भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 184, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 184

। ५।४।९१ ।॥ एतदन्तात्तत्पुरुषाट्टच् स्यात् ॥ १परमराजः । २अतिराजी । कृष्णसखः ॥ अह्नष्टखोरेव । ६।४।१४५ ॥ टिलोपः स्यान्नान्यत्र ॥ ३उत्तमहः ॥ द्वे अहनी भृतो द्वयहर्नीनः क्रतुः । तद्धितार्थे द्विगुः । ‘तमधीष्ट’ इत्यधिकारे द्विगोर्वैत्यनुवृत्तौ रात्र्यह्नःसंवत्सराच्चेति खः ॥ [ लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह- मद्राणां राज्ञी मद्रराज्ञी ॥ ] अह्रोऽह्न एतेभ्यः ५।४।८८ ॥ सर्वादिन्यः परस्याह्नशब्दास्याह्नादेशः स्यात्समासान्ते परे ॥ अह्नोऽदन्तात् । ८ ।४।७ ॥ अदन्तपूर्वपदस्थाद्रेफात्परस्याऽह्नादेशस्य नस्य णः स्यात् । सर्वाह्नः । पूर्वाह्नः । संख्या- ताहः ॥ द्वयोरह्नोर्भवः । ‘कालाट्ठञ्’ । ‘द्विगोर्लुगनपत्ये’ इति ठञो लुक् । द्वयहः

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 184, कुल 835 में से · BharatKosha