वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
अत्याधानमुपक्षेपणं तन्न- उरसि कृत्वा पाणिं शेते ॥ मध्ये पदे निवचने च । १।४। ७६ ॥ एते कृञि वा गतिसंज्ञाः स्युरनत्याधाने ॥ मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येत्यर्थः ॥ नित्यं हस्ते पाणावुपयमने । १।४।७७ ॥ कृञि ॥ उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तंकृत्य । पाणौकृत्य ॥ प्राध्वं बन्धने ।१।४।७८ ॥ प्राध्वमित्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूलं कृत्वेत्यर्थः ॥ प्रार्थनादिना त्वानुकूल्यकरणे- प्राध्वं कृत्वा ॥ जीविकोपनिषदावौपम्ये ।१।४।७९ ॥ जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य ॥ औपम्ये किम् ? जीविकां कृत्वा ॥ प्रादिग्रहणमगत्यर्थम् । सुपुरुषः ॥ अत्र वार्तिकानि-॥ प्रादयो गताद्यर्थे प्रथमया * ॥ प्रगत
( १३२ ) सिद्धान्तकौमुद्याम्- त्तम् । तथा च-गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेरिति सिद्धम् ॥ व्याघ्री । अश्वक्रीती । कच्छेपी ॥ अमैवाव्ययेन ।२।२।२० ॥ अमेव तुल्यवि- धानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुङ्कारम् । नेह-कालसमयवेलासु तुमुन् । कालः समयो वेला वा भोक्तुम् ॥ अमैवेति किम् ? अग्रे भोजम् । अग्रे भुक्त्वा । विभाषाग्रे- प्रथमपूर्वेष्विति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥ तृतीयाप्रभृतीन्यन्यतर- स्याम् ।२।२।२१ ॥ उपदंशस्तृतीयायामित्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् ॥ क्त्वा च ।२।२।२२ ॥ तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैःकृत्य ।
। ५।४।९१ ।॥ एतदन्तात्तत्पुरुषाट्टच् स्यात् ॥ १परमराजः । २अतिराजी । कृष्णसखः ॥ अह्नष्टखोरेव । ६।४।१४५ ॥ टिलोपः स्यान्नान्यत्र ॥ ३उत्तमहः ॥ द्वे अहनी भृतो द्वयहर्नीनः क्रतुः । तद्धितार्थे द्विगुः । ‘तमधीष्ट’ इत्यधिकारे द्विगोर्वैत्यनुवृत्तौ रात्र्यह्नःसंवत्सराच्चेति खः ॥ [ लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह- मद्राणां राज्ञी मद्रराज्ञी ॥ ] अह्रोऽह्न एतेभ्यः ५।४।८८ ॥ सर्वादिन्यः परस्याह्नशब्दास्याह्नादेशः स्यात्समासान्ते परे ॥ अह्नोऽदन्तात् । ८ ।४।७ ॥ अदन्तपूर्वपदस्थाद्रेफात्परस्याऽह्नादेशस्य नस्य णः स्यात् । सर्वाह्नः । पूर्वाह्नः । संख्या- ताहः ॥ द्वयोरह्नोर्भवः । ‘कालाट्ठञ्’ । ‘द्विगोर्लुगनपत्ये’ इति ठञो लुक् । द्वयहः
( १३४ ) सिद्धान्तकौमुद्याम्- पुण्याहम् । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥ अग्र्या³ख्या- यामुरसः । ५।४।९३ ॥ टच् स्यात् ॥ अश्वानामुर इ⁴व अश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥ अनोऽश्मायःसरसां जातिसंज्ञयोः । ५।४।९४ ॥ टच् स्याज्जातौ संज्ञायां च ॥ उपानसम् । अमृताश्मः । कालायसम् । मण्डूकसरसमिति जातिः ॥ महानसम् । पिण्डाश्मः । लोहिता- यसम् । जलसरसमिति संज्ञा ॥ ग्रामकौटाभ्यां च तक्षणः । ५।४।९५ ॥ ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः स्वतन्त्रः स चासौ तक्षा च कौटतक्षः ॥ अतेः शुनः । ५।४।९६ ॥ अतिश्वो वराहः । अतिश्वी सेवा ॥ उपमानादप्राणिषु । ५।४। ९७ ॥ अप्राणिविषयकोपमानवाचिनः शुनष्टच्त्स्यात् ॥ आकर्षः श्वेव
नाधिकरणग्रहणसामर्थ्यात् ॥ [ आदिर्ति योगविभागादात्त्वम् 'प्रागेकादशभ्यः' इति निर्देशाद्वा- एकादश ॥ ] महतीशब्दस्य 'पुंवत्कर्मधारयेति पुंवद्भावे कृते आत्त्वम्—महाजातीया ॥ महदात्त्वे- वासकरविशिष्टेषूपसंख्यानं पुंवद्भावश्च * ॥ असामानाधिकरण्यार्थमिदम् । महतो महत्या वा वासो महावासः । महाकरः । महाविशिष्टः ॥ अष्टनः कपाले हविषि * ॥ अष्टाकपालः ॥ गवि च युक्ते * ॥ गोशब्दे परे, युक्त इत्यर्थे गम्येऽष्टन आत्त्वं वक्तव्यमित्यर्थः ॥ अष्टागवं शकटम् । 'अच्प्रत्यन्ववेत्यत्राजिति योगविभागाद्बहुव्रीहावप्यच् ॥ अष्टानां गवां समाहारः अष्टागवम् । तद्युक्तत्वाच्छकटमष्टागवमिति वा ॥ द्व्यष्टनः संख्यायामबहुव्री- ह्यशीत्योः । ६।३।४७॥ आत्स्यात् द्वौ च दश च द्वादश । द्व्यधिका दशेति वा । द्वाविंशतिः । [L9
image:
द्विवचनमन्तन्त्रम् -> wait, म then न्?
Wait, look at the glyphs:
द्वि - व - च - न - म - न्त - न्त्र - म्?
No, it's: द्वि व च न म त न्त्र म्! The त has a flat top, and before it is म. But wait, does it have an anusvara?
