रन्थ को कहूँगा" ग्रन्थकार की ऐसी प्रतिज्ञा प्रतीत होती है । इस ग्रन्थ में और ग्रन्थों से उत्तमता यही है कि अन्य ग्रन्थों में जहाँ तहाँ विस्तृत रूप से कहे गये पदार्थ इस ग्रन्थ में एक ही स्थान में संक्षेप से कहे गये हैं । इसीलिए और निबन्धों के रहते हुए भी इसकी रचना सार्थक है । (प्र.) "पदार्थधर्म्माणां सङ्ग्रहः" इस वाक्य का अर्थ है, पदार्थों और उनके धर्मों की सम्यक् प्रतीति का कारण, किन्तु पदार्थों की या उनके धर्मों की सम्यक् (यथार्थ) प्रतीति तो पुरुष का अभीष्ट नहीं है, क्योंकि पुरुष (जीव) का यथार्थ अभीष्ट तो सुख प्राप्ति एवं दुःख की निवृत्ति ये ही दोनों हैं । तस्मात् यह ग्रन्थ पुरुष के अभीष्ट का सम्पादक न होने के कारण अनुपादेय ही है । यही प्रश्न (मन में) रखकर (इसके उत्तर स्वरूप) "यह ग्रन्थ पुरुष के उक्त प्रयोजन का सम्पादक है" यह कहने के लिए "महोदयः" यह पद लिखा है । "महान् उदय" अर्थात् अपवर्ग (मोक्ष) रूप महान् फल जिस सङ्ग्रह से हो वही "महोदय सङ्ग्रह" है । इससे इस 'सङ्ग्रह' रूप ग्रन्थ का पदार्थ और उनके धर्मों के साथ कार्यकारणभाव सम्बन्ध दिखलाया गया है । (प्र.) यह महोदय नाम की कौन वस्तु है ? (१) कोई (बौद्धविशेष) कहते हैं कि वासनारूप मूलसहित ज्ञान का नाश ही 'महोदय' (निर्वाण) है। इसके प्रमाण में वे उपनिषद् का यह वाक्य उद्धृत करते हैं- "न प्रेत्य संज्ञास्ति," अर्थात् मरने के बाद "संज्ञा" (चेतना) नहीं रहती है। (उ.) किन्तु यह पक्ष अयुक्त है, क्योंकि (प्रश्नकर्त्ता के मत से आत्मा ज्ञानरूप है) आत्मा ही
प्रकरणम्] भाषाानुवादसहितम् ७
प्रकरणम्] भाषाानुवादसहितम् ७ न्यायकन्दली (२) निखिलवासनोच्छेदे विगतविषयाकारोपप्लवविशुद्धज्ञानोदयो महोदय इत्यपरे । तदयुक्तम्, कारणाभावे तदनुपपत्तेः । भावनाप्रचयो हि तस्य कारणमिष्यते, स च स्थिरैकाश्रया- भावादिष्टेषानाधायकः प्रतिक्षणमपूर्ववदुपजायमानो निरन्वयविनाशी लङ्घनाभ्यासवदना- सादितप्रकर्षो न स्फुटाभज्ञानजननाय प्रभवतीत्यनुपपत्तिरेव तस्य । समलचित्तक्षणानां स्वाभाविक्याः सदृशारम्भणशक्तेरसद्दृशारम्भं प्रत्यशक्तेश्चाकस्मादनुच्छेदात्, किञ्च पूर्वे सब से प्रिय है, उसका विनाश वस्तुतः आत्मा का विनाश ही है, तो अपने सब से अधिक प्रिय वस्तु का नाश करने के लिये कौन बुद्धिमान् प्रवृत्त होगा ? और यह बात भी है कि महोदय¹ का पर्य्याय 'मुक्ति' शब्द और 'बन्धविच्छेद' शब्द दोनों एक ही अर्थ के बोधक हैं । (२) कोई कहते² हैं कि सभी वासनाओं के नष्ट हो जाने पर विषयरूप आकार के मालिन्य से रहित ज्ञान की उत्पत्ति ही 'महोदय' है । किन्तु यह पक्ष भी कारण की अनुपपत्ति से अयुक्त है, क्योंकि इस पक्ष के मानने वाले भावना के 'प्रचय' अर्थात् बार-बार होने को इसका कारण मानते हैं । (किन्तु इस मत में) सभी वस्तु क्षणिक हैं । वस्तुओं का निरन्वय विनाश उत्पत्ति के द्वितीय क्षण में ही कूदने के अभ्यास की तरह हो जाता है, और दूसरे क्षण में बिलकुल अपूर्व अन्य व्यक्ति की उत्पत्ति होती है । जब पहले विज्ञान से आगे के विज्ञान में कोई उपकार नहीं पहुँच सकता है तो 'स्फुटाभ' ज्ञान की उत्पत्ति ही नहीं होगी । इस प्रकार इस पक्ष में निर्वाण ही अनुपपन्न हो जाएगा । और भी बात है-'मल' अर्थात् बन्ध सहित चित्त (ज्ञान)-क्षण अपने उत्तर क्षण में अपने सदृश ही चित्त की उत्पत्ति का कारण हो सकता है, क्योंकि सदृशारम्भकत्व ही उसका स्वभाव है । घटविज्ञान दूसरे घट- विज्ञान को ही उत्पन्न कर सकता है, पटविज्ञान को नहीं, नीलघटविज्ञान को भी नहीं । तब घटादि विषयरूप मलसहित विज्ञान अपने से विसदृश शुद्ध (निर्मल) विज्ञानरूप मुक्ति का कारण कैसे हो सकता है ? विज्ञान का सदृशारम्भकत्व तो नष्ट नहीं हो सकता । दूसरी बात यह है कि प्रत्येक क्षण अपने स्वभावसिद्ध निर्वाण से १. अभिप्राय यह है कि जैसे कोई अपराधी राजा की आज्ञा से बँध जाता है और उसके उस बन्धन के खुल जाने पर 'वह मुक्त हो गया' यह व्यवहार होता है । इस व्यवहार के लिए उस आदमी के मरने की आवश्यकता नहीं होती । वह आदमी रहता ही है, उसका बन्धन भर खुल जाता है । वैसे ही 'यह जीव मुक्त हो गया' इस वाक्य का यह अर्थ नहीं है कि वह स्वयं ही नष्ट हो गया । उससे इतनी ही प्रतीति होती है कि उसके मिथ्याज्ञानादि बन्धन खुल गये हैं । इसलिए 'महोदय' शब्द का अर्थ आत्मा से अभिन्न ज्ञान का उच्छेद कदापि नहीं हो सकता । २. अभिप्राय यह है कि इस मत में वास्तविक सत्ता ज्ञान की ही है । अन्य घटादि विषय 'संवृति' या अज्ञान से कल्पित हैं (वेदान्ती लोग जिनकी व्यावहारिक सत्ता मानते हैं) । वास्तविक सत्ताविशिष्ट ज्ञान निर्विकल्पक है । उसमें घटादि विषयों का
८ न्यायकन्दलीसंबलितप्रशस्तपादभाष्यम् [ मङ्गलाचरण- न्यायकन्दली क्षणाः स्वरसनिर्वाणाः, अयमपूर्वो जातः, सन्तानश्चैको न विद्यते, बन्धमोक्षौ चैकाधि- करणौ विषयभेदेन वर्तेते, य एव च प्रवर्त्तते प्राप्य च निवृत्तो भवति । (३) प्रकृतिपुरुषविवेकदर्शनादुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्ष इत्यन्ये । तन्न, प्रवृत्तिस्वभावायाः प्रकृतेरौदसीन्ययोगात् । पुरुषार्थनिबन्धना तस्याः प्रवृत्तिः, विवेकख्यातिश्च पुरुषार्थः । तस्यां संजातायां सा निवर्त्तते कृतकार्य्यत्वादिति चेन्न, अस्या अचेतनाया विमृश्यकारित्वाभावात् । यथेयं कृतेऽपि शब्दाद्युपलम्भे पुनस्तदर्थं प्रवर्त्तते, तथा विवेकख्यातौ कृतायामपि पुनस्तदर्थं प्रवर्त्तिष्यते स्वभावस्यानपायित्वात् । (४) नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरित्यपरे। तदप्यसारम्, अग्रे