भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 25, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 25

( ८ ) लघुत्रिमुनिकल्पतरुः ।

ऽयेऽपि व्याकरणं ( चतुर्दशसूत्ररूपम् ) उपक्रम्य वेदानां वेद इत्युक्तम् । किं च “कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः । द्वापरे शङ्खलिखिताः कलौ पाराशरास्मृताः” इति वचनेनाऽऽचारव्यवस्थावच्छब्दसाधुत्वासाधुत्वव्यवस्थाया अपि पाणिनिकृताया एवाभ्युपेयत्वात् । अत एव पराशरोपपुराणे-“पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न किंचन' इत्युक्तं संगच्छते । अत एव “शताच्च ठन्यतावशते” इति सूत्रे शाकलका- शकृत्स्नव्याकरणान्तरस्थं “ शताच्च ठन्यतावग्रन्थे ”इति सूत्रमुपन्यस्य तन्मते शत्यश्शतिको वा गोसंघ इति साधुः । पाणिनिमते तु शतको गोसंघ इत्येव साधुरिति व्याकरणयोर्विरोधमु- पन्यस्य नियतकालाश्च स्मृतयो व्यवस्थाहेतवो भवन्ति । “कलौ पाराशरास्मृताः” इतिवन्मु- नित्रयमतेनैवाऽद्यत्वे साध्वसाधुप्रविभाग इत्युक्तं भाष्यकैयटयोः । यथोत्तरम् मुनीनां प्रामाण्याच्च । अत एव “न बहुव्रीहौ” इत्यत्र महाभाष्ये त्वत्कपितृक इत्यस्यैव साधुत्वं, न त्वत्कत्पितृक इत्य- स्येति स्पष्टम् । एतद्व्याकरणमूलभूतचतुर्दश सूत्राणि भगवता परमकारुणिकेन महेश्वरेण पाणिनये उपदिष्टानि । अत एव “ नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् (१४)। उद्धर्तु- कामस्सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् ” इति नंदिकेश्वरकृतकाशिकायामुक्तं, “ येना क्षरसम्नाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तम् ” इत्युक्तं च संगच्छत इति दिक् । ननु पदपदार्थनिर्णायकत्वेन व्याकरणस्योक्तं वेदाङ्गत्वम् । तत्र व्याकरणस्थपदपदार्थनिर्णायकं किमिति चेत्तत्रान्यत्तत्रान्यदित्यनवस्थेति चेन्न । वेदार्थनिर्णायकं मुख्यमङ्गमिदमेव । व्याकरणे तन्निर्णायकं तु काव्यकोशादिकम् । तत्र चोपदेशपरम्परेत्यदोषादिति दिक् । निरुक्तं नाम-व्याकरणस्यैव परिशिष्टमिति वक्तुं युक्तम् । वैदिकाश्शब्दा निश्शेषेणोच्यन्तेऽर्था- दिन्निर्णयेनेति तथाभूतः यास्कप्रणीतो ग्रन्थः । स चाष्टादशाध्यायात्मकः । तत्रान्तिमौ द्वाव- ध्यायौ परिशिष्टशब्देनोच्येते । चतुर्दशाध्यायानां खण्डानि ( ४८० ) एकेषां मते । अन्यमते ( ४४८ ), ततः परस्य मते ( ४४३ ) इति ज्ञेयानि । नैघण्टुककाण्डस्य पञ्चाध्यायाः, नैगमकाण्डस्य षडध्यायाः, दैवतकाण्डस्य षडध्यायाः, परिशिष्टस्यैकोऽध्यायः इत्यष्टादशाध्याया अत्र ज्ञेयाः । उदाहरणरूपं वेदवाक्यं निगमः । एतद्भाष्यं स्कन्दस्वामिना कृतम् । नैघण्टुक- काण्डे षष्ठाध्यायादि जम्बूमार्गाश्रमवासिदुर्गाचार्यकृतमृज्वर्थाख्यव्याख्यानं मुद्रितमेव । अत्रिगोत्र- देवराजयज्वकृतनैघण्टुककाण्डस्य निर्वचनाख्यव्याख्यानमादौ पञ्चमाध्यायान्तमस्ति । क्षीरस्वाम्य- नन्ताचार्येण निघण्टुव्याख्या कृतेत्युल्लेखः क्वचिद्दृश्यते । निघण्टुपदेनायमन्यो वा लौकिक इति विचार्यम् । प्राय इदमेव भवेत् । यतोस्य नाम बहवो ग्रन्थकारास्स्वग्रन्थेषूल्लङ्कयन्ति । तस्यास्य व्याकरणस्य को विषयः, किं प्रयोजनम्, अधिकारी कः, सम्बन्धश्च कः इति चेत्तत्राहुः-वैदिका लौकिकाश्च शब्दाः विषयाः । तज्ज्ञानं प्रयोजनम् । तज्जिज्ञासुरधीतकाव्य- कोशादिरधिकारीति ज्ञेयम् । तान्यष्टादशप्रकाराणि- १ वेदरक्षा, २ ऊहः, ३ आगमः, ४ लाघवम्, ५ असन्देहः, ६ म्लेच्छताऽसम्पत्तिः, ७ स्वरवर्णदोषराहित्यम्, ८ सार्थकवेदज्ञा- नम्, ९ सुशब्दापशब्दज्ञानयोर्धर्माधर्मज्ञानम्, १० प्रत्यभिवादे नाम्नि प्लुतज्ञानम्, ११