No, let's look: द्विवचनमतन्त्रम् is the standard Sanskrit phrase ("द्विवचनम् अतन्त्रम्"). Let's transcribe faithfully to what's printed, wait, does it say द्विवचनमन्तन्त्रम्?
Wait, look at: द्विवचनम then त with a loop? It looks like द्विवचनमन्तन्त्रम् or द्विवचनमतन्त्रम्?
Wait, it looks like: द्वि-व-च-न-म-न्त-न्त्र-म् - wait, why would there be two ntra?
Wait! Let's re-read:
द्विवचनमन्तन्त्रम्?
Let's look really closely at:
द्वि (dvi)
व (va)
च (ca)
`
ब्रवीमि ॥ फल्गुनीप्रोष्ठपदानां च नक्षत्रे ।१।२।६० ॥ द्वित्वे बहुवत्प्रयुक्तं" Wait, in "पटुरहं", line 7: Wait, between "पटुर" and "ब्रवीमि": Is it "पटुरहं ब्रवीमि"? Look at line 7: "पटुरहं ब्रवीमि". Line 8: "कार्यं वा स्यात् ॥ पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे । पूर्वीः प्रोष्ठपदाः ॥ नक्षत्रे किम् ?" Line 9: "फल्गुन्यौ माणविके ॥ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ।१।२।६३" Line 10: "बहुत्वं द्वित्ववद्भवति ॥ तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू ॥ तिष्येति किम् ? विशाखानू-" Line 11: "राधाः ॥ नक्षत्रेति किम् ? तिष्यपुनर्वसवो माणवकाः ॥ ] स नपुंसकम् । २।४।१७ ॥" Line 12: "समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् ॥ परवल्लिङ्गापवादः । पञ्चगवम् । दन्तोष्ठम् ॥ अका-"
Let'
Here is the complete, line-by-line transcription of the page into Unicode Devanagari:
रोन्तोत्तरपदो द्विगुः स्त्रियामिष्टः * ॥ पञ्चमूली ॥ आवन्तो वा * ॥ पञ्चखट्वी पञ्चखट्वम् ॥ अनोनलोपश्च वा द्विगुः स्त्रियाम् * ॥ पञ्चतक्षी । पञ्चतक्षम् ॥ पात्रा- द्यन्तस्य न * ॥ पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् ॥ पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा * ॥ पुण्याहम् । सुदिनाहम् ॥ पथः संख्याव्ययादेः * ॥ संख्याव्ययादेः परः कृतसमान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्थाः विपथम् । कृतसमा- सान्तनिर्देशान्नेह । सुपन्थाः । अतिपन्थाः ॥ सामान्ये नपुंसकम् * ॥ मृदु पचति । प्रातः कमनीयम् ॥ तत्पुरुषोऽनञ्कर्मधारयः । २।४।१९॥ अधिकारोऽयम् ॥ संज्ञायां कन्थोशीनरेषु । २।४।२० ॥ कन्थान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्
संघातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् ॥ स्त्रीसभम् । स्त्रीसंघात इत्यर्थः ॥ अशाला- किम् ? धर्मसभा । धर्मशालेत्यर्थः ॥ विभाषा सेनासुराच्छायाशालानिशानाम् । २।४। २५ ॥ एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् ॥ ब्राह्मणसेनम् । ब्राह्मणसेना । यवसुरम् । यवसुरा । कुड्यच्छायम् । कुड्यच्छाया । गोशालम् । गोशाला । श्वनिशम् । श्वनिशा ॥ तत्पुरुषो- ऽनञ्कर्मधारय इत्यनुवृत्तेर्नेह । दृढसेनो राजा असेना । परमसेना ॥ इति तत्पुरुषप्रकरणम् । अथ बहुव्रीहिप्रकरणम् । शेषो बहुव्रीहिः । २।२।२३ ॥ अधिकारोऽयम् । द्वितीयाश्रितेत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः सः शेषः प्रथमान्तमित्यर्थ- ॥ अनेकमन्यपदार्थे । २।२।२४ ॥ अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः ॥ अप्रथमाविभक्त
भावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे नतु पूरण्यां प्रियादौ च परतः ॥ गोस्त्रियोरिति ह्रस्वः । चित्रा गावो यस्येति लौकि- कविग्रहे चित्रा अस् गो अस् इत्यलौकिकविग्रहे । चित्रगुः । रूपवद्भार्यः ॥ चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित्- चित्राजरतीगुः । जरतीचित्रा- गुर्वा । एवं दीर्घातन्वीजङ्घवः । तन्वीदीर्घाजङ्घवः । त्रिपदे बहुव्रीहौ प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् । पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्ति ॥ वस्तुतस्तु नेह पूर्वपदमाक्षि- प्यते 'आनङ् ऋतः' इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव-चित्राजरद्गुरित्यादि । अत एव चित्रा- जरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चित्राजरद्गुरिति भाष्यम् ॥ कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत्- जरच्चित्रगुः । कर्मधारयोत्तरपदे तु-चित्रजरद्गवीकः ॥ स्त्रियाः किम् ? ग्रामणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः ॥ भाषितपुंस्कात्किम् ! गङ्गाभार्यः ॥ अनूङ् किम् । वामोरूभार्यः ॥ समानाधिकरणे किम् ! कल्याण्याः माता कल्याणीमाता ॥ स्त्रियां किम् ? कल्याणी प्रधानं यस्य स कल्याणीप्र- धानः ॥ पूरण्यां तु-॥ अप्पूरणीप्रमाण्योः ।५।४।११६ ॥ पूरणार्थप्रत्ययान्तं यत् स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप् स्यात् ॥ कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा .रात्रयः ॥ स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः ॥ पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव । रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या ॥ अन्यत्र तु-॥ नद्यृतश्च ।५।४।१५३ ॥ १ चित्रः पटः, चित्रा शाटी, चित्रं वस्त्रम्, इति चित्रशब्दस्यानेकविधरूपसमाहाररूपं प्रवृत्तिनिमित्तमुद्देश्यैव पुंसि स्त्रियां क्लीबे च प्रवृत्तिदर्शनादनेकविधरूपसमाहारे प्रवृत्तिनिमित्ते भाषितपुंस्कत्वात् चित्रशब्दात् परत्र ऊङो- ऽनवेक्षणात् चित्रशब्दः पुंवदेव जात इति टापो निवृत्तिरिति भावः ॥ गर्भिभार्य इत्यादौ पुंस्यपि गर्भवत्त्वस्य ऐतरेयोपनिषदि प्रतिपादनात् 'गर्भिन्' शब्दस्य भाषितपुंस्कत्वेन पुंवद्भावसिद्धिरिति सर्वं समञ्जसम् ॥ २ मध्यमस्य जरतीशब्दस्य पूर्वोच्चारितचित्राशब्दापेक्षयोत्तरत्वेऽप्युत्तरपदत्वाभावे गोशब्दापेक्षया पूर्वत्वस्याव्याहत- त्वेपि पूर्वपदत्वाभावे च युक्तिमाह-उत्तरपदशब्दो हीति ॥ ३ द्वन्द्वस्य पूर्वपदत्वेऽपि भाषितपुंस्कत्वाभावा- न्नैव पुंवत्त्वप्राप्तिरिति तत्र पुंवत्त्वदर्शनेन उत्तरपदे परतः पूर्वमात्रस्यैव पुंवत्त्वं निश्चीयत इति भावः ॥ शेखर- कृतस्तु-परे त्वाक्षेपेपि न दोषः 'धर्मादनिच् केवलात्' इत्यत्र त्रिपद्व्यावृत्तये उपात्तं 'केवलात्' इति पदं समा- साक्षिप्तपूर्वपदशब्दस्य यौगिकत्वं ज्ञापयति-इति वदन्ति ॥ अत्र दाधिमथाः-समासान्तप्रकरणे उत्तरपद-पूर्व- पदशब्दयोरभावेन 'धर्मादनिच् केवलात्' इत्यत्र 'केवलात्' इति पञ्चम्या 'उत्तरस्य' इत्यस्योपस्थित्या उत्तर- त्वस्य पूर्वत्वसापेक्षत्वेन तदाक्षेपे 'केवलात् असहायात् असमस्ताद् उत्तराद् धर्मशब्दात्' इत्येवमर्थसामञ्जस्येन पूर्वपदाक्षेपे मानाभावात् । समासान्तप्रकरणे तथाकल्पनेपि प्रकरणान्तरे 'अलुगुत्तरपदे' इत्यधिकारेऽपि तथाक- ल्पने मानाभावाच्च ॥ किंच यदि पूर्वपदशब्दस्तत्र यौगिक एव स्यात्, न रूढः, तर्हि 'ढ्रलोपे-' इति सूत्रे पूर्वमात्रग्रहणार्थं पूर्वशब्दोपादानं व्यर्थमेव स्यात् ॥ इति वदन्ति ॥ ४ 'जरती चासौ चित्रा च' इति विग्रहे 'जरच्चित्रा' शब्दं निष्पाद्य तस्य गोशब्देन समासे इत्याशयः ॥ ५ ग्रामणीशब्दस्य नपुंसकत्वेन नैव स्त्रीलिङ्गत्वमिति भावं दर्शयितुमेव 'कुलम्' इत्यस्य प्रयोगः ॥ ६ कल्याणी कन्या, ततस्तस्या माता भिन्नेवेति न सामानाधिकरण्यम् ॥ ७ पूरणी पञ्चसंख्यापूरणी चतसृषु रात्रिषु एकस्या रात्रेरेव योगेन पञ्चकं रात्रीणां भवतीति भावः॥ वाच्या अन्यपदार्थभूते रात्रिसमूहे उद्भूतावयवे तस्याः पञ्चम्याः रात्रेरपि शक्यतावच्छेदकरात्रि- त्वविशिष्टतयाऽन्तर्भावादिति भावः ॥
? रोहिणी + ढक् = रौहिणेयः, where भ-संज्ञा is there, but it is ढ, so no पुंवद्भाव). Then: "स्त्रीभ्यो ढगिति ढोऽत्र गृह्यते ।" "अभे ढकि तु पुंवदेव ॥" - wait! Why does it say "अभेढगिति"? Wait, let's re-read the characters: अ (a) भे (bhe) ढ (dha) गि (gi) - wait, is it 'ढ' or 'ड'? Wait, look at "स्त्रीभ्यो ढगिति": स् त् र ी भ् य ो (स्त्रीभ्यो) ढ (dha) गि (gi) ति (ti) It says "स्त्रीभ्यो ढगिति"! Because 'ढक्' before vowel/vowel sandhi becomes 'ढग्': 'स्त्रीभ्यो ढक्' + 'इति' = 'स्त्रीभ्यो ढगिति'! Aha! And then: "अभे ढकि"? No, look at the word after the danda: अ (a) भे (bhe) ढ (dha) गि (gi) ति (ti) Wait, does it say "अभे ढगिति"? Wait, why would it say "अभे ढगिति"? Wait! Is that 'अभे'? Or 'अत्रे'? Or 'अग्नेः'? Look at the first two letters
: Wait, let's look at the letter itself: यhas two slant strokes above it:ै. Why would the printer print स्थालीपाकस्याग्नेयैः? Wait, could it be स्थालीपाकस्याग्नेयःwhere the two dots of visarga are preceded by something? No, the visargaःis afterय. Above यare two diagonal slants! That is identical to the matraै. Wait, what about च्छाङ्गैरवादि? It has ैaboveङ्ग! Wait, why does this printer have ैon these two words? Wait, is itच्छाङ्गैरवादि? Wait, what word could it be? "शार्ङ्गरवादि" is the gana! But here it's printed च्छाङ्गैरवादि-orच्छाङ्गैर्वादि-! Wait, why ै? Because the typesetter literally put the ैsort by mistake, or it'sच्छाङ्गैरवादि-! Wait, let's transcribe faithfully what is printed. If it looks like स्थालीपाकस्याग्नेयैःorस्थालीपाकस्याग्नेयः, wait, is it ैorः`?
