भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 21, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 21

त्वमन्येषाम् स्यादिति वाच्यम् । सकलभाषामूलभूतसंस्कृतभाषाया आदिभाषात्वेन तादृश- भाषाव्युत्पादकस्य स्वेतरभाषादिवेदाङ्गत्वे मानाभावात् । किञ्चात्र वेदशब्दस्य योगरूढत्वं, तत्र तु केवलयौगिकत्वमिति विशेषात् । अपि चैतदुत्पत्तिसमयेऽनादेरपौरुषेयार्थतो नित्य- स्यास्य सिद्धत्वात् । मूलवेदवत्तदङ्गस्यापि नव्यत्वेन कल्पनीयत्वाच्च । वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्मः । भोजने प्रयोजने श्येनयागादौ च दोषवारणाय पदत्रयमत्र लक्षणे बोध्यम् । ईश्वरेण वेद्यन्ते ज्ञाप्यन्ते धर्मार्थकाममोक्षा इति वेदः । अपौरुषेयं वाक्यं वेद इति यावत् । यद्वेष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः । अलौकिकपदेन प्रत्यक्षानुमाने व्यावर्त्येते । अनुभूयमानस्रक्चन्दनवनितादेरिष्टप्राप्ति- हेतुत्वमौषधसेवनादेरनिष्टपरिहारहेतुत्वं च प्रत्यक्षसिद्धम् । स्वेनानुभूयमानस्य पुरुषान्तरगत- स्य च तथात्वमनुमानगम्यम् । नन्वेवं भाविजन्मगतसुखादिकमप्यनुमानगम्यमिति चेन्न । तद्विशेषस्यानवगमात् । न हि कोपि ज्योतिष्टोमादिष्टप्राप्तिः कलञ्जभक्षणवर्जनादनिष्टनिवृत्ति- रित्यमुमर्थं वेदमन्तरेणानुमानसहस्रेणाप्यवगन्तुं शक्नोति । तस्मादुक्तलक्षणो वेद इति न स वेद इति सिद्धम् । "प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्ध्यते । एवं विदन्ति वेदेन तस्मा- द्वेदस्य वेदता" इत्यन्यत्र विस्तरः । ऋग्यजुश्च 'मन्त्रः' इत्युच्यते । मन्त्रा द्विविधाः-वैदिकाः, तान्त्रिकाश्चेति । वैदिकाश्च द्विविधाः-प्रगीताः, अप्रगीताश्चेति । तत्र प्रगीताः सामानि । अप्रगीता द्विविधाः-छन्दो- बद्धास्तद्विलक्षणाश्चेति । तत्र प्रथमा ऋचः । अन्त्या यजूंषि । नियतवर्णपदा ऋक् । ऋग्बा- हुल्यवानृग्वेद इति यावत् । अनियतवर्णपदं यजुः । निगदो यजुर्विशेषः । ऋग्यजुषोर- विवक्षया गानप्राधान्यवान् सामवेदः । ऋग्यजुषोरविवक्षया शान्तिकपौष्टिकप्राधान्यवानथ- र्वणवेद इति विवेकः । विधिरर्थवादोऽनुवादश्च ब्राह्मणम् । तच्च "ब्राह्मणम्--अष्टविधम्--इतिहासः--पुरा- णम्--विद्याँ--उपनिषदः--श्लोकाँः--सूत्राणि--व्याख्याँनानि--अनुँव्याख्यानानि" इति श्रीवि- द्यारण्यैः तैत्तिरीयोपनिषट्टीकायां दीपिकायामुक्तम् । तत्र विधिर्नाम-अज्ञातार्थबोधकं वाक्यम् । सविधिश्चतुर्धा--उत्पत्तिविधिर्विनियोगविधिरधिकारविधिः प्रयोगविधिश्चेति । कर्मस्वरूपमात्रबोधको विधिः--उत्पत्तिविधिः । अङ्गप्रधानबोधको विधिः--विनियोगविधिः । कर्मजन्यफलस्वाम्यको विधिः--अधिकारविधिः । प्रयोगप्रांशुभावबोधको विधिः, अङ्गानां प्रयोगबोधको विधिर्वा--प्रयोगविधिः । पुनस्त्रिविधो विधिः--अपूर्वविधिर्नियमविधिः परिसङ्ख्याविधिश्चेति । प्रमाणान्तरेणाप्रा- प्तस्य प्रापको विधिः-अपूर्वविधिः । पक्षप्राप्तानुवादको विधिः-नियमविधिः । इतरव्यावृत्तिफ- लको विधिः-परिसङ्ख्याविधिः । अयं परिसङ्ख्याविधिः द्विधा-श्रोती, लाक्षणिकी चेति । अर्थवादः-प्राशस्त्यनिन्दान्यतरपरं वाक्यम् । स द्विविधः-विधिशेषः, निषेधशेषश्चेति । स त्रिधा--गुणवादानुवादभूतार्थवादभेदात् । प्रमाणान्तरविरोधे सत्यर्थवादः--गुणवादः ।