वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 20, कुल 835 में से
संदर्भ में पढ़ेंपूर्वभागः । ( ३ ) ⎧ ११ कौथुमः ⎪ १२ राणायनः ⎫ ३ सामवेदस्य ⎨ १३ गोभिलः ⎬ दश सूत्रकारा इत्यन्ये । ⎩ १४ राणायनीयः ⎭ ४ अथर्वणवेदस्य ⎧ १५ पिप्पलादः ⎩ १६ शौनकः एतावत्यश्शाखा उपलभ्यन्ते इति केचित् । तत्रैतानि कर्माणि लोकैर्मुमुक्षुभिः सत्त्वशुद्ध्यर्थतया मुक्तैश्च लोकसंग्रहार्थतया कर्तव्यानि भवन्ति । तेषां वेदानां शाखाः बहुधा भवन्ति । तत्र ऋग्वेदस्यैकविंशतिशाखाः, शुक्लयजुर्वेदस्य पञ्चदशभिः शाखाभिः मिलित्वा यजुर्वेदस्य महाभाष्यरीत्यैकशतशाखाः, सीतोपनिषद्ररीत्या तु नवो- त्तरशतशाखाः, सामवेदस्य सहस्रशाखाः, अथर्वणस्य नव शाखा इति ज्ञेयम् । तत्रर्ग्ग्वेदे इदानीं पठ्यमाना बाष्कलशाखेति केचिद्वदन्ति । शाकलशाखेति बहवः । तत्र न प्रमाण- मुपलभ्यते लोकव्यवहारमन्तराऽन्यदिति केचित् । अथर्वणवेदे भागद्वयमस्ति-भैषज्यभागः, मन्त्रभागश्चेति । आद्यः अथर्वणेनान्यो घोरापरनाम्नाऽऽङ्गिरसेन दृष्टः । ततः मिलित्वाऽथर्वा- ङ्गिरस इति नामेति केचित् । कालवशेन सर्वा लुप्ताः सत्यो काश्चिदेव पञ्चषाः शाखा अवशिष्यन्ते । लुप्ताश्च नामतोपि दुर्ज्ञेयाः प्रायस्संवृत्ताः । अथर्वणवेदस्य शाखान्तरं काश्मीरतो लब्धं भूर्जपत्रलिखितममरिकायां प्रतिचित्रितमिति शृणुमः । एषां परिज्ञायमानशाखानां श्रीमाधवाचार्यैः विजयनगरसंस्कृतपुस्तकावल्यां ( विजयनगरं संस्कृतसीरीस्--नामकमुद्रितविवरणप्रमेयसंग्रहे ) भूमिकोक्तरीत्या १३१३ शके अथवा १३९२ तमखिस्तशके उत्पन्नैर्देवगिरौ राज्यकर्तुः जैत्रपालस्य कृष्णराजानुजस्य स्वयं ११८२ तमे शके राज्यासनमधिरूढस्य रामचन्द्रदेवप्रतिभुवो राज्ञः सर्वाधिपत्यपदे नियुक्तो यः प्रसिद्धो हेमाद्रिः चतुर्वर्गचिन्तामणिग्रन्थकर्ता तस्योत्तरकालिकैः भाष्याणि रचितानीदानीमपि जाग्रति । तथोवटभाष्यमपि जागर्ति अन्यान्यप्येतदपेक्षया प्राचीनकालेषु-स्कन्दस्वामि, भवस्वामि, राहदेव, श्रीनिवास, माधवदेव, इत्यादिभिः कृतानि वेदभाष्याण्यासन् । अहो- बलभाष्यमप्यासीदिति चमकव्याख्यायां सायनाचार्यभाष्यादनुमीयते । भट्टभास्करभाष्यं नाम कृष्णयजुर्वेदसंहिताभाष्यमपि मैसूरराज्ये राजकीयमुद्रणालये मुद्रितमुपलभ्यते । तत्रैतत्सं- हितायाः चतुर्थकाण्डभाष्यमनुपलब्धेर्न मुद्रितम् । विक्रमार्कसमयादतीतेषु ८४९ मितवर्षेषु केरलदेशे कलापीग्रामे शिवगुरुशर्मणः पुत्रत्वेन कलेरादितः ३८८९ तमे विभवसंवत्सरे वैशाखमासे शुक्लपक्षे दशम्यामवतीर्णैः श्रीमच्छङ्करभग- वत्पादैश्च दशोपनिषदोऽन्याश्च काश्चित्तथा श्रीमद्विद्यारण्यैश्च बह्व्यो व्याख्याताः । एतद्वि- भागकर्त्तारो व्यासा बहवः, बहव ऋषयश्चेति तु प्रकृतानुपयोगाद्ग्रन्थबाहुल्याच्च नोक्ताः । तथा तत्प्रकारोपि । न चास्मदीयवेदवदन्यान्यग्रन्थराशेरपि वेदशब्देन व्यवहारोऽस्तीति तदङ्क-