Wait, look at the prompt: "Transcribe the text ... faithfully ... Do not correct spelling errors, typos, or grammatical quirks
: "आत्ममाने किम्? दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः। अत्र हि स्त्रिया दर्शनीयत्वं न तु चैत्रस्य।" Here the commentary might say: "अस्वार्थस्योदाहरणं निर्दिशति" or "अस्वात्मार्थस्य"? Wait, let's look at the letters in L13 very closely: Is it: अ - रु - ण ? No. अ - न्व - र्थ - स्य ? Wait! "अन्वर्थस्य"?! Let's look: अ + न्व + र्थ + स्य = अन्वर्थस्योदाहरणं ! Wait! Does "अन्वर्थस्य" fit the letters? Letter 1: 'अ' Letter 2: 'न्व'? In 'न्व', there is 'न' and 'व'. Wait, does it have an 'ा' stroke? Look: after the letter, there is a vertical line. But wait, in 'न्व', there is no vertical line unless it's 'न्वा'? No, 'न्व' itself has a vertical stem for 'व'! Wait, is there an aa-matra? No, the vertical line IS the stem of the consonant! Wait, but does "दर्शनीयमानी चैत्रः" exemplify an "अन्वर्थ"? No, it's a pratyudaharana! Wait, could it be "अयुक्तार्थस्य"? Wait, what about "अमुष्य
( १४४ ) सिद्धान्तकौमुद्याम्- वक्तव्यम् * ॥ सुकेशमानिनी ॥ जातेश्च ।६।३।४१ ॥ जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत् ॥ शूद्राभार्यः । ब्राह्मणीभार्यः ॥ सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्ति- कमित्यत्र 'भस्याढे-'इति तु भवत्येव ॥ संख्येयाऽव्ययासन्नादूराधिकसंख्याः संख्येये ।२।२।२५ ॥ संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः ॥ दशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः ॥ 'बहुव्रीहौ संख्येये' इति वक्ष्यमाणो डच् ॥ ति विंशतेर्डिति ।६।४।१४२ ॥ विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति ॥ आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः ॥ अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । द्विरा- वृत्ता दश द्विदशाः
व्रीह्यवयवस्य सहस्य सः स्याद्वा ॥ पुत्रेण सह सपुत्रः सहपुत्रो वा आगतः ॥ तुल्ययोगवचनं प्रायिकम् । सकर्मकः । सलोमकः ॥ प्रकृत्याशिषि ।६।३।८३ ॥ सहशब्दः प्रकृत्या स्यादा- शिषि ॥ स्वस्ति राज्ञे सहपुत्राय सहामात्याय ॥ अगोवत्सहलेष्विति वाच्यम् * ॥ सगवे । सवत्साय । सहलाय ॥ बहुव्रीहौ संख्येये डजबहुगणात् ।५।४।७३ ॥ संख्येये यो बहुव्रीहिस्तस्माड्डच् स्यात् ॥ उपदशाः ॥ अबहुगणात्किम् ? उपबहवः । उपगणाः । अत्र स्वरे विशेषः ॥ संख्यायास्तत्पुरुषस्य वाच्यः * ॥ निर्गतानि त्रिंशतो निर्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतत्रिंशतोऽङ्गुलिभ्यो निर्त्रिंशः खड्गः ॥ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गा- त्षच् ।५।४।११३ ॥ व्यत्ययेन षष्ठी । स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् ॥ दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी ॥ स्वाङ्गात्किम् ? दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनादित्यच् ॥ अङ्गुलेर्दारुणि ।५।४।११४ ॥ अङ्गुल्यन्ता- द्वहुव्रीहेः षच् स्याद्दारुण्यर्थे ॥ पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु । अङ्गुलिसदृशा- वयवं धान्यादिविक्षेपणकाष्ठमुच्यते ॥ बहुव्रीहेः किम् ? द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । तद्धितार्थे तत्पुरुषे 'तत्पुरुषस्याङ्गुलेरित्थच् ॥ दारुणि किम् ? पञ्चाङ्गुलिर्हस्तः ॥ द्वित्रिभ्यां ष मूर्ध्नः ।५।४।११५ ॥ आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ ॥ द्विमूर्धः । त्रिमूर्धः । नेतुर्नक्षत्रेऽब्वक्तव्यः * ॥ मृगो नेता यासां ताः मृगनेत्रा रात्रयः । पुष्यनेत्राः ॥ अन्तर्बहिर्भ्यां च लोम्नः ।५।४।११७ ॥ आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ ॥ अन्त- र्लोमः । बहिर्लोमः ॥ अच् नासिकायाः संज्ञायां नसं चास्थूलात् ।५।४।११८ ॥ नासिकान्ताद्बहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति नतु स्थूलपूर्वात् ॥ पूर्व- पदात्संज्ञायामगः ।८।४।३ ॥ पूर्वपदस्थान्निमित्तात्परस्य नँस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने ॥ द्रुरिव नासिकाऽस्य द्रुणसः ॥ अगः किम् ? ऋचामयनं ऋगयनम् । १ 'सह सादृश्यसंबन्धयौगपद्यसमृद्धिषु । साकल्ये विद्यमाने च' इति कोशोक्तेष्वर्थेषु यौगपद्य एव बहुव्रीहि- विधानाद् एककाल एकक्रियान्वयित्वमेव यौगपद्यं तुल्ययोगपर्यायं सकर्मक इत्यादौ न संभवति धातुकर्मणोरे- कक्रियान्वयित्वाभावादत आह-तुल्ययोगेति । प्रायिकमिति । तेन क्वचिद्विद्यमानार्थकस्यापि समासो भवत्येवेत्युदाहरति-सकर्मक इति । विद्यमानकर्मक इत्यर्थः ॥ विद्यमानार्थकसहशब्देन सामानाधिकरणेन 'अनेकमन्यपदार्थे' इति समासेन प्रायिकत्वकथनं चिन्त्यप्रयोजनम् ॥ 'वोपसर्जनस्य' इत्यत्र प्रतिपदोक्तपरिभाषा तु नैव प्रवर्तते 'सपूर्वस्य' 'सपूर्वायाः' इत्यादिनिर्देशात् ॥ २ स्वरे विशेष इति ॥ डचि सति 'चितः इत्यन्तोदात्तत्वं स्यात्, असति पूर्वपदप्रकृतिस्वरो भवतीति भावः ॥ ३ पञ्चम्यर्थे सप्तमी । नक्षत्रशब्दस्य तद्विशेषपरत्वं व्याख्यानात् । पञ्चम्या 'तस्मादित्युत्तरस्य' इति 'उत्तरपदोपस्थितौ' 'नक्षत्रविशेषवाचकादनन्तरो- त्तरो यो नेतृशब्दः तदन्ताद् बहुव्रीहेरप् स्यात् इत्यर्थः ॥ ४ 'तस्मादित्युत्तरस्य' इति परिभाषया उत्तर- पदोपस्थानेन 'स्थूलभिन्नादनन्तरोत्तरो यो नासिकाशब्दस्तदन्तात्' इत्यर्थफलितमाह-नतु स्थूलपूर्वादिति ॥ ५ यत् प्रति पूर्वपदम् तत्तस्य नेत्य चेत् तर्हि संज्ञायामेव' इति नियमेन तद्धितनकारस्य 'खारपायणः' इत्यत्र णत्वं भवत्येव ॥ ६ संज्ञायामिति । णत्वेन चेत् संज्ञा रूढ्यर्थो गम्यत इत्यर्थः । 'संज्ञाशब्दा अनादिप्रयु- क्तनियतानुपूर्वाका एव सिद्धाः तत्रेदानं कस्तद्विपरीतं प्रयोक्तुमर्हति' इत्यभियुक्ताः ॥ रघुनाथादिशब्देषु तु संज्ञाभङ्गभयादेव न णत्वम् ॥ १०
“अणुपगयनादिभ्य' इति निपातनात् णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये ॥ अस्थूलात्किम् ? स्थूलनासिकः ॥ खुरखराभ्यां [ वा ] नँस् * ॥ खुरणाः । खरणाः ॥ [ पक्षे अजपीष्यते * ॥ खुरणसः । खरणसः ॥ ] उपसर्गाच्च । ५।४।११९ ॥ प्रादेर्यो नासिकाशब्दस्तदन्ताद्वहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थं वचनम् । उन्नता नासिका यस्य स उन्नसः ॥ उपसर्गादनोत्परः । ८।४।२८ ॥ इति सूत्रम् ॥ तद्भङ्क्त्वा भाष्यकार आह—‘उपसर्गाद्बहुळम्’ उपसर्गात्स्थानिमित्तात्परस्य नँसो नस्य णः स्याद्बहुळम् । प्रणसः ॥ वेग्रों वक्तव्यः * ॥ विगता नासिकाऽस्य विग्रः ॥ ख्यश्च * ॥ विख्यः । कथं तर्हि 'विनसा हतबान्धवेति भट्टिः ? विर्गतया नासिकयोपलक्षितेति व्याख्येयम् ॥ सुप्रतसुश्वसुदिवशा- रिकुक्षचतुरश्रैणीपदाजपद्मोष्ठपदाः । ५।४।१२० ॥ एते बहुव्रीहावच्प्रत्ययान्ता निपा- त्यन्ते । शोभनं प्रातरस्य सुप्रतः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारिरेव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणी- पदः । अजपदः । प्रोष्ठो गौः तस्येव पादावस्य प्रोष्ठपदः ॥ नञ्दुःसुभ्यो हलि सक्थ्यो- रन्यतरस्याम् । ५।४।१२१ ॥ अच् स्यात् । अह्लः । अहलिः । असक्थः । असक्थिः । एवं दुःसुभ्याम् ॥ शक्त्योरिति पाठान्तरम् । अशक्तः । अशक्तिः ॥ नित्यमसिच् प्रजा- मेधयोः । ५।४।१२२ ॥ नञ्दुःसुभ्य इत्येव ॥ अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥ धर्मादनिच्केवलात् । ५।४।१२४ ॥ केवलात्पूर्वपदात्परो यो धर्मश- ब्दस्तदन्ताद्वहुव्रीहेरनिच् स्यात् ॥ कल्याणधर्मा ॥ केवलात्किम् ? परमः स्वो धर्मो यस्येति
१ एवं च प्रागयनम् ऋग्भवनम् इत्यादीनां सत्त्वे 'अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः' इति भाष्योक्तेः क्षुभ्नादित्वं कल्पनीयं येनारम्भप्रत्याख्यानयोः फलभेदो न स्यादिति भाष्याशयः ॥ २ केवलादेशवि- धानं प्रत्ययनिवृत्त्यर्थमिति बोध्यम् ॥ 'निर्दिष्टस्यान्यस्यादेशा भवन्ति' इति न तदन्तस्य सर्वस्यादेश इति भावः ॥ ३ भाष्ये तु वार्तिके वाशब्दो न दृश्यते इति अजन्तोदाहरणे अपि न दृश्येते इति बोध्यम् ॥ ४ "बर्हि- र्धिनुस्वभावाम्बत्वस्वाङ्गादिस्वरनत्वेषु वचनप्रामाण्यात् सिद्धम्” इति "गतिश्च" इति सूत्रवार्ति- केनोपसर्गग्रहणं स्वसंज्ञिप्रादिवोधकमेवेति बोध्यते इत्याह-प्रादेरिति ॥ ५ ‘प्रणो नय’ ‘प्रनः पूषा’ इत्यादावव्याप्त्यतिव्याप्तिपरिहाराय 'अनोत्परः' इति पदं त्यक्त्वा 'बहुळम्' इत्येतत् तत्स्थाने दत्त्वा' इत्यर्थः । ६ उक्तवार्तिकप्रामाण्येनात्राप्युपसर्गपदं प्रादिपरमेवेति न विस्मर्त्तव्यम् ॥ ७ 'नस्' इत्येतदत्र सूत्रे 'नश्च धातुस्थोरुषुभ्यः' इति पूर्वसूत्रे च तन्त्रेण नासिकाशब्दादेशस्यास्मच्छब्दादेशस्य चानुकरणमिति बोध्यम् ॥ ८ 'हतबान्धवा' इति प्रथमान्तसमभिव्याहाराद् 'विनसा' इति प्रथमान्तमुचितम्—तत्र समासान्तादेशौ बाधित्वा ग्रादेशेन ख्यादेशेन वा भवितव्यमिति शङ्कते—कथं तर्हीति ॥ ९ नायं बहुव्रीहिः येनोक्तादेशापत्तिः स्यात् । किंतु 'प्रादयो गताद्यर्थे' इति तत्पुरुषे 'इत्थंभूतलक्षणे च' इति तृतीयान्तमेतत् । तत्र 'पद्दन्०' इति नासिकाया नस् इति समाधानम् ॥ १० अच्प्रत्ययमात्रं निपात्यते । सुप्रतादिषु त्रिषु 'अव्ययानां भमात्रे' इति टिलोपः, शारिकुक्षाद्योर्द्वयोः 'यस्येति च' इतीकारलोपः । एणीपदादिषु 'पादः पद्' इति पद्भावः सिद्ध एवेति बोध्यम् ॥ ११ पञ्चम्यर्थे षष्ठीति बोध्यम् ॥ १२ 'शक्त्योः' इति केचित्पठन्ति' इति काशिका ॥ 'शुक्त्योः' इति केचित्पठन्ति' इति पदमञ्जरी ॥ परंतु 'अशक्तः' इति शक्तशब्देन 'अशुक्तः' इति शुक्तशब्दे- नापि सिद्धौ व्यर्थ एव तथा पाठ इति ध्येयम् ॥
त्रिपदे बहुव्रीहौ मा भूत् । स्वशब्दो हीह न केवलं पूर्वपदं किंतु मध्यमत्वादापेक्षिकम् ॥ संदिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः एवं तु परस्वधर्मेत्यपि साध्येव निवृत्ति- धर्मा अनुच्छित्तिधर्मेत्यादिवत् । पूर्वपदं तु बहुव्रीहिणाऽक्षिप्यते ॥ जम्भा सुहरिततृणसोमेभ्यः ।५।४।१२५ ॥ जम्भेति कृतसमासान्तं निपात्यते ॥ 'जम्भो भक्ष्ये दन्ते च' । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा तृणं भक्ष्यं यस्य तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा ॥ स्वादिभ्यः किम् ? पतित्जम्भा ॥ दक्षिणेर्मा लुब्धयोगे ।५।४।१२६ ॥ दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥ इच् कर्मव्यतिहारे । ५।४।१२७ ॥ कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः ॥ केशाकेशि । मुस- लामुसलि ॥ ^Aद्विदण्डादिभ्यश्च ।५।४।१२८ ॥ तादर्थ्ये चतुर्थ्येषा । एषां सिद्धयर्थ- मिच् प्रत्ययः स्यात् ॥ द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभा- हस्ति । उभयाहस्ति ॥ प्रसंभ्यां जानुनोर्ज्ञुः ।५।४।१२९ ॥ आभ्यां परयोर्जानुशब्दयो- र्जुरादेशः स्याद्बहुव्रीहौ ॥ प्रगते जानुनी यस्य प्रज्ञुः । संज्ञुः ॥ ऊर्ध्वाद्दिभाषा ।५।४। १३० ॥ ऊर्ध्वज्ञुः । ऊर्ध्वजानुः ॥ धनुषश्च ।५।४।१३२ ॥ धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् ॥ शार्ङ्गधन्वा ॥ वा संज्ञायाम् ।५।४।१३३ ॥ शतधन्वा । शतधनुः ॥ जायाया निङ् ।५।४।१३४ ॥ जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ॥ लोपो व्योर्वलि ।६।१।६६ ॥
A द्विदण्डि, द्विमुसलि, उभाञ्जलि, उभयाञ्जलि, उभादन्ति, उभयादन्ति, उभाहस्ति, उभयाहस्ति, उभाकर्णि, उभयाकर्णि, उभापाणि, उभयापाणि, उभाबाहु, उभयाबाहु, एकपदि, प्रोष्ठपदि, आश्वपदि, सपदि, निकुच्यकर्णि, संहतपुच्छि, अन्तेवासि । इति द्विदण्ड्यादिः ॥
१ 'राजाहःसखिभ्यः' इत्यादाविव 'धर्मादनिच्' इत्येवेष्टसिद्धावपि धर्मशब्दे यदुत्तरत्वमपेक्ष्यते तत्र पूर्वस्मिन् केवलत्वं सजातीयान्यरहितत्वेन नियतत्वं परत्वसामानाधिकरणत्वमेव यदा भवेत् तदैव धर्म- शब्दान्ताद् अनिच् स्याद् इति बोधयितुं 'केवलात्' इति पदम् । तथा च 'केवलात्' इति पञ्चम्या 'तस्मा- दित्युत्तरस्य' इति परिभाषया उत्तरपदोपस्थितौ उत्तरत्वस्य पूर्वसापेक्षत्वादेव 'पूर्वात्' इत्यस्याक्षेपः । तथा च परत्वसामानाधिकरणपूर्वत्वविशिष्टान् उत्तरो यो धर्मशब्दः तदन्तबहुव्रीहियोग्यालौकिकप्रक्रियावाक्यस्या- न्तावयवोऽनिच् स्यादिति सूत्रार्थसंपत्तौ केवलपदव्यावर्त्यव्यावृत्तिरीतिमुपपादयति—स्वशब्दो हीति । केवलं पूर्वपदं नियतपूर्वत्वविशिष्टपदम् इत्यर्थः ॥ मध्यमत्वात् परत्वसामानाधिकरणत्वात् आपेक्षिकं वैवक्षिकमित्यर्थः ॥ २ अनेकपदानामेव बहुव्रीह्यङ्गीकारात् 'धर्मशब्दान्ताद् बहुव्रीहेः' इत्यर्थे तदैव धर्मशब्दोऽन्ते भवति यदि किंचिदन्यत् पदं पूर्वमपि भवेदिति भावः ॥ ३ समासान्तमिति । अनिच्प्रत्ययान्तमिति भावः ॥ ४ प्रकृतानुपयुक्तत्वादैत्यविशेषजम्बीरौ द्वावर्थौ न निर्दिष्टौ ॥ ५ 'अनिच्प्रत्ययान्त एवेति बोध्यम् ॥ ६ प्रसमुत्तरजानुशब्दकबहुव्रीहौ जानुशब्दस्य ज्ञुरादेश इत्यर्थः ॥ “जानुनोरिति द्विवचनमर्थगतं द्वित्व- मारोप्य पञ्चमीभ्रमनिवृत्तये” ॥ 'उपज्ञु बाधो नमसा सदेम' इत्यत्र वेदे तु 'तत्त्वा यामि' इत्यत्र चालोप इव मध्यस्थाकारलोपेन वैदिकेन कथमसाधुत्वमिति भावः ॥
