भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 26, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 26

पूर्वभागः । ( ९ )

विध्यादिवाक्यघटकविभक्तिपदार्थादिज्ञानम्, १२ पदाक्षरादिविभागज्ञानम्, १३ चतुर्विधपदजात- कालव्यङ्ग्यव्यञ्जकविभक्तिस्थानभेदज्ञानम्, यद्वा सकलपदजातज्ञानम्, १४ वाग्विस्तारसम्पत्तिः, १५ असाधुशब्देभ्यो विविच्य सुशब्दज्ञानम्, १६ अपशब्दप्रयोगजन्यप्रत्यवायपरिहारकप्राय- श्चित्ताभावः, १७ नामकरणेषु विहितनामस्वरूपज्ञानम्, १८ सर्वविभक्त्यन्तानां सम्यगुच्चार- णमिति । एतद्व्याख्यानं महाभाष्ये विस्तृतम् । तथापि किञ्चिन्निरूप्यते । तद्यथा-( १ ) भद्रं कर्णेभिरित्यादौ लोकविलक्षणस्य कर्णेभिरित्यस्य "बहुलं छन्दसि" इति व्याकरणेन साधु- त्वम् । ( २ ) अग्नये त्वा जुष्टं निर्वपामीत्यादौ सूर्योद्देश्यताकत्वविवक्षायां सूर्याय त्वा जुष्टं निर्वपामीत्याद्यूहो व्याकरणेन सिध्यति ( ३ ) विश्वेदेवासः इत्यादौ "आज्जसेरसुक्" इत्यसु- गागम इत्यादिकं व्याकरणेन सिध्यति । ( ४ ) ब्राह्मणस्याध्यापनं धर्मः । तच्चाध्यापनं वैदुष्या- यत्तम् । तच्च शब्दार्थादिषु साध्वसाधुत्वप्रतियोगिकभेदज्ञानाधीनम् । तच्च शब्दादीनां प्रतिपद- पाठादिना दुःशकम् । शब्दादीनामानन्त्यात् । तस्मादुत्सर्गापवादाद्यनुगमकलक्षणेनैव तज्ज्ञानं साध्यम् । तेन लाघवमपि । अत एव महाभाष्ये "बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिप- दोक्तानां शब्दानां शब्दपारायणं प्रोवाच । नान्तं जगाम । इन्द्रश्चाध्येता । बृहस्पतिर्वक्ता । दिव्यं वर्षसहस्रमध्ययनस्य कालः । न चान्तं जगाम" इत्युक्तम् । शब्दपारायणम्-योगरूढ्या तदाख्यशास्त्रविशेष इति कैयटः । एवं च प्रतिपदपाठस्य दुश्शकत्वप्रतिपादकोऽयमर्थवादः । ( ५ ) "स्थूलपृषतीमनड्वाहीमालभेत", "इन्द्रशत्रुर्वर्धस्व" इत्यादौ बहुव्रीहिस्तत्पुरुषो वेति सन्देहे पूर्वपदप्रकृतिस्वरेण बहुव्रीहिरिति तु व्याकरणेन सिध्यति । ( अत्रेयमाख्यायिका ) पुरा किल त्वष्टुर्ब्रह्मणः पुत्रे इन्द्रेण निहते विश्वरूपवधात्कुपितेन त्वष्ट्राऽऽरब्धे वीन्द्रे सोमेऽनपहूतेनैवे- न्द्रेण पीतस्य सोमस्यावशेषं दृष्ट्वा क्रुद्धस्त्वष्टेन्द्रहन्तृवृत्राख्यपुत्रोत्पादनायाऽभिचारिकं यियक्षमाणः आहवनीयमुपप्रावर्तयत्स्वाहेन्द्रशत्रुर्वर्धस्वेति । ततो वृत्र उदभूदिति श्रूयते तैत्तिरीयसंहिता- याम् । तदेतच्छ्रुत्वा भीत इन्द्रः ब्रह्मलोकं गत्वा सरस्वतीं तुष्टाव । ततोनुकम्पया सरस्वती [L22