भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 24, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 24

पूर्वभागः । ( ७ )

पाणिन्यादिमहर्षिप्रणीता ग्रंथराशिः । तच्च नवविधम् “—ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाक- टायनम् । सारस्वतं चापिशलं शाकलं पाणिनायकम” इति श्रीतत्त्वनिधावुक्तेः “ सोयं नवव्या- करणार्थवेत्ता” इति श्रीवाल्मीकीयरामायणे उक्तेश्च । न चेदमप्रमाणम् । हनुमत्समये पाणिन्यादेर- नुत्पत्तेरिति वाच्यम् । अत एव पूर्वपूर्वयुगीयपाणिनीयव्याकरणादीनां सत्त्वानुमानात् । “धाता यथापूर्वमकल्पयद्” इति श्रुतेः । ( १ ) तत्र-ऐन्द्रं व्याकरणं श्रुत्योद्घुष्यते—“वाग्वै पराच्यव्याकृता अवदत् ॥ तं देवा इन्द्रमब्रुवन् । इमं नो वाचं व्याकुर्विति । सोऽब्रवीत् । वरं वृणै । मह्यं चैवैष वायवे च सह गृहातादिति । तस्मादैन्द्रवायवस्सह गृह्यते । तामिन्द्रो मध्यतोऽपक्रम्य व्याकरोत् । तस्मा- दियं व्याकृता वागुच्यते” इति । इयं श्रुतिरिन्द्रस्य व्याकरणकर्तृत्त्वपरत्वेन श्रीविद्यारण्या- चार्यैर्व्याख्याता । ( २ ) चान्द्रमार्षग्रन्थेष्वन्वेषणीयम् । “ चान्द्रास्तु आमोदरकुक्षिविति पेठुः” इत्यादिना स्पष्टमनुमातुं शक्यते तत्सत्ता । ( ३ ) काशकृत्स्नं व्याकरणं पतञ्जलिना “ शैतोर्चे ष्ठन्यता—” इत्यत्र नाम्ना उक्तम् । ( ४ ) कौमारं त्वाग्नेयपुराणन्त्यभागे । एतत्पाणिनिकृतं प्रातिशाख्यसूत्रमेव तदित्यन्ये । ( ५-६ ) सारस्वतं, शाकटायनमृक्तन्त्रव्याकरणाख्यं चाधुना मुद्रितान्युपलभ्यन्त एव सर्वत्र भरतखण्डादौ । ( ७-८ ) आपिशलं, शाकलं च; पाणिनिसूत्रेषु तत्रतत्र तन्नाम्नोरनुवादात्ते बभूवतुरि- त्यनुमीयते । ( ९ ) पाणिनीयं व्याकरणं चाधुना मुद्रितं सर्वत्रोपलभ्यत एव । एवम् “ अवङ् स्फोटायनस्य” इत्युक्तेः स्फोटायनव्याकरणं, कात्यायनेन “पौष्करसादेः” इत्युक्तेः पौष्करसादिव्याकरणं, “विन्दतिश्चान्द्रदौर्गादेः” इत्युक्तेर्दौर्गव्याकरणम्, “व्याघ्रमूत्यादय- स्त्वेनम्” इत्याद्युक्तेर्व्याघ्रभूतिव्याकरणादिकमप्यासीदित्यनुमीयते । श्रीमत्पण्डितम्याक्सिमूलर्कृतं, भोजकृतं, व्याकरणं श्रीमण्डारकरकृतमार्गोपदेशिकादिव्याकरणं च सुलभमेव । एवमाशुबोधव्याक- रणं जैनेन्द्रव्याकरणं कातन्त्रव्याकरणं च । नन्वेवं सत्स्वेतेषु बहुषु व्याकरणेष्वन्यतमस्य यस्य कस्य वा वेदाङ्गत्वमास्तामिति चेन्न । इच्छया नियममन्तरा कस्याप्यर्थनिर्णयस्यायुक्तत्वात् । एकस्यैव शब्दस्य व्याकरणभेदेन साधु- त्वासाधुत्वयोरापत्तेश्च । तस्मात्सर्वलौकिकालौकिकशब्दव्युत्पादकस्य पाणिनीयव्याकरणस्यैव वेदाङ्गत्वमभ्युपगमस्स्यात् । व्याकरणान्तरे तु सर्वेषां लौकिकालौकिकशब्दानां न व्युत्पादनम् । “इदमक्षरं छन्दो वर्णशास्तमनुक्रान्तं ब्रह्माबृहस्पतये प्रोवाच । बृहस्पतिरिन्द्राय, इन्द्रो भरद्वा- जाय, भरद्वाज ऋषिभ्यः, ऋषयो ब्राह्मणेभ्यः । तं खल्विममक्षरसमाम्नायमित्याचक्षते न मुक्त्वा न नक्तं ब्रूयाद्वक्षरराशिः” इति ऋक्तन्त्रव्याकरणोक्तरीत्याक्षररूपस्यास्य चतुर्दशसूत्रकद- म्बस्याम्नायत्वमिति तन्मूलकत्वाच्च । अत एवास्य ज्ञाने सर्ववेदपारायणजं पुण्यमित्युक्तम् । छान्दो-

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 24, कुल 835 में से · BharatKosha