वेकारयकारयोर्लोपः स्याद्वलि ॥ पुंवद्भावः । युवतिर्जाया यस्य युवजानिः । गन्धस्ये- दुत्पूतिसुसुरभिभ्यः ।५।४।१३५ ॥ एभ्यो गन्धस्य इकारोऽन्तादेशः स्यात् ॥ उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ॥ गन्धस्येत्त्वे तदेकान्तग्रहणम् * ॥ एकान्त एक- देश इव अविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः ॥ नेह- शोभना गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ॥ अल्पाख्यायाम् ।५।४।१३६ ॥ सूपस्य गन्धो लेशो यस्मिंस्तत् सूपगन्धि भोजनम् । घृतगन्धि । 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोरिति विश्वः ॥ उपमानाच्च ५।४।१३७ ॥ पद्मस्येव गन्धोऽस्य पद्मगन्धि ॥ पादस्य लोपोऽहस्त्यादिभ्यः ^A ।५।४।१३८ ॥ हस्त्यादिवर्जितादुपमानात्परस्य पादश- ब्दस्य लोपः स्याद्बहुव्रीहौ ॥ स्थानिद्वारेणायं समासान्तः । व्याघ्रस्येव पादावस्य व्याघ्रपात् ॥ अहस्त्यादिभ्यः किम् ? हस्तिपादः । कुसूलपादः ॥ ^Bकुम्भपदीषु च ५।४।१३९ ॥ कुम्भ- पदादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् ॥ पादः पत् ॥ कुम्भपदी ॥ स्त्रियां किम् ? कुम्भपादः ॥ संख्यासुपूर्वस्य ।५।४।१४० ॥ पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ ॥ द्विपात् । सुपात् ॥ वयसि दन्तस्य दतृ ।५।४।१४१ ॥ संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि ॥ द्विदन् । चतुर्दन् । षट् दन्ता अस्य षोर्डन् । सुदन् । सुदती ॥ वयसि किम् ? द्विदन्तः करी । सुदन्तः ॥ स्त्रियां संज्ञायाम् । ५।४। १४३ ॥ दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ ॥ अयोदती । फालदती ॥ संज्ञायां किम् ? सम- दन्ती ॥ विभाषा श्यावारोकाभ्याम् ।५।४।१४४ ॥ दन्तस्य दतृ वा बहुव्रीहौ ॥ श्याव- दन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः ॥ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ।५।४।
A हस्तिन्, कुद्दाल, अश्व, कशिक, कुह्रत, कटोल, कटोलक, गण्डोल, गण्डोलक, कण्डोल, कण्डोलक, अज, कपोल, जाल, गण्ड, महेला, दासी, गणिका, कुसूल । इति हस्त्यादिः ॥ B कुम्भपदी, एकपदी, जालपदी, मुनिपदी, शूलपदी, गुणपदी, शतपदी, सूत्रपदी, गोधापदी, कलशीपदी, चिपदी, द्विपदी, त्रिपदी, षट्पदी, दासीपदी, तृणपदी, शितपदी, विष्णुपदी, सुपदी, निष्पदी, आर्द्रपदी, कुणिपदी, कृष्णपदी, शुचि- पदी, द्रोणीपदी, द्रुपदी, सूकरपदी, शकृत्पदी, अष्टापदी, स्थूणापदी, आपदी, सूचीपदी । इति कुम्भपद्यादिः ॥
१ यद्यपि भाष्ये 'अनारम्भो वा पुनर्बलोपस्य न्याय्यः' इत्युक्त्वा 'कथमस्रेमाणं जीरदानु- रिति' इति शङ्कायाः 'अस्रेमाणं जीरदानुरिति छान्दसाद्वर्णलोपात् सिद्धम्' इति समा- धानेन वकारप्रत्याख्यानमेव लभ्यते तथापि 'व्यङ्ग्लोपवचनं च' इत्यत्र वकारग्रहणादपि सूत्रकृता वकार उपात्त एवेति यथान्याससूत्रानुसारेणैव व्याचष्टे-वकारयकारयोरिति ॥ २ पूर्वोत्तरयोर्डित्त्वसामर्थ्येना- देशांत्वनिश्चयेऽस्येकारस्य प्रत्ययत्वे 'यस्येति च' इत्यकारलोपेनेष्टसिद्धावपि लोपविधाने गौरवापत्त्या प्रक्रम- भङ्गापत्त्या चास्यादेशत्वमेवाङ्गीकृतं लाघवात् । तदा 'आदेः परस्य' इति तु न प्रवर्तते 'समासान्ताः' इत्यधि- कारैकवाक्यत्वात् ॥ ३ बहुव्रीह्यर्थान्यपदार्थे इत्यादिः ॥ ४ 'गन्धस्तु सौरभे नृत्ये गन्धकेऽगर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः ॥' इति कोशाद्बहुवचनान्तो गन्धशब्दः ॥ ५ लोपस्याभावरूपत्वेन कथमवयवतेत्यत आह-स्थानिद्वारेणेति ॥ स्थानिगतमवयवत्वं लोपे आरोप्यते इति भावः ॥ ६ 'षष उत्वं दतृदशसुत्तरपदादेः ष्टुत्वं च' इति उत्वष्टुत्वे ॥