निराकरिष्य- माणत्वात् । तस्मादहितनिवृत्तिरात्यन्तिकी महोदय इति युक्तम् । युक्त है (क्षण शब्द से क्षणिक-विज्ञान विवक्षित है), यह विशुद्ध विज्ञान बिलकुल अपूर्व ही है । संतान नाम की कोई विलक्षण वस्तु नहीं है । यह नियम है कि जो बद्ध रहता है वही मुक्त होता है । एवं यह भी स्वाभाविक है कि जो प्रवृत्त होता है वही प्राप्त करके निवृत्त होता है । (३) कोई कहते हैं कि जब प्रकृति और पुरुष के भेदज्ञान से प्रकृति अपने सृष्ट्यादि कार्यों से निवृत्त हो जाती है, उस समय पुरुष की अपने स्वरूप में अवस्थिति ही 'मुक्ति' है । किन्तु यह पक्ष भी ठीक नहीं है, क्योंकि प्रवृत्तिस्वभाववाली प्रकृति कभी उससे उदासीन नहीं हो सकती । (प्र.) पुरुष के प्रयोजन-सम्पादन के लिए ही प्रकृति प्रवृत्त होती है, एवं प्रकृति और पुरुष का भेदज्ञान ही पुरुष का परम प्रयोजन है । उसके सम्पादित हो जाने पर वह कृतकार्य्य हो जाती है और फिर कार्य्य में प्रवृत्त नहीं होती । (उ.) किन्तु उक्त कथन भी युक्त नहीं है, क्योंकि प्रकृति जड़ है । उसमें विचार कर काम करने की शक्ति नहीं है, (अतः) वह जिस प्रकार शब्दविज्ञान के उत्पन्न होने पर भी फिर उसके लिए प्रवृत्त होती है, उसी प्रकार 'विवेकख्याति' अर्थात् प्रकृति-पुरुष के विवेक-ज्ञान के उत्पन्न होने पर भी फिर उसके लिए प्रवृत्त होगी । (तस्मात् इस पक्ष में अनिर्मोक्ष प्रसङ्ग होगा) । (४) यह भी कोई कहते हैं कि नित्य एवं निरतिशय ( सर्वोत्कृष्ट) सुख की अभिव्यक्ति ही 'मुक्ति' है । इस मत के ठीक न होने की युक्ति आगे लिखी जाएगी । तस्मात् दुःख की आत्यन्तिक निवृत्ति ही 'मुक्ति' है । सम्बन्ध ही सुख और दुःखजनक होने के कारण 'बन्ध' है अतः उक्त विशुद्धज्ञान में घटादि विषयों के सम्बन्ध का उच्छेद ही मुक्ति है । यह ध्यान में रखना चाहिए कि आत्माभिन्न ज्ञानोच्छेद, ही मुक्ति है, इस कथित पक्ष में नौ दोष दिखलाये गए हैं, ये दोष इस पक्ष में नहीं हैं, क्योंकि इस पक्ष में मुक्तावस्था में ज्ञानरूप आत्मा का नाश नहीं होता, किन्तु उसमें घटादि विषयों के सम्बन्ध का ही नाश होता है ।
प्रकरणम् ] भावानुवादसहितम् ९
प्रकरणम् ] भावानुवादसहितम् ९ न्यायकन्दली तस्याः सद्भावे किं प्रमाणम् ? दुःखसन्ततिर्धम्मिणी अत्यन्तमुच्छिद्यते सन्ततित्वादीप- सन्ततिवदिति तार्किकाः । तद्युक्तम्, पार्थिवपरमाणुरूपादिसन्तानेन व्यभिचारात् । "अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः" इत्यादयो वेदान्ताः प्रमाणमिति तु वयम् । भूतार्थानामेषाम- प्रामाण्यप्रसङ्ग इति चेन्न, प्रत्यक्षेणानैकान्तिकत्वात् । अथ मतं भूतार्थप्रतिपादकं वचनमनुवादकं स्यात्, ततश्चाप्रमाणत्वं प्रमाणान्तरसापेक्षत्वात्, प्रमायां साधकतमत्वाभावादिति । (प्र.) इसमें