वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 23, कुल 835 में से
संदर्भ में पढ़ें( ६ ) लघुत्रिमुनिकल्पतरुः । छन्दो-नाम-लौकिकवैदिकशब्दान् छन्दयति नियमयतीति पादयतिविरामादिव्यवस्थापकः पिङ्गलादिमहर्षिप्रणीतो ग्रन्थः । गायत्र्या यजतीत्यादिविध्यादौ निर्णयायोपयुज्यते । तद्भेदाश्च प्रस्तारादिना नानेत्यादिकं तत एवावधार्यम् । ज्योतिषं नाम-लोकवदेव सूर्यचन्द्रादिज्योतिराश्रित्य तत्तद्देशशास्त्रविहितकर्मानुष्ठानकाल- निर्णयायाध्ययनाध्यापनादिविधिनिषेधकालनिर्णयाय गरुडचयनादौ गणितज्ञानायाऽऽपदादिषु होराप्रश्नस्कन्धद्वारा फलादेशादिप्रतिपादनाय कृतो ग्रन्थः । परं तु ऋग्वेदाङ्गज्योतिषं षट्त्रिंशच्छ्लो- क्यात्मकमिति विशेषः । वेदाङ्गज्योतिषग्रन्थस्य टीका सोमाकरकृतास्ति । तत्र टीकान्त्यभागे “शेषकृतयजुर्वेदाङ्गज्योतिष” इत्युल्लेखाद्भेदभेदेन तदङ्गज्योतिषमपि भिन्नमिति ज्ञायते । तत्र यजुर्वेदाङ्गज्योतिषमृग्वेदाङ्गज्योतिषापेक्षयाऽभिन्नमेव । प्रायः । तत्रर्ग्वेदाङ्गज्योतिषस्था एव त्रिंश- च्छ्लोक्या यजुर्वेदाङ्गज्योतिषे कचिद्वृत्तमात्रेण भिन्नाः । अर्थेन त्वभिन्ना एव दृश्यन्ते । तथा त्रयोदश ग्रन्थास्ततोधिका दृश्यन्ते । ऋग्यजुर्वेदाङ्गज्योतिषयोस्संहत्य ग्रन्था एकोनपञ्चाशत्स्युः । अथर्वणवेदाङ्गज्योतिषं त्वेतदुभयापेक्षया विलक्षणमेव । वेदाङ्गज्योतिषाचार्यश्च “लगधः” इति “पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ १ ॥ प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् । कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः” इति तदादावुक्तेः । मलयाळदेशे “लगडाचार्यः” इत्यपि देशभेदेनोच्चारणभेदो दृश्यते । कल्पो नाम-बोधायनापस्तम्बाश्वलायनादिमहर्षिप्रणीत एकशाखायां भिन्नभिन्नप्रकरणोक्त- मन्त्राणां न्यायलभ्यशाखान्तरस्थानां च मन्त्राणां प्रयोगक्रमकल्पको ग्रन्थः । ते च बहवः । तथापि कानिचित्प्रदर्श्यन्ते नामभिः-- तत्र पूर्वसूत्राणि नव— अपरसूत्राणि नव— १ अग्निवेश्यसूत्रम् । १ वैखानससू० २ बोधायनसूत्रम् । २ शौनकीयसू० ३ आपस्तम्बसूत्रम् ! ३ भारद्वाजसू० ४ सत्याषाडसूत्रम् । ४ अग्निवेश्यसू० ५ द्राह्यायणसूत्रम् । ५ जैमिनीयसू० ६ अगस्त्यसूत्रम् । ६ अमाथुन्यसू० ७ शाकल्याश्वलायनसूत्रम् । ७ माध्यन्दिनसू० ८ शाम्भवीयसूत्रम् । ८ कौण्डिन्यसू० ९ कात्यायनीयसूत्रम् । ९ कौषीतकिसू० इत्यष्टादश सूत्राणि स्मृतिमुक्ताफले आचारकाण्डे स्मृतिकर्तृनिरूपणप्रकरणे वैद्यनाथदीक्षितै- र्यथोक्तानि तथात्र प्रदर्शितानि । एतेषां श्रौतस्मार्तधर्मादिभेदेन बहवोऽवान्तरभेदाः । व्याकरणं नाम-अर्थविशेषमाश्रित्य स्वरप्रकृतिप्रत्ययादिविशेषादीन्विद्वत्पदखण्डार्थविशेष- ज्ञापकः विशेषेण संस्कारविशेषेण आसमन्ताद्वैदिकाँल्लौकिकांश्च शब्दान्करोति तथाभूतम्