बहुव्रीहिसमासप्रकरणम् । ( १४९ ) १४५ ॥ एभ्यो दन्तस्य दत् वा ॥ कुड्मलाग्रदन् । कुड्मलाग्रदन्तः ॥ ककुदस्या- वस्थायां लोपः ।५।४।१४६ ॥ अजातककुत् । पूर्णककुत् ॥ त्रिककुत्पर्वते ।५।४। १४७ ॥ त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञाया पर्वतविशेषस्य । त्रिककुदोऽन्यः ॥ उद्दिभ्यां काकुदस्य ।५।४।१४८ ॥ लोपः स्यात् ॥ उत्काकुत् । विकाकुत् । काकुदं तालु ॥ पूर्णाद्विभाषा । ५ । ४ । १४९ ॥ पूर्णकाकुत् । पूर्णकाकुदः ॥ सुहृद्दुर्हृदौ मित्रामित्रयोः ।५।४।१५० ॥ सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते ॥ सुहृन्मित्रम् । दुर्हृद- मित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ॥ उरः^Aप्रभृतिभ्यः कप् ।५।४।१५१॥ व्यूढोरस्कः । प्रियसर्पिष्कः । इह पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीरिति एकवचनान्तानि पठ्यन्ते । द्विव- चनबहुवचनान्तेभ्यस्तु ‘शेषाद्विभाषेति विकल्पेन कप्-द्विपुमान् । द्विपुंस्कः ॥ अर्थान्नञः*॥ अनर्थकम् ॥ नञः किम् ? अपार्थम् । अपार्थकम् ॥ इनः स्त्रियाम् ।५।४।१५२ ॥ बहुदण्डिका नगरी ॥ अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति ॥ बहुवाग्ग्मिका ॥ स्त्रियां किम् ? बहुदण्डी बहुदण्डिको ग्रामः ॥ शेषाद्विभाषा ।५।४।१५४॥ अनुक्तसमासान्ताच्छेषाधिकारस्थाद्बहुव्रीहेः कप् वा स्यात् ॥ महायशस्कः । महायशाः ॥ अनु- क्तेत्यादि किम् ? व्याघ्रपात् । सुगन्धिः । प्रियपथः ॥ शेषाधिकारस्थात्किम् ? उपबहवः । उत्तरपूर्वा । सपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः ॥ आपोऽन्यतरस्याम् ।७।४।१५ ॥ कप्याबन्तस्य ह्रस्वो वा स्यात् ॥ बहुमालाकः । बहुमालकः । कबभावे बहुमालः ॥ न संज्ञायाम् ।५।४।१५५ ॥ शेषादिति प्राप्तः कप् न स्यात्संज्ञायाम् ॥ विश्वे देवा अस्य विश्व- देवः ॥ ईयसश्च ।५।४।१५६ ॥ ईय्सन्तोत्तरपदान्न कप् ॥ बहवः श्रेयांसोऽस्य बहुश्रेयान् ॥ गोस्त्रियोरिति ह्रस्वे प्राप्ते-॥ ईयसो बहुव्रीहेर्नेति वाच्यम् * ॥ बह्वयः श्रेयस्योऽस्य बहुश्रे- यसी ॥ बहुव्रीहेः किम् ? अतिश्रेयसिः ॥ वन्दिते भ्रातुः ।५।४।१५७ ॥ ^३पूजितेऽर्थे यो भ्रातृशब्दस्तदन्तान्न कप् स्यात् ॥ प्रशस्तो भ्राता यस्य प्रशस्तभ्राता । 'न पूजनादिति निषे- धस्तु ‘बहुव्रीहौ सक्थ्यक्ष्णोरित्यतः प्रागेवेति वक्ष्यते ॥ वन्दिते किम् ? मूर्खभ्रातृकः ॥ नाडी- तन्त्र्योः स्वाङ्गे ।५।४।१५९ ॥ स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहु- नाडिः कायः । बहुतन्त्रीर्ग्रीवा । तन्त्रीधमनी । स्त्रीप्रत्ययान्तत्वाभावाद्ध्रस्वो न ॥ स्वाङ्गे किम् ? बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥ निष्प्रवाणिश्च ।५।४।१६० ॥ कबभावोऽत्र निपात्यते ॥ प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गता प्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवान् । नव इत्यर्थः ॥ सप्तमीविशेषणे बहुव्रीहौ ।२।२।३५ ॥ सप्तम्यन्तं विशेषणं A उरस्, सर्पिस्, उपानह्, पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीः, दधि, मधु,शालि,अर्थान्नञः। इत्युरःप्रभृतयः॥ १ ‘संख्याव्यया-’ इत्यादि सूत्रेषु भाष्ये ‘कबभावार्थम्’ इति वार्तिकेन ध्वनितोऽयमर्थ इति बोध्यम् ॥ २ सकृदुच्चरितशब्देनार्थद्वयबोधनस्यैव तन्त्रत्वमिति भावः ३ पूजितेऽर्थे इति । ‘वर्तमानात्परः’ इति शेषः ॥ ४ ‘न पूजनात्’ इत्यनेनैव निषेधे सिद्धे व्यर्थमिदमितिशङ्कामपनुदति-न पूजनादितीति ॥
च बहुव्रीहौ पूर्वं प्रयोज्यम् ॥ कण्ठेकालः । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ॥ चित्रगुः॥ सर्वनामसंख्ययोरुपसंख्यानम् * ॥ सर्वश्वेतः । द्विशुक्लः ॥ मिथोऽनयोः २ समासे संख्या- पूर्वम् । शब्दपरविप्रतिषेधात् ॥ द्व्यन्यः ॥ संख्याया अल्पीयस्याः * ॥ द्वित्राः ॥ द्वन्द्वेऽपि । द्वादश ॥ वा प्रियस्य * ॥ गुडप्रियः । प्रियगुडः ॥ गड्डादेः परा सप्तमी * ॥ गडु- कण्ठः ॥ क्वचिन्न–प्रहेगण्डुः ॥ निष्ठा । २।२।३६ ॥ निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् ॥ कृतकृत्यः ॥ जातिकालसुखादिभ्यः परा निष्ठा वाच्या * ॥ सारङ्गजग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः ॥ ^Aवाहिताग्न्यादिषु । २।२।३७ ॥ आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् ॥ प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ * ॥ अस्युद्यतः ।