क्या प्रमाण है कि दुःख की आत्यन्तिक निवृत्ति होती है ? इस प्रश्न के उत्तर में तार्किक लोग यह अनुमान उपस्थित करते हैं कि दुःखों की सन्तति (समूह) का अत्यन्त विनाश होता है, क्योंकि उसमें सन्ततित्व है, जैसे दीपसन्तति । किन्तु अत्यन्त विनाश के साधन के लिए जिस 'सन्ततित्व' हेतु को उपस्थित किया गया है, वह पार्थिव परमाणु के रूपादि में व्यभिचरित है¹ । इस- लिए हम लोग कहते हैं कि "अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इत्यादि वेदान्त ही (दुःख की आत्यन्तिक निवृत्ति में) प्रमाण हैं । (प्र.) भूत अर्थात् निष्पन्न विषय के अर्थ का प्रतिपादन करनेवाले वेदान्त के ये वाक्य प्रमाण नहीं हैं । (उ.) ऐसा नहीं कह सकते, क्योंकि उस दशा में प्रत्यक्ष ² प्रमाण में व्यभिचार होगा । अगर ऐसा कहें कि भूत अर्थ के प्रतिपादक वचन अनुवादक हैं, अतः वेदान्तों में दूसरे प्रमाणों की अपेक्षा के कारण अप्रामाण्य की सिद्धि होगी । क्योंकि प्रमा का जो 'साधकतम' होगा, वही 'करण' होने से प्रमाण होगा । अनुवादक वाक्य अपने अर्थ के
- अभिप्राय यह है कि वैशेषिक पार्थिव परमाणु को नित्य मानते हुए भी उसमें रूप, रस, गन्ध और स्पर्श को अनित्य मानते हैं । क्योंकि पाक से उनका परिवर्तन घटादि स्थूल वस्तुओं में प्रत्यक्ष सिद्ध है । किन्तु उनके मूल कारण परमाणुओं में रूपादि के परिवर्तित हुए बिना घटादि में उनका परिवर्तन सम्भव नहीं है । अतः यह मानना पड़ेगा कि पार्थिव परमाणु के रूपादि पाक से परिवर्तित होते हैं । रूपादि का यह परिवर्तन पहले रूपादि का नाश और दूसरे रूपादि की उत्पत्ति के सिवाय और कुछ नहीं है । किन्तु परमाणु तो नित्य है, उसमें सभी समय कोई न कोई रूपादि अवश्य रहते हैं । तस्मात् एक ही परमाणु में नानाजातीय रूपादि की सत्ता माननी पड़ेगी । इस प्रकार पार्थिव परमाणुगत नानाजातीय रूपादि का समूह मानना पड़ेगा । किन्तु उस समूह का कभी अत्यन्त विनाश नहीं होता है, अतः उसमें कथित 'सन्ततित्व' हेतु है । तस्मात् उक्त 'सन्ततित्व' हेतु व्यभिचार-दुष्ट है ।
- प्रत्यक्ष निष्पन्न वस्तु का ही होता है । अतः 'वेदान्ता अप्रमाणम्, भूतार्थविषयकत्वात्' अर्थात् वेदान्त अप्रमाण हैं, क्योंकि वे भूतार्थ के प्रतिपादक हैं । इस अनुमान का भूतार्थप्रति- पादकत्व हेतु प्रत्यक्ष प्रमाण में है, अथ च उसमें अप्रामाण्यरूप साध्य नहीं है । अतः उक्त हेतु व्यभचरित होने के कारण वेदान्तों में अप्रामाण्य का साधक नहीं हो सकता ।
