वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 185, कुल 835 में से
संदर्भ में पढ़ें( १३४ ) सिद्धान्तकौमुद्याम्- पुण्याहम् । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥ अग्र्या³ख्या- यामुरसः । ५।४।९३ ॥ टच् स्यात् ॥ अश्वानामुर इ⁴व अश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥ अनोऽश्मायःसरसां जातिसंज्ञयोः । ५।४।९४ ॥ टच् स्याज्जातौ संज्ञायां च ॥ उपानसम् । अमृताश्मः । कालायसम् । मण्डूकसरसमिति जातिः ॥ महानसम् । पिण्डाश्मः । लोहिता- यसम् । जलसरसमिति संज्ञा ॥ ग्रामकौटाभ्यां च तक्षणः । ५।४।९५ ॥ ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः स्वतन्त्रः स चासौ तक्षा च कौटतक्षः ॥ अतेः शुनः । ५।४।९६ ॥ अतिश्वो वराहः । अतिश्वी सेवा ॥ उपमानादप्राणिषु । ५।४। ९७ ॥ अप्राणिविषयकोपमानवाचिनः शुनष्टच्त्स्यात् ॥ आकर्षः श्वेव