वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 183, कुल 835 में से
संदर्भ में पढ़ें( १३२ ) सिद्धान्तकौमुद्याम्- त्तम् । तथा च-गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेरिति सिद्धम् ॥ व्याघ्री । अश्वक्रीती । कच्छेपी ॥ अमैवाव्ययेन ।२।२।२० ॥ अमेव तुल्यवि- धानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुङ्कारम् । नेह-कालसमयवेलासु तुमुन् । कालः समयो वेला वा भोक्तुम् ॥ अमैवेति किम् ? अग्रे भोजम् । अग्रे भुक्त्वा । विभाषाग्रे- प्रथमपूर्वेष्विति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥ तृतीयाप्रभृतीन्यन्यतर- स्याम् ।२।२।२१ ॥ उपदंशस्तृतीयायामित्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् ॥ क्त्वा च ।२।२।२२ ॥ तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैःकृत्य ।