१० न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् [ मङ्गलाचरण- न्यायकन्दली न सिद्धार्थप्रतिपादकत्वमनुवादकत्वम्, प्रत्यक्षस्याप्यनुवादकत्वप्रसङ्गात् । किन्त्वधिगताधि- गन्तृत्वम्, ईदृशश्च वेदान्तानामर्थो यदयं भूतोऽपि प्रत्यक्षादेः प्रमाणान्तरस्य न विषयः, कुतस्तेषामनुवादकता कुतश्च सापेक्षत्वम्, स्मृतेरिव तेभ्यः पूर्वाधिगमसंस्पर्शेनार्थप्रतीतेर- भावात् । अत एव पुरुषवाक्यमपि प्रमाणम् । न हि तदपि वक्तुप्रामाण्योत्थापनेनार्थं प्रति- पादयति, किन्त्वनपेक्षिततद्व्यापारं स्वयमेव, उत्पत्तिमात्र एव तदपेक्षणात् । स्वाभाविकी हि पदानां पदार्थपरता, स्वाभाविकी च पदार्थानामाकाङ्क्षासन्निधियोग्यतातामितरेतरान्वय- योग्यता । तेन यथा वेदे प्रमाणान्तरानपेक्षः शब्दः, शब्दसामर्थ्याद्वाऽर्थप्रत्ययः, एवं लोकेऽपि ये लौकिका वैदिकास्त एव चार्था इति न्यायेनोभयत्रापि शब्दशक्ते- बोध का 'साधकतम' अर्थात् कारण नहीं है1 । (उ.) किन्तु यह कथन भी असङ्गत ही है क्योंकि भूतार्थ का प्रतिपादक होना ही अनुवादक होना नहीं है । (ऐसा मान लेने पर) प्रत्यक्ष प्रमाण भी अनुवादक होगा । किन्तु ज्ञात विषय का ज्ञापक ही अनुवादक होता है । वेदान्तों से प्रतिपादित होनेवाले अर्थ निष्पन्न होने पर भी प्रत्यक्षादि अन्य प्रमाणों के विषय नहीं हैं । तब वेदान्तों में प्रमाणान्तरसापेक्षत्व कैसा ? और अनुवादकता कैसी ? क्योंकि वेदान्त वाक्यों से स्मरण की तरह अर्थों की प्रतीति पूर्वानुभव से नहीं होती2 । इसीलिए पुरुष के वाक्य भी प्रमाण हैं । वे भी अपने अर्थविषय बोध के उत्पादन में वक्ता के प्रामाण्य-ज्ञान की अपेक्षा नहीं रखते । अपनी उत्पत्ति में ही वक्ता की अपेक्षा रखते हैं । किन्तु सुनने के बाद ही वक्ता के प्रामाण्य- ज्ञानरूप व्यापार की अपेक्षा नहीं रखते हुए ही केवल अपने सामर्थ्य से अपने अर्थ का बोध करा देते हैं । पदों में अपने अर्थों के बोध के उत्पादन की स्वाभाविक 'शक्ति' है । अतः जैसे वेदों में दूसरे प्रमाणों की सहायता के बिना ही केवल उन शब्दों के सामर्थ्य से ही अर्थ का बोध होता है, वैसे ही लोक में भी- "जो पद लोक में जिस अर्थ में प्रयुक्त है, सम्भव होने पर उस पद से वेद में भी उसी अर्थ का बोध होता है" (शाबरभाष्य), इस न्याय से लौकिक और वैदिक
- अनुवादक वाक्य का प्रसिद्ध उदाहरण है-"नद्यास्तीरे फलानि सन्ति" । इस वाक्य में प्रामाण्य तभी होता है, जब कि नदी किनारे के फलों को प्रत्यक्षादि प्रमाण के द्वारा जानने वाले पुरुष से वह प्रयुक्त हुआ हो । अतः उस बोध का 'साधकतम' अर्थात् करण वही प्रमाण होगा, जिससे प्रयोक्ता को उक्त प्रमा का ज्ञान हुआ हो । अतः उक्त वाक्य अपने अर्थविषयक बोध का कारण होने पर भी साधकतम 'करण' रूप प्रमाण नहीं है । तस्मात् अनुवादक वाक्य दूसरे प्रमाण से सापेक्ष रहने के कारण प्रमाण नहीं है ।
- स्मृति (स्मरण) के प्रति पूर्वानुभव कारण है । स्मृति का प्रमात्व उसके कारणीभूत पूर्वानुभव के प्रमात्व के अधीन है । अतः संस्कार स्मृति का कारण होते हुए भी