भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 182, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 182

अत्याधानमुपक्षेपणं तन्न- उरसि कृत्वा पाणिं शेते ॥ मध्ये पदे निवचने च । १।४। ७६ ॥ एते कृञि वा गतिसंज्ञाः स्युरनत्याधाने ॥ मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येत्यर्थः ॥ नित्यं हस्ते पाणावुपयमने । १।४।७७ ॥ कृञि ॥ उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तंकृत्य । पाणौकृत्य ॥ प्राध्वं बन्धने ।१।४।७८ ॥ प्राध्वमित्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूलं कृत्वेत्यर्थः ॥ प्रार्थनादिना त्वानुकूल्यकरणे- प्राध्वं कृत्वा ॥ जीविकोपनिषदावौपम्ये ।१।४।७९ ॥ जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य ॥ औपम्ये किम् ? जीविकां कृत्वा ॥ प्रादिग्रहणमगत्यर्थम् । सुपुरुषः ॥ अत्र वार्तिकानि-॥ प्रादयो गताद्यर्थे प्रथमया * ॥